कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Medinīkośa

नानार्थशब्दकोश or मेदिनीकोश Medinīkośa

2,500 verses · text only, tagging comes next

नान्तवर्गः · नत्रिकम् (1/2)

नत्रिकम्

अञ्जनं कज्जले चाक्तौ सौवीरे च रसाञ्जने ॥ २६ ॥
20.3.26 · p. 84
पुंसि ज्येष्ठादिग्गजयोरञ्जना वानरीभिदि ।अञ्जनी लेप्यनार्यां चावनं प्रीतौ च रक्षणे ॥ २७ ॥
20.3.27 · p. 84
अनुष्टुप्
अयनं पथि भानोरप्युदग्दक्षिणतो गतौ ।अपानं तु गुदे क्लीबं पुंसि स्यात्तस्य मारुते ॥ २८ ॥
20.3.28 · p. 84
अनुष्टुप्
असनं क्षेपणे क्लीबं पुंसि स्याञ्जीवकद्रुमे ।अङ्गनं प्राङ्गणे याने कामिन्यामङ्गना मता ॥ २९ ॥
20.3.29 · p. 84
अनुष्टुप्
अर्जुनः ककुभे पार्थे कार्तवीर्यमयूरयोः ।मातुरेकसुतेऽपि स्यात् पुंलिङ्गो धवलेऽन्यवत् ॥ ३० ॥
20.3.30 · p. 84
अनुष्टुप्
नपुंसकं तृणे नेत्रगदे चाप्यर्जुनी गवि ।उषायां बाहुदानद्यां कुट्टिन्यामपि च क्वचित् ॥ ३१ ॥
20.3.31 · p. 84
अनुष्टुप्
अम्लानो महासहायां नान्यलिङ्गस्तु निर्मले ।अर्शोघ्नी तालमूल्यां स्यादर्शोघ्नः सूरणेऽपि च ॥ ३२ ॥
20.3.32 · p. 85
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 म (wrong syllable)
असिक्नी स्यादवृद्धान्तःपुरप्रेष्यानदीभिदोः ।असनिः स्त्रीपुंसयोः स्याच्चञ्चलायां पवावपि ॥ ३३ ॥
20.3.33 · p. 85
अनुष्टुप्
अरत्निर्ना सप्रकोष्ठतताङ्गुलिकरेऽपि च ।कफोणावप्यथालौ स्याद् वृश्चिके भ्रमरे पुमान् ॥ ३४ ॥
20.3.34 · p. 85
अनुष्टुप्
अर्थी पुमान् याचके स्यात् सेवके च विवादिनि ।अध्वा ना पथि संस्थाने स्यादवस्कन्दकालयोः ॥ ३५ ॥
20.3.35 · p. 85
अनुष्टुप्
अर्वा तुरङ्गमे पुंसि कुत्सिते वाच्यलिङ्गकः ।आसनं द्विरदस्कन्धे पीठे यात्रानिवर्तने ॥ ३६ ॥
20.3.36 · p. 85
अनुष्टुप्
आसनी विपणौ स्थित्यामासनो (१)जीवकद्रुमे ।आदानं ग्रहणेऽपि स्यालङ्कारे च वाजिनाम् ॥ ३७ ॥
20.3.37 · p. 85
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
sआपन्नः सविपत्तौ च प्राप्ते वाच्यवदीरितः ।आत्मा पुंसि स्वभावेऽपि प्रयत्नमनसोरपि ॥ ३८ ॥
20.3.38 · p. 85
अनुष्टुप्Latin letters: s
धृतावपि मनीषायां शरीरब्रह्मणोरपि ।आलानं करिणां बन्धस्तम्भे रज्जौ च न स्त्रियाम् ॥ ३९ ॥
20.3.39 · p. 85
