कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Medinīkośa

नानार्थशब्दकोश or मेदिनीकोश Medinīkośa

2,500 verses · text only, tagging comes next

डान्तवर्गः · डद्विकम्

डद्विकम्

अण्डं मुष्के च पेश्यां स्यादिडा तु बुधयोषिति ॥ १ ॥
13.2.1 · p. 40
सौरभेय्यां च वचने वसुमत्यामपि स्त्रियाम् ।काण्डः स्तम्बे तरुस्कन्धे बाणेऽवसरनीरयोः ॥ २ ॥
13.2.2 · p. 40
अनुष्टुप्
कुत्सिते वृक्षभिन्नाडीवृन्दे रहसि न स्त्रियाम् ।क्रीडा केलिप्रकारे स्यात् खेलावज्ञानयोरपि ॥ ३ ॥
13.2.3 · p. 40
अनुष्टुप्
कुण्डमग्न्यालये मानभेदे देवजलाशये ।कुण्डी कमण्डलौ जारात् पतिवत्नीसुते पुमान् ॥ ४ ॥
13.2.4 · p. 40
अनुष्टुप्
पिठरे तु न ना क्ष्वेडो ध्वनौ कर्णामये विषे ।क्ष्वेडा वंशशलाकायां सिंहनादे च योषिति ॥ ५ ॥
13.2.5 · p. 40
अनुष्टुप्
लोहितार्कपर्णफले घोषपुष्पे नपुंसकम् ।दुरासदे च कुटिले वाच्यलिङ्गः प्रकीर्तितः ॥ ६ ॥
13.2.6 · p. 40
अनुष्टुप्metre not read in every line
क्रोडः शनौ शूकरे ना न पुमानङ्करक्षसोः ।खण्डोऽस्त्री शकले नेक्षुविकारमणिदोषयोः ॥ ७ ॥
13.2.7 · p. 41
अनुष्टुप्
खण्डः पानान्तरे भेदे गण्डः स्यात् पुंसि खड्गिनि ।ग्रहयोगप्रभेदे च वीथ्यङ्गे पिटकेऽपि च ॥ ८ ॥
13.2.8 · p. 41
अनुष्टुप्
चिह्नवीरकपोलेषु हयभूषणबुद्बुदे ।गडुः पृष्ठगुडे कुब्जे गडो मीनान्तराययोः ॥ ९ ॥
13.2.9 · p. 41
अनुष्टुप्
गुडः स्याद्गोलके हस्तिसन्नाहेक्षुविकारयोः ।गुडा स्नुह्यां च कथिता गुडिकायां च योषिति ॥ १० ॥
13.2.10 · p. 41
अनुष्टुप्
गोण्डः पामरजातौ च वृद्धनाभौ च तद्वति ।चण्डो ना तिन्तिडीवृक्षे यमकिङ्करदैत्ययोः ॥ ११ ॥
13.2.11 · p. 41
अनुष्टुप्
चण्डी कात्यायनीदेव्यां हिंस्रकोपनयोषितोः ।चण्डा धनहरीशङ्खपुष्प्योस्त्रिष्वतिकोपने ॥ १२ ॥
13.2.12 · p. 41
अनुष्टुप्
तीव्रेऽपि चूडा वडभौ शिखायां बाहुभूषणे ।चोडः प्रावरणे भूम्नि देशभेदे जडा स्त्रियाम् ॥ १३ ॥
13.2.13 · p. 41
अनुष्टुप्
शूकशिंब्यां हिमग्रस्तमूकाप्रज्ञेषु तु त्रिषु ।ताडस्तु ताडने घोषे मुष्टिमेयतृणादिषु ॥ १४ ॥
13.2.14 · p. 41
अनुष्टुप्
ताडी पत्रद्रुमे चाथ दण्डोऽस्त्री लगुडे पुमान् ।व्यूहभेदे प्रकाण्डेऽश्वे कोणमन्थानयोरपि ॥ १५ ॥
13.2.15 · p. 41
अनुष्टुप्
सैन्ये काले मानभेदे चण्डांशोः पारिपार्श्विके ।दमे यमेऽभिमाने च नाडी नाले व्रणान्तरे ॥ १६ ॥
13.2.16 · p. 41
अनुष्टुप्
शिरायां गण्डदूर्वायां चर्यायां कुहनस्य च ।तथा षट्क्षणकालेऽपि नीडं स्थानकुलाययोः ॥ १७ ॥
13.2.17 · p. 41
अनुष्टुप्
पण्डः षण्डे धियि स्त्री स्यात् पाण्डुर्ना नृपतौ सिते ।पिण्डो बोले बले सान्द्रे देहागारैकदेशयोः ॥ १८ ॥
13.2.18 · p. 41
अनुष्टुप्
देहमात्रे निवापे च गोलसिह्लकयोरपि ।आड्रपुष्पे च पुंसि स्यायात् क्लीबमाजीवनायसोः ॥ १९ ॥
13.2.19 · p. 41
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
पिण्डी तु पिण्डीतगरेऽलाबुखर्जूरभेदयोः ।पीडा कृपाशिरोमालाऽपमर्दसरलद्रुषु ॥ २० ॥
13.2.20 · p. 41
अनुष्टुप्
भाण्डं पात्रे वणिङ्मूलधने भूषाऽश्वभूषयोः ।मण्डः पञ्चाङ्गुले शाकभेदे क्लीबं तु मस्तुनि ॥ २१ ॥
13.2.21 · p. 42
अनुष्टुप्
आमलक्यां स्त्रियां मण्डाथास्त्रियां सारपिच्छयोः ।मुण्डो दैत्यान्तरे राहुग्रहे ना मुण्डिते त्रिषु ॥ २२ ॥
13.2.22 · p. 42
अनुष्टुप्
मुण्डा मुण्डीरिकायां स्यात् स्त्रियामस्त्री तु मूर्द्धनि ।रण्डा मूषिकपर्ण्यां च विधवायां च योषिति ॥ २३ ॥
13.2.23 · p. 42
अनुष्टुप्
रोडः क्षोदे भवेत् पुंसि तृप्ते तु वाच्यलिङ्गकः ।(१)रण्डा तु पांसुलायां स्त्री त्रिषु हस्तादिवर्ज्जिते ॥ २४ ॥
13.2.24 · p. 42
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable)
व्याडो हिंस्रपशौ सर्पे शुण्डा पानगृहे मता ।अप्यम्बुहस्तिनीवेश्याहस्तिहस्तमुरासु च ॥ २५ ॥
13.2.25 · p. 42
अनुष्टुप्
शौण्डो मत्ते च विख्यातः पिप्पल्यां च भवेत् स्त्रियाम् ।षण्डं पद्मादिसङ्घाते न स्त्री स्याद्गापतौ पुमान् ॥ २६ ॥
13.2.26 · p. 42
अनुष्टुप्