All kośas › Medinīkośa
नानार्थशब्दकोश or मेदिनीकोश Medinīkośa
2,500 verses · text only, tagging comes next
लान्तवर्गः · लचतुष्कम्
लचतुष्कम्
अक्षमालाऽक्षसूत्रे स्यादरुन्धत्यामपि स्त्रियाम् ॥ १४७ ॥
28.4.147 · p. 155
अङ्कपाली परीरम्भे धात्रीवेदिकयोः स्त्रियाम् ।अथातिबलः प्रबले त्रिषु स्त्री त्वौषधीभिदि ॥ १४८ ॥
28.4.148 · p. 155
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ब (wrong syllable)
उदूखलं गुग्गुलौ स्यादुलूखलेऽपि न द्वयोः ।एकाष्ठीला वनतिक्तिकौषधौ पुंसि बकपुष्पे च ॥ १४९ ॥
28.4.149 · p. 155
metre not recognised
कलकल उक्तः कोलाहले तथा सालनिर्य्यासे ।अथ कर्मफलं कर्मरङ्गकर्मविपाकयोः ॥ १५० ॥
28.4.150 · p. 155
अनुष्टुप्metre not read in every line
कन्दरालः पुमान् गर्दभाण्डे प्लक्षतरावपि ।कमण्डलुः स्यात् करके न स्त्री ना प्लक्षपादपे ॥ १५१ ॥
28.4.151 · p. 156
अनुष्टुप्
कुतूहलं कौतुके स्यात् प्रशस्तेऽपि च दृश्यते ।खतमालस्तु पुंलिङ्गो धूमेऽपि च बलाहके ॥ १५२ ॥
28.4.152 · p. 156
अनुष्टुप्
गण्डशैलो ललाटे स्यात् च्युतस्थूलोपले गिरेः ।गन्धफल्यपि गुन्द्रायां चम्पकस्य च कोरके ॥ १५३ ॥
28.4.153 · p. 156
अनुष्टुप्
चक्रवालोऽद्रिभेदे स्यात् चक्रवालन्तु मण्डले ।जलाञ्चलं स्वतो वारिनिर्गमे शैवलेऽपि च ॥ १५४ ॥
28.4.154 · p. 156
अनुष्टुप्
दलामलं मरुबके दमनेऽपि नपुंसकम् ।ध्वनिनाला तु वीणायां वेणुकाहलयोरपि ॥ १५५ ॥
28.4.155 · p. 156
अनुष्टुप्
स्यात् परिमलोऽतिमर्दातिमनेाहरगन्धयोश्चापि ।सुरतोपमर्दविकसच्छरीररागादिसौरभे पुंसि ॥ १५६ ॥
28.4.156 · p. 156
उद्गीतिःimpossible sign sequence: िमर्दातिमनेाहरगन्ध
अथ पोटगलः पुंसि नले च काशमत्स्ययोः ।भवेद्बहुफलो नीपे नामलक्यान्तु योषिति ॥ १५७ ॥
28.4.157 · p. 156
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
भस्मतूलं ग्रामकूटे पांशुवर्षे हिमेऽपि च ।भद्रकाली तु गन्धोल्यां कात्यायन्यामपि स्त्रियाम् ॥ १५८ ॥
28.4.158 · p. 156
अनुष्टुप्
महाकालो महादेवे किम्पाके प्रमथान्तरे ।भवेन्मदकलो मत्तेभमदाव्यक्तवाचिनोः ॥ १५९ ॥
28.4.159 · p. 156
अनुष्टुप्
महाबलं सीसकेऽतिबलायां स्त्री बलोत्तरे ।त्रिलिङ्गं मणिमाला तु हारे दन्तक्षतान्तरे ॥ १६० ॥
28.4.160 · p. 156
अनुष्टुप्
महानीलो भृङ्गराजे मणिनागविशेषयोः ।मुक्ताफलन्तु कर्पूरे मौक्तिके लवलीफले ॥ १६१ ॥
28.4.161 · p. 156
अनुष्टुप्
स्यान् मृत्युफला कदल्यां महाकालफले पुमान् ।भवेद्यवफलो वेणौ मांसीकुटजयोरपि ॥ १६२ ॥
28.4.162 · p. 156
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 फ (wrong syllable)
रजस्वला पुष्पवत्यां स्त्रियां स्यात् सौरभे पुमान् ।वातकेलिः कलालापे षिड्गदन्तक्षते पुमान् ॥ १६३ ॥
28.4.163 · p. 156
अनुष्टुप्
अथ वायुफलं शक्रकार्मुके करकेऽपि च ।भवेद्विचकिलो मल्लीप्रभेदे मदने पुमान् ॥ १६४ ॥
28.4.164 · p. 156
अनुष्टुप्
बृहन्नला गुडाकेशे महापोटगले पुमान् ।सदाफलः स्कन्दफले नारिकेलेऽप्युदुम्बरे ॥ १६५ ॥
28.4.165 · p. 157
अनुष्टुप्
सिनीवाली तु दृष्टेन्दुकलामादुर्गयोरपि ।अथ सौवर्चलं सर्जक्षारे च लवणान्तरे ॥ १६६ ॥
28.4.166 · p. 157
अनुष्टुप्
हस्तिमल्लोऽभ्रमातङ्गे शङ्खनागे विनायके ।हरितालं धातुभेदे स्त्री दुर्वाकाशरेखयोः ॥ १६७ ॥
28.4.167 · p. 157
अनुष्टुप्
हलाहलो ब्रह्मसर्पेऽञ्जनायां ना विषेऽस्त्रियाम् ।
28.4.22 · p. 157