अनुष्टुप्
ईशानं ज्योतिषि क्लीबं पुंलिङ्गः स्यात् त्रिलोचने ।उत्तानमगभीरे स्यादूर्ध्वास्यशयिते त्रिषु ॥ ४० ॥
20.3.40 · p. 85
अनुष्टुप्
उत्थानमुद्यमे तन्त्रे पौरुषे पुस्तके रणे ।प्राङ्गणोद्गमहर्षेषु मलरोगेऽपि न द्वयोः ॥ ४१ ॥
20.3.41 · p. 85
अनुष्टुप्
उद्यानं स्यान्निःसरणे वनभेदे प्रयोजने ।उदानोऽप्युदरावर्ते वायुभेदे भुजङ्गमे ॥ ४२ ॥
20.3.42 · p. 85
अनुष्टुप्
उद्धानमुद्गते वाच्यलिङ्गं चुल्यां नपुंसकम् ।ओदनं न स्त्रियां भक्ते बलायोमोदनी स्त्रियाम् ॥ ४३ ॥
20.3.43 · p. 85
अनुष्टुप्
कमनः कामुके कामेऽभिरूपेऽशोकपादपे ।कम्पनं न द्वयोः कम्पे कम्प्रे स्यादभिधेयवत् ॥ ४४ ॥
20.3.44 · p. 85
अनुष्टुप्
कठिनमपि निष्ठुरे स्यात्स्तब्धेऽपि त्रिषु नपुंसकं स्थाल्याम् ।कठिनी खटिकायामपि कठिना गुडशर्करायां च ॥ ४५ ॥
20.3.45 · p. 86
आर्या
क्रन्दनं रोदनेऽपि स्यादाह्वानेऽप्यथ कल्पना ।करिणः सज्जनायां स्त्री क्लीबं लुप्तौ च कल्पने ॥ ४६ ॥
20.3.46 · p. 86
अनुष्टुप्
कर्त्तनं न द्वयोश्छेदे नारीणां सूत्रनिर्मितौ ।कर्मास्त्री व्याप्यक्रिययोः कदनं मर्दपापयोः ॥ ४७ ॥
20.3.47 · p. 86
अनुष्टुप्
काञ्चनः काञ्चनाले स्याच्चम्पके नागकेसरे ।उदुम्बरे च धत्तूरे हरिद्रायां च काञ्चनी ॥ ४८ ॥
20.3.48 · p. 86
अनुष्टुप्
क्लीबेऽब्जकेसरे हेम्नि कामिनी भीरुवन्दयोः ।कामी तु कामुके चक्रवाके पारावतेऽपि च ॥ ४९ ॥
20.3.49 · p. 86
अनुष्टुप्
कानीनः कन्यकाजाततनये व्यासकर्णयोः ।काकिनी पणपादेऽपि मानपादे वराटके ॥ ५० ॥
20.3.50 · p. 86
अनुष्टुप्
काननं विपिने गेहे परमेष्ठिमुखेऽपि च ।कुहनं मृत्तिकाभाण्डविशेषे काचभाजने ॥ ५१ ॥
20.3.51 · p. 86
अनुष्टुप्
कुहना दम्भचर्यायामीर्ष्यालौ कुहनं त्रिषु ।कृती स्यात् पण्डिते योग्ये केतनं तु निमन्त्रणे ॥ ५२ ॥
20.3.52 · p. 86
अनुष्टुप्
गृहे केतौ च कृत्येऽथ केशी केशवति त्रिषु ।दैत्ये ना चौरपुष्प्यां स्त्री कौलीनं गुह्यजन्ययोः ॥ ५३ ॥
20.3.53 · p. 86
अनुष्टुप्
कुकर्मणि कुलीनत्वे युद्धे पश्वहिपक्षिणाम् ।कौपीनं स्यादकार्ये च चीरगुह्यप्रदेशयोः ॥ ५४ ॥
20.3.54 · p. 86
अनुष्टुप्
खलिनी खलवृन्दे स्यात्तालपर्ण्यामपि स्त्रियाम् ।खञ्जनः खञ्जरीटे स्त्री सर्षप्यां खञ्जनं गतौ ॥ ५५ ॥
