कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Medinīkośa

नानार्थशब्दकोश or मेदिनीकोश Medinīkośa

2,500 verses · text only, tagging comes next

रान्तवर्गः · रपञ्चकम्

तमालपत्रं तापिच्छे तिलके पत्रकेऽपि च ॥ ३०२ ॥
27.5.302 · p. 144
तालीशपत्रं भूम्यामलकीतालीशयोः स्मृतम् ।स्यात् पांशुचामरः पुंसि दुर्वाञ्चिततटीभुवि ॥ ३०३ ॥
27.5.303 · p. 144
अनुष्टुप्
वर्द्धापके प्रशंसायां पुरोटौ धूलिगुच्छके ।स्यात् पादचत्वरश्छागे सैकते पिप्पलेऽपि च ॥ ३०४ ॥
27.5.304 · p. 144
अनुष्टुप्
करके परदोषैकप्रवक्तृपुरुषेऽपि च ।पीतकावेरमित्येतत् कुङ्कुमे पित्तलेऽपि च ॥ ३०५ ॥
27.5.305 · p. 144
अनुष्टुप्
स्याद्राजवदरं रक्तामलके लवणेऽपि च ।वस्वोकसारेन्द्रपुरे कुबेरनलिनीपुरोः ॥ ३०६ ॥
27.5.306 · p. 144
अनुष्टुप्
विप्रतीसार उद्दिष्टः कौकृत्येऽनुशये रुषि ।भवेत् समभिहारस्तु पौनःपुन्यभृशार्थयोः ॥ ३०७ ॥
27.5.307 · p. 144
अनुष्टुप्
सर्वतोभद्र इत्युक्तः काव्यचित्रे गृहान्तरे ।निम्बे ना सर्वतोभद्रा गाम्भारीनटयोषितोः ॥ ३०८ ॥
27.5.308 · p. 145
अनुष्टुप्