All kośas › Medinīkośa
नानार्थशब्दकोश or मेदिनीकोश Medinīkośa
2,500 verses · text only, tagging comes next
नान्तवर्गः · नत्रिकम् (2/2)
समानः सत्समैकेषु त्रिषु ना नाभिमारुते ।सन्तानः सन्ततौ गोत्रे स्यादपत्ये सुरद्रुमे ॥ ४६ ॥
20.3.46 · p. 93
अनुष्टुप्
स्पर्शनो मारुते पुंसि दाने स्पर्शे नपुंसकम् ।संस्थानमाकृतौ मृत्यौ सन्निवेशे चतुष्पथे ॥ ४७ ॥
20.3.47 · p. 93
अनुष्टुप्
स्यन्दनं तु स्रुतौ नीरे तिनिशे ना रथेऽस्त्रियाम् ।सज्जनं तु भवेत् क्लीबमुपरक्षणघट्टयोः ॥ ४८ ॥
20.3.48 · p. 93
अनुष्टुप्
वाच्यलिङ्गं कुलीने स्यात् कल्पनायां तु योषिति ।सन्धानं स्यादभिषवे तथा सङ्घटनेऽपि च ॥ ४९ ॥
20.3.49 · p. 93
अनुष्टुप्
सम्पन्नं साधितेऽपि स्यात् सम्पत्तिसहितेऽन्यवत् ।सन्धिनी वृषभाक्रान्ताकालदुग्धोस्रयोः स्त्रियाम् ॥ ५० ॥
20.3.50 · p. 94
अनुष्टुप्
सद्म स्यान्मन्दिरे नीरे संव्यानं छादनेंऽशुके ।सदनं मन्दिरे तोये स्वामी प्रभुविशाखयोः ॥ ५१ ॥
20.3.51 · p. 94
अनुष्टुप्
सादी तुरङ्गमातङ्गरथारोहेषु दृश्यते ।स्थापनं रोपणे पुंसवने पाठौषधौ स्त्रियाम् ॥ ५२ ॥
20.3.52 · p. 94
अनुष्टुप्
सावनो यज्ञकर्मान्ते यजमानप्रचेतसोः ।साधनं मृतसंस्कारे सैन्ये सिद्धौषधौ गतौ ॥ ५३ ॥
20.3.53 · p. 94
अनुष्टुप्
निर्वर्तनोपायमेढ्रे दापनेऽनुगमे धने ।साम क्लीबमुपायस्य भेदे वेदान्तरेऽपि च ॥ ५४ ॥
20.3.54 · p. 94
अनुष्टुप्
सीमा घाटस्थितिक्षेत्रेष्वण्डकोषेऽपि च स्त्रियाम् ।सूचना व्यधने दृष्टौ गन्धनेऽभिनयेऽपि च ॥ ५५ ॥
20.3.55 · p. 94
अनुष्टुप्
सेचनं रक्षणे सेके नौकायाः सेकभाजने ।सेनानीः स्यात्पुमान् कार्तिकेये सेनापतावपि ॥ ५६ ॥
20.3.56 · p. 94
अनुष्टुप्
सेवनं सीवनोपास्त्योर्हली रामे च कर्षके ।हस्तिनी गजयोषायां जातिभेदे च योषितः ॥ ५७ ॥
20.3.57 · p. 94
अनुष्टुप्
हसनं न द्वयोर्हासेऽङ्गारधान्यां तु योषिति ।हायनो न स्त्रियां वर्षे पुंस्यर्चिर्व्रीहिभेदयोः ॥ ५८ ॥
20.3.58 · p. 94
अनुष्टुप्
ह्रादिनी वज्रतडितोर्हिण्डनं भ्रमणे रते ।
20.3.134 · p. 94