20.3.55 · p. 86
अनुष्टुप्
खड्गी ना गण्डके मञ्जुघोषे खड्गधरे त्रिषु ।गर्जनं निनदे कोपे गहनं कलिले त्रिषु ॥ ५६ ॥
20.3.56 · p. 86
अनुष्टुप्
नपुंसकं गह्वरे स्याद्दुःखकाननयोरपि ।गन्धनमुत्साहे स्यात्प्रकाशने सूचनेऽपि हिंसायाम् ॥ ५७ ॥
20.3.57 · p. 86
metre not recognised
ग्रामीणः शुनि काके पुंसि त्रिषु सम्भृते ग्रामैः ।ग्रावा तु प्रस्तरे पृथ्वीधरे पुंस्यथ गृञ्जनम् ॥ ५८ ॥
20.3.58 · p. 86
अनुष्टुप्metre not read in every line
विषदग्धपशोर्मांसे क्लीबं पुंसि रसोनके ।गोस्तनो हारभेदे ना द्राक्षायां गोस्तनी स्त्रियाम् ॥ ५९ ॥
20.3.59 · p. 87
अनुष्टुप्
गोमी शृगाले पुंसि स्यात्त्रिषु गोमत्युपासके ।घट्टना चलनावृत्त्योश्चन्दनी तु नदीभिदि ॥ ६० ॥
20.3.60 · p. 87
अनुष्टुप्
चन्दनोऽस्त्री मलयजे भद्रकाल्यां नपुंसकम् ।चलनं भ्रमणे कम्पे कम्प्रे तु वाच्यलिङ्गकम् ॥ ६१ ॥
20.3.61 · p. 87
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable)
चलनी वस्त्रयोधिन्यां वारिभेदेऽपि च क्वचित् ।चक्री तैलिकभित्कोककुलालाजाहिसूचके ॥ ६२ ॥
20.3.62 · p. 87
अनुष्टुप्
चर्मी फलकपाणौ स्याद्भूर्जे भृङ्गरिटावपि ।चर्मकृत्तौ च फलके चेतना संविदि स्त्रियाम् ॥ ६३ ॥
20.3.63 · p. 87
अनुष्टुप्
वाच्यवत्प्राणयुक्तेऽथ छद्म व्याजापदेशयोः ।छर्दनं वमने क्लीबं निम्बालम्बुषयोः पुमान् ॥ ६४ ॥
20.3.64 · p. 87
अनुष्टुप्
छदनं च दले पक्षे पिधाने छेदनं भिदि ।कर्तने च जनुः पुंसि जन्तौ वैश्वानरेऽपि च ॥ ६५ ॥
20.3.65 · p. 87
अनुष्टुप्
जवनं तु स्यदे वेगे हये ना वेगिनि त्रिषु ।जननी तु दयामात्रोर्जननं वंशजन्मनोः ॥ ६६ ॥
20.3.66 · p. 87
अनुष्टुप्
जयनं स्यात्तुरङ्गादिसन्नाहे विजयेऽपि च ।जघनं च स्त्रियाः श्रेणिपुरोभागे कटावपि ॥ ६७ ॥
20.3.67 · p. 87
अनुष्टुप्
ज्ञानी स्यात्पुंसि दैवज्ञे ज्ञानयुक्तेऽन्यलिङ्गकः ।जीवनं वर्त्तने जीवप्राणधारणयोर्जले ॥ ६८ ॥
20.3.68 · p. 87
अनुष्टुप्
जीवनी जीवना चापि जीवन्तीभेदयोः क्रमात् ।तपनोऽरुष्करेऽपि स्याद्भास्करे निरयान्तरे ॥ ६९ ॥
20.3.69 · p. 87
अनुष्टुप्
तलुनः पवने यूनि युवत्यां तलुनी स्मृता ।तलिनं विरले स्तोके स्वच्छेऽपि वाच्यलिङ्गकम् ॥ ७० ॥
20.3.70 · p. 87
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable)
