All kośas › Medinīkośa
नानार्थशब्दकोश or मेदिनीकोश Medinīkośa
2,500 verses · text only, tagging comes next
मान्तवर्गः · मत्रिकम्
मत्रिकम्
अधमः स्याद्गर्ह्यजनेऽप्यागमः शास्त्र आगतौ ।आश्रमो ब्रह्मचर्यादौ वानप्रस्थे मठे वने ॥ ३९ ॥
25.3.39 · p. 111
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्ग (wrong syllable)
अस्त्रियामुत्तमा दुग्धिकायां स्त्री त्रिषु भद्रके ।उद्दामो बन्धरहिते स्वतन्त्रे च प्रचेतसि ॥ ४० ॥
25.3.40 · p. 111
अनुष्टुप्
कलमः पुंसि लेखन्यां शालौ पटच्चरेऽपि च ।कुसुमं स्त्री रजोनेत्ररोगयोः फलपुष्पयोः ॥ ४१ ॥
25.3.41 · p. 111
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable)
कृत्रिमं लवणभेदे ना सिह्लके रचिते त्रिषु ।गोलोमी श्वेतदूर्वायां स्याद्वचाभूतकेशयोः ॥ ४२ ॥
25.3.42 · p. 111
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
गोधूमो नागरङ्गे स्यादोषधिव्रीहिभेदयोः ।गोतमो ना मुनौ बुद्धे रोचनीदुर्गयोः स्त्रियाम् ॥ ४३ ॥
25.3.43 · p. 111
अनुष्टुप्
तलिमं कुट्टिमे तल्पे चन्द्रहासे वितानके ।दाडिमस्तु त्रिलिङ्गः स्यादेलायां करके त्रिषु ॥ ४४ ॥
25.3.44 · p. 111
अनुष्टुप्
निष्क्रमो बुद्धिसम्पत्तौ निर्गमे दुष्कुलेऽपि च ।निगमो वाणिजे पुर्य्यां कटे वेदे वणिक्पथे ॥ ४५ ॥
25.3.45 · p. 111
अनुष्टुप्
नियमो मन्त्रणायाञ्च प्रतिज्ञानिश्चये व्रते ।नैगमः स्यादुपनिषद्वणिजोर्नागरेऽपि च ॥ ४६ ॥
25.3.46 · p. 111
अनुष्टुप्
परमं स्यादनुज्ञायामव्ययं परमं परे ।प्रथमस्तु भवेदादौ प्रधानेऽपि च वाच्यवत् ॥ ४७ ॥
25.3.47 · p. 111
अनुष्टुप्
प्रतिमा गजदन्तस्य बन्धे चानुकृतावपि ।पञ्चमो रागभेदे स्यात् स्वरभेदेऽथ पञ्चमी ॥ ४८ ॥
25.3.48 · p. 111
अनुष्टुप्
पाण्डवानाञ्च पत्न्यां स्त्री पञ्चानां पूरणे त्रिषु ।प्रक्रमः क्रमेऽवसरे मध्यमो मध्यजेऽन्यवत् ॥ ४९ ॥
25.3.49 · p. 111
अनुष्टुप्metre not read in every line
पुमान् स्वरे मध्यदेशेऽप्यवलग्ने तु न स्त्रियाम् ।स्त्रियां दृष्टरजोनार्य्यां कर्णिकाङ्गुलिभेदयोः ॥ ५० ॥
25.3.50 · p. 111
अनुष्टुप्
त्र्यक्षरच्छन्दसि तथा ललामं लाञ्छने ध्वजे ।शृङ्गे प्रधाने भूषायां तथा बालधिपुण्ड्रयोः ॥ ५१ ॥
25.3.51 · p. 111
अनुष्टुप्
तुरङ्गे च प्रभावेऽथ व्यायामः पौरुषे श्रमे ।विषमे दुर्गसञ्चारे विभ्रमो भ्रान्तिहावयोः ॥ ५२ ॥
25.3.52 · p. 111
अनुष्टुप्
विद्रुमो रत्नवृक्षेऽपि प्रबालेऽपि पुमानयम् ।विलोमस्तु प्रतीपे स्याद्भुजङ्गे वरुणे शुनि ॥ ५३ ॥
25.3.53 · p. 112
अनुष्टुप्
आमलक्यां विलोमी च विलोमञ्चारघट्टके ।विक्रमस्तु पुमान् क्रान्तिमात्रे स्यात् शक्तिसम्पदि ॥ ५४ ॥
25.3.54 · p. 112
अनुष्टुप्
संक्रमः क्रमणे पुंसि न स्त्री स्याद्दुर्गसञ्चरे ।सम्भ्रमः साध्वसेऽपि स्यात् संवेगादरयोरपि ॥ ५५ ॥
25.3.55 · p. 112
अनुष्टुप्
सत्तमः स्यात् पूज्यतमे साधीयस्युत्तमे त्रिषु ।सरमा कुक्कुरीदेवशुन्योः स्याद्राक्षसीभिदि ॥ ५६ ॥
25.3.56 · p. 112
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पू (wrong syllable)
सुषमाऽत्यन्तशोभायां स्त्री चारौ च समे त्रिषु ।सुषीमः शीतले चारौ त्रिषु ना पन्नगान्तरे ॥ ५७ ॥
25.3.57 · p. 112
अनुष्टुप्