All kośas › Medinīkośa
नानार्थशब्दकोश or मेदिनीकोश Medinīkośa
2,500 verses · text only, tagging comes next
Part 1
॥ श्रीगणेशाय नमः ॥
अथ नानार्थशब्दकोशो नाम
मेदिनीकोशः ।
वृषाङ्काय नमस्तस्मै यस्य मौलिविलम्बिनी ।जटावेष्टनजां शेाभां विभावयति जाह्नवी ॥ १ ॥
1 · p. 1
अनुष्टुप्metre not read in every lineimpossible sign sequence: ेष्टनजां शेाभां विnearly अनुष्टुप्
पातु(१) वो मदकालिम्ना धवलिम्ना रदस्य च ।गङ्गायमुन्योः सङ्गं वहन्निव गजाननः ॥ २ ॥
2 · p. 1
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 मु (syllables merged)
पूर्वाचार्यकृतीर्वीक्ष्य शब्दशास्त्रं निरूप्य च ।नानार्थशब्द्कोशोऽयं लिङ्गभेदेन कथ्यते ॥ ३ ॥
3 · p. 1
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 श (syllables merged)
प्रायशो रूपभेदेन विशेषणवशात् क्वचित् ।स्त्रीपुन्नपुंसकं ज्ञेयं विशेषोक्तेश्च कुत्रचित् ॥ ४ ॥
4 · p. 1
अनुष्टुप्
त्रिलिङ्ग्यां त्रिष्विति पदं मिथुने तु द्वयोरिति ।निषिद्धलिङ्गं शेषार्थं त्वन्ताथादि न पूर्वभाक् ॥ ५ ॥
5 · p. 1
अनुष्टुप्
रूपाद्व्यक्तं लिङ्गमुक्तं लिपिभ्रान्तिच्छिदे क्वचित् ।विशेष्यनिघ्नेऽनुक्तेऽपि विज्ञेया वाच्यलिङ्गता ॥ ६ ॥
6 · p. 1
अनुष्टुप्
गुणे शुक्लादिकट्वाद्याः पुंसि स्युस्तद्वति त्रिषु ।तीक्ष्णाद्याश्च गुणे क्लीबे गुणिलिङ्गास्तु तद्वति ॥ ७ ॥
7 · p. 1
अनुष्टुप्
क्लीबपुंसोरपि स्त्रीत्वं क्वाप्यल्पत्वविवक्षया ।जातिवाचकब्दानामपि तत् स्त्रीविवक्षया ॥ ८ ॥
8 · p. 1
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
उद्भिदः प्रसवे क्लीबे हरीतक्यादयः स्त्रियाम् ।पुष्पे जातीप्रभृतयः स्वलिङ्गा व्रीहयः फले ॥ ९ ॥
9 · p. 1
अनुष्टुप्
प्राङ् नानार्थान्न (१) तल्लिङ्गं द्वयोर्द्वन्द्वेन चैकता ।शब्दावृत्तिर्न लिङ्गैक्ये सप्तमी न विशेषणे ॥ १० ॥
10 · p. 2
अनुष्टुप्
क्लीबे नपुंसके पुंसि स्त्रियां योषिति च द्वयोः ।त्रिषु चेत्यादि यद्रूपं तल्लिङ्गस्यैव वाचकम् ॥ ११ ॥
11 · p. 2
अनुष्टुप्
नानार्थः प्रथमान्तोऽत्र सर्वत्रादौ प्रदर्शितः ।(२)सप्तम्यन्तोऽभिधेयेषु वर्तमानो विनिश्चितः ॥ १२ ॥
12 · p. 2
अनुष्टुप्
एकद्वित्रिचतुःपञ्चषड्वर्णानुक्रमात् कृतः ।स्वरकाद्यादिकाद्यान्तवर्गैर्नानार्थसङ्ग्रहः ॥ १३ ॥
13 · p. 2
अनुष्टुप्
नानार्थकोशपुस्तकभारार्जनदुःखहानये कृतिनः ।मेदिनिकरकृतकोशो विशुद्धलिङ्गोऽभिलिख्यतामेकः ॥ १४ ॥
14 · p. 2
गीतिः