तमोघ्नः सूर्यवह्नीन्दुबुद्धशङ्करविष्णुषु ।त्यागी दातरि शूरेऽथ तेवनं केलिकानने ॥ ७१ ॥
20.3.71 · p. 87
अनुष्टुप्
क्रीडायां तेमनं त्वार्द्रीकरणे व्यञ्जनेऽपि च ।तेजनः पुंसि वंशे स्यात्तेजनी तृणपूलके ॥ ७२ ॥
20.3.72 · p. 87
अनुष्टुप्
तोदनं व्यथने तोत्रे दंशनं दंशवर्मणोः ।दर्शनं नयनस्वप्नबुद्धिधर्मोपलब्धिषु ॥ ७३ ॥
20.3.73 · p. 88
अनुष्टुप्
शास्त्रदर्पणयोश्चाथ दमनः पुष्पवीर(१)योः ।दशनः शिखरे दन्ते कवचे तु नपुंसकम् ॥ ७४ ॥
20.3.74 · p. 88
अनुष्टुप्
दहनश्चित्रके भल्लातकेऽग्नौ दुष्टचेष्टिते ।दृशानं ज्योतिषि क्लीबं पुंलिङ्गः स्याद्विरोचने ॥ ७५ ॥
20.3.75 · p. 88
अनुष्टुप्
देवनं व्यवहारे स्याज्जिगीषाक्रीडयोरपि ।देवनोऽक्षेषु पुंसि स्याद् ध्वजी तु पृथिवीधरे ॥ ७६ ॥
20.3.76 · p. 88
अनुष्टुप्
रथब्राह्मणयोश्चापि भुजङ्गमतुरङ्गयोः ।धन्वी धनुर्धरेऽपि स्यादर्जुने ककुभद्रुमे ॥ ७७ ॥
20.3.77 · p. 88
अनुष्टुप्
धन्वा तु मरुदेशे ना क्लीबं चापे स्थलेऽपि च ।धमनो नाऽनले भस्त्राऽध्मापकक्रूरयोस्त्रिषु ॥ ७८ ॥
20.3.78 · p. 88
अनुष्टुप्
धमनी तु शिराहट्टविलासिन्योश्च योषिति ।धावनं गमने शुद्धौ पृश्निपर्ण्यां तु धावनी ॥ ७९ ॥
20.3.79 · p. 88
अनुष्टुप्
धाम देहे गृहे रश्मौ स्थाने जन्मप्रभावयोः ।नन्दनं वासवोद्याने नन्दने हर्षके सुते ॥ ८० ॥
20.3.80 · p. 88
अनुष्टुप्
नन्दी हरप्रतीहारे गर्दभाण्डे वनद्रुमे ।नन्दिन्युमायां गङ्गायां ननान्दृधेनुभेदयोः ॥ ८१ ॥
20.3.81 · p. 88
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्दृ (wrong syllable)
नलिनी पद्मिनीव्योमनिम्नगाकमलाकरे ।नपुंसकं नीलिकायां न पुंसि सरसीरुहे ॥ ८२ ॥
20.3.82 · p. 88
अनुष्टुप्
निदानं कारणे वत्सदामादिकारणक्षये ।निधनं स्यात्कुले नाशे प्रधनं दारणे रणे ॥ ८३ ॥
20.3.83 · p. 88
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 दि (wrong syllable)
पवनं कुम्भकारस्य पाकस्थाने नपुंसकम् ।निष्पावमरुतोः पुंसि प्रज्ञानं बुद्धिचिह्नयोः ॥ ८४ ॥
20.3.84 · p. 88
अनुष्टुप्
प्रधानं स्यान्महामात्रे प्रकृतौ परमात्मनि ।प्रज्ञायामपि च क्लीबमेकत्वे तूत्तमे सदा ॥ ८५ ॥
20.3.85 · p. 88
अनुष्टुप्
पद्मिनी पद्मसङ्घाते स्त्रीविशेषे सरोरुहे ।प्रसन्ना स्त्री सुरायां स्यात्स्वच्छसन्तुष्टयोस्त्रिषु ॥ ८६ ॥
20.3.86 · p. 89
अनुष्टुप्
प्रसूनो वाच्यवज्जाते क्लीबं तु फलपुष्पयोः ।पत्री श्येने पत्ररथे काण्डद्रुरथिकाद्रिषु ॥ ८७ ॥
20.3.87 · p. 89
अनुष्टुप्
पर्व क्लीबं महे ग्रन्थौ प्रस्तावे लक्षणान्तरे ।दर्शप्रतिपदोः सन्धौ विषुवत्प्रभृतिष्वपि ॥ ८८ ॥
20.3.88 · p. 89
अनुष्टुप्
पक्ष्म सूत्रादिसूक्ष्मांशे किञ्जल्के नेत्रलोमनि ।पाठीनो मीनभेदे स्यात् पाठके गुग्गुलुद्रुमे ॥ ८९ ॥
20.3.89 · p. 89
अनुष्टुप्
पावनं तु जले कृच्छ्रे ना व्यासे पावकेऽपि च ।पाचनं दशमूल्यादौ प्रायश्चित्ते च नाऽनले ॥ ९० ॥
20.3.90 · p. 89
अनुष्टुप्
वाच्यवत्पाचयितरि हरीतक्यां तु योषिति ।पाशी व्याधे च वरुणे पिशुनं कुङ्कुमेऽपि च ॥ ९१ ॥
20.3.91 · p. 89
अनुष्टुप्
कपिवक्त्रे च काके ना सूचकक्रूरयोस्त्रिषु ।पृक्कायां पिशुना स्त्री स्यात् पीतनं पीतदारुणि ॥ ९२ ॥
20.3.92 · p. 89
अनुष्टुप्
कुङ्कुमे हरिताले च पुमानाम्रातके मतः ।पूतना तु हरीतक्यां दानवीरोगभेदयोः ॥ ९३ ॥
20.3.93 · p. 89
अनुष्टुप्
पृतना तु स्त्रियां सेनामात्रसेनाविशेषयोः ।प्रेमा ना वासवे वाते प्रेमास्त्री स्नेहनर्मणोः ॥ ९४ ॥
20.3.94 · p. 89
अनुष्टुप्
फलिन्यग्निशिखायां च फल्यां स्त्री फलिनि त्रिषु ।फाल्गुनस्तु गुडाकेशे नदीजार्जुनभूरुहे ॥ ९५ ॥
20.3.95 · p. 89
अनुष्टुप्
तपस्यसंज्ञामासे तत्पूर्णिमायां तु फाल्गुनी ।ब्रह्म तत्त्वतपोवेदे न द्वयोः पुंसि वेधसि ॥ ९६ ॥
20.3.96 · p. 89
अनुष्टुप्
ऋत्विग्यागभिदोर्विप्रे बन्धनं वधबन्धयोः ।बन्दनी नतिजीवातुकुटीयाचनकर्मसु ॥ ९७ ॥
20.3.97 · p. 89
अनुष्टुप्
वाहिनी स्यात्तरङ्गिण्यां सेनासैन्यप्रभेदयोः ।वाणिनी नर्त्तकीमत्ताविदग्धवनितासु च ॥ ९८ ॥
20.3.98 · p. 89
अनुष्टुप्
बुधानस्तु गुरौ विज्ञे बोधनं गन्धदीपने ।बोधनी बोधपिप्पल्योर्भर्म स्यात् काञ्चने भृतौ ॥ ९९ ॥
20.3.99 · p. 89
अनुष्टुप्
भण्डनं कवचे युद्धे खलीकारेऽपि न द्वयोः ।भट्टिनी द्विजभार्यायां नाट्योक्त्यां राजयोषिति ॥ १०० ॥
20.3.100 · p. 90
अनुष्टुप्
भवनं स्याद्गृहे भावे भाजनं योग्यपात्रयोः ।भावना तु न ना ध्याने पर्यालोचेऽधिवासने ॥ १ ॥
20.3.1 · p. 90
अनुष्टुप्
भुवनं विष्टपेऽपि स्यात् सलिले गगने जने ।भोगी भुजङ्गमेऽपि स्याद् ग्रामपात्रे नृपे पुमान् ॥ २ ॥
20.3.2 · p. 90
अनुष्टुप्
विहाय महिषीमन्यराजयोषिति भोगिनी ।मदनः स्मरवसन्तद्रुभिद्धूस्तूरसिक्थके ॥ ३ ॥
20.3.3 · p. 90
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 व (wrong syllable)
मलनः पटवासे ना मर्दने तु नपुंसकम् ।मलिनं दूषिते कृष्णे ऋतुमत्यां तु योषिति ॥ ४ ॥
20.3.4 · p. 90
अनुष्टुप्
मण्डनं भूषणे क्लीबं स्यात्त्रिष्वलङ्करिष्णुनि(१) ।मार्जनं न द्वयोर्मार्ष्टौ पुंसि स्याल्लोध्रशाखिनि ॥ ५ ॥
20.3.5 · p. 90
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ष्व (wrong syllable)
मालिनी मातृकावृत्तभिदोर्मालिकयोषिति ।गौरीचम्पानगर्योश्च मन्दाकिन्यां नदीभिदि ॥ ६ ॥
20.3.6 · p. 90
अनुष्टुप्
मानिनी तु स्त्रियां फल्यां मानी मानवति त्रिषु ।मिथुनं न द्वयो राशिभेदे स्त्रीपुंसयुग्मके ॥ ७ ॥
20.3.7 · p. 90
अनुष्टुप्
मुण्डनं वपने त्राणे मेहनं मूत्रशिश्नयोः ।मैथुनं सुरतेऽपि स्यात् सङ्गतेऽपि नपुंसकम् ॥ ८ ॥
20.3.8 · p. 90
अनुष्टुप्
यमनं बन्धने चोपरतौ क्लीबं यमे पुमान् ।यवनो देशभेदे ना वेगिवेगाधिकाश्वयोः ॥ ९ ॥
20.3.9 · p. 90
अनुष्टुप्
यवान्यौषधिभेदे स्त्री वाच्यवद्वेगिनि स्मृता ।यापनं वर्त्तने कालक्षेपे निरसनेऽपि च ॥ १० ॥
20.3.10 · p. 90
अनुष्टुप्
युवा स्यात्तरुणे श्रेष्ठे निसर्गबलशालिनि ।युञ्जानः सारथौ विप्रे योजनं परमात्मनि ॥ ११ ॥
20.3.11 · p. 91
अनुष्टुप्
चतुष्क्रोश्यां च योगेऽथ रसनं स्वदने ध्वनौ ।जिह्वायां तु न पुंसि स्याद्रास्नायां रसना स्त्रियाम् ॥ १२ ॥
20.3.12 · p. 91
अनुष्टुप्
रञ्जनो रागजनने रञ्जनं रक्तचन्दने ।शुण्डारोचनिकानीलीमञ्जिष्ठासु च रञ्जनी ॥ १३ ॥
20.3.13 · p. 91
अनुष्टुप्
रजनी नलिनीरात्रिहरिद्राजतुकासु च ।राधनं साधने प्राप्तौ राधना भाषणे स्त्रियाम् ॥ १४ ॥
20.3.14 · p. 91
अनुष्टुप्
राजा प्रभौ च नृपतौ क्षत्रिये रजनीपतौ ।यक्षे शक्रे च पुंसि स्याद्रागी रक्तेऽपि कामुके ॥ १५ ॥
20.3.15 · p. 91
अनुष्टुप्
रेचनी त्रिवृतादन्त्यो रोचनी कर्कशे स्त्रियाम् ।रोचना रक्तकल्हारे गोपित्तवारयोषितोः ॥ १६ ॥
20.3.16 · p. 91
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त्त (wrong syllable)
रोचनः कूटशाल्मल्यां पुंसि स्याद्रोचके त्रिषु ।रोदनं क्रन्दनेऽस्रेऽपि दुरालभौषधौ स्त्रियाम् ॥ १७ ॥
20.3.17 · p. 91
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ल (wrong syllable)
रोही रोहितकेऽश्वत्थवटपादपयोः पुमान् ।लङ्घनं तूपवासे स्यात् (१)क्रमणे प्लवनेऽपि च ॥ १८ ॥
20.3.18 · p. 91
अनुष्टुप्
ललना कामिनीनारीभेदजिह्वासु योषिति ।लक्ष्म चिह्ने प्रधाने च लाञ्छनं नामचिह्नयोः ॥ १९ ॥
20.3.19 · p. 91
अनुष्टुप्
लेखनं छर्दने भूर्जे लिपिन्यासेऽथ वर्जनम् ।हिंसात्यागयोर्वपनं बीजाधाने च मुण्डने ॥ २० ॥
20.3.20 · p. 91
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ग (wrong syllable)
वसनं छादने वस्त्रे वमनं छर्दनेऽर्दने ।वर्द्धनं वृद्धिवर्द्धिष्णुच्छेदे घट्यां तु वर्द्धनी ॥ २१ ॥
20.3.21 · p. 91
अनुष्टुप्
व्यञ्जनं तेमने चिह्ने श्मश्रुण्यवयवेऽहनि ।व्यसनं त्वशुभे सक्तौ पानस्त्रीमृगयादिषु ॥ २२ ॥
20.3.22 · p. 91
अनुष्टुप्
दैवानिष्टफले पापे विपत्तौ निष्फलोद्यमे ।वर्तनो वामने क्लीबं वृत्तौ स्त्री प्रेषणाध्वनोः ॥ २३ ॥
20.3.23 · p. 91
अनुष्टुप्
न पुंसि तूलनालायां तर्कुपीठे च जीवने ।वर्त्तिष्णौ त्रिषु वज्री तु बुद्धे देवाधिपे पुमान् ॥ २४ ॥
20.3.24 · p. 92
अनुष्टुप्
वचक्नुस्तु पुमान् विप्रे वावदूकेऽभिधेयवत् ।वर्णी स्याल्लेखके चित्रकरेऽपि ब्रह्मचारिणि ॥ २५ ॥
20.3.25 · p. 92
अनुष्टुप्
वर्ष्म देहप्रमाणातिसुन्दराकृतिषु स्मृतम् ।वर्त्म नेत्रच्छदे मार्गे वाजी बाणाश्वपक्षिषु ॥ २६ ॥
20.3.26 · p. 92
अनुष्टुप्
वामनोऽप्यतिखर्वे च त्रिषु पुंसि तु दिग्गजे ।हरावङ्कोटवृक्षेऽथ वासनं धूपनेऽपि च ॥ २७ ॥
20.3.27 · p. 92
अनुष्टुप्
वारिधान्यां च वस्त्रे च प्रत्याशाज्ञानयोः स्त्रियाम् ।वाग्मी पटौ सुराचार्ये विज्ञानं ज्ञानकर्मणोः ॥ २८ ॥
20.3.28 · p. 92
अनुष्टुप्
वितुन्नं सुनिषण्णे च शैवाले च नपुंसकम् ।वितानो यज्ञ उल्लोचे विस्तारे पुन्नपुंसकम् ॥ २९ ॥
20.3.29 · p. 92
अनुष्टुप्
क्लीबं वृत्तविशेषे स्यात्त्रिलिङ्गो मत्ततुच्छयोः (१) ।विमानो व्योमयाने च सार्वभौमगृहेऽपि च ॥ ३० ॥
20.3.30 · p. 92
अनुष्टुप्
घोटके यानपात्रे च पुन्नपुंसकयोर्मतः ।विक्लिन्नो जरसा जीर्णे शीर्णे चार्द्रे च वाच्यवत् ॥ ३१ ॥
20.3.31 · p. 92
अनुष्टुप्
विपन्नं विपदाक्रान्ते त्रिषु पुंसि भुजङ्गमे ।विच्छिन्नं च समालब्धे विभक्तेऽप्यभिधेयवत् ॥ ३२ ॥
20.3.32 · p. 92
अनुष्टुप्
विलग्नं न स्त्रियां मध्ये त्रिषु स्याल्लग्नमात्रके ।विषघ्नस्तु शिरीषे ना गुडूचीत्रिवृतोः स्त्रियाम् ॥ ३३ ॥
20.3.33 · p. 92
अनुष्टुप्
व्युत्थानं स्वातन्त्र्यकृत्ये विरोधाचरणेऽपि च ।वृजिनं कल्मषे क्लीबं केशे ना कुटिले त्रिषु ॥ ३४ ॥
20.3.34 · p. 92
अनुष्टुप्
वृषा कर्णे महेन्द्रे ना वेदना ज्ञानदुःखयोः ।वेष्टनं कर्णशकुल्यामुष्णीषे मुकुटे वृतौ ॥ ३५ ॥
20.3.35 · p. 92
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 श (wrong syllable)
व्योम वारिणि चाकाशे भास्करस्यानाश्रये ।शकुनिः पुंसि विहगे सौबले करणान्तरे ॥ ३६ ॥
20.3.36 · p. 92
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शयनं सुरते निद्राशय्ययोश्च नपुंसकम् ।शमनं शान्तिवधयोः शमनः श्राद्धदैवते ॥ ३७ ॥
20.3.37 · p. 93
अनुष्टुप्
श्वसनं स्वसिते पुंसि मारुते मदनद्रुमे ।शकुनस्तु पुमान् पक्षिमात्रपक्षिविशेषयोः ॥ ३८ ॥
20.3.38 · p. 93
अनुष्टुप्
शुभशंसिनिमित्ते च शकुनं स्यान्नपुंसकम् ।शङ्खिनी श्वेतवृन्दायां चौरपुष्प्यां वधूभिदि ॥ ३९ ॥
20.3.39 · p. 93
अनुष्टुप्
शङ्खी हरौ समुद्रे ना शङ्खवत्यभिधेयवत् ।शतघ्नी शस्त्रभेदे स्यात् वृश्चिकाल्यां करञ्जके ॥ ४० ॥
20.3.40 · p. 93
अनुष्टुप्
शासनं राजदत्तोर्व्यां लेखाज्ञाशास्त्रशास्तिषु ।शाखी स्यात् पादपे वेदे तुरुष्काख्यजने पुमान् ॥ ४१ ॥
20.3.41 · p. 93
अनुष्टुप्
शिखी वह्नौ बलीवर्दे शरे केतुग्रहे द्रुमे ।मयूरे कुक्कुटे पुंसि शिखावत्यन्यलिङ्गकः ॥ ४२ ॥
20.3.42 · p. 93
अनुष्टुप्
शिल्पी तु वाच्यवत् कारौ स्त्रियां कोलदलौषधौ ।शूली स्याच्छङ्करे पुंसि शूलरोगिणि वाच्यवत्(१) ।शृङ्गी शृङ्गयुते नागे वृषपर्वतयोरपि ॥ ४३ ॥
20.3.43 · p. 93
अनुष्टुप्
श्लेष्मघ्नी मल्लिकायां च ज्योतिष्मत्यां च योषिति ।शोभनो योगभेदे ना सुन्दरे वाच्यलिङ्गकः ॥ ४४ ॥
20.3.44 · p. 93
अनुष्टुप्
सवनं त्वध्वरे स्नाने सोमनिर्दलनेऽपि च ।स्तननं ध्वनिमात्रे स्यान्मेघशब्दे च कुन्थिते ॥ ४५ ॥
20.3.45 · p. 93
अनुष्टुप्