कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Medinīkośa

नानार्थशब्दकोश or मेदिनीकोश Medinīkośa

2,500 verses · text only, tagging comes next

टान्तवर्गः · टद्विकम्

टद्विकम्

अट्टं भक्ते च शुष्के ना क्षौमेऽत्यर्थे गृहान्तरे ॥ १ ॥
11.2.1 · p. 33
इष्टमाशंसितेऽपि स्यात् पूजिते प्रेयसि त्रिषु ।सप्ततन्तौ पुमान् क्लीबे संस्कारे ऋतुकर्मणि ॥ २ ॥
11.2.2 · p. 33
अनुष्टुप्
इष्टिर्मताऽभिलाषेऽपि सङ्ग्रहश्लोकयागयोः ।कटः श्रोणौ द्वयोः पुंसि किलिञ्जेऽतिशये शिवे(२) ॥ ३ ॥
11.2.3 · p. 33
अनुष्टुप्
समये गजगण्डे च पिप्पल्यां तु कटी मता ।कटुः स्त्री कटुरोहिण्यां लताराजिकयोरपि ॥ ४ ॥
11.2.4 · p. 33
अनुष्टुप्
नपुंसकमकार्ये स्यात् पुंलिङ्गो रसमात्रके ।त्रिषु तद्वत्सुगन्ध्योश्च मत्सरेऽपि खरेऽपि च ॥ ५ ॥
11.2.5 · p. 33
अनुष्टुप्
कष्टं तु गहने कृच्छ्रे क्रुष्टं रोदनरावयोः ।कुटः कोटे पुमानस्त्री घटे स्त्रीपुंसयोर्गृहे ॥ ६ ॥
11.2.6 · p. 34
अनुष्टुप्
कुटी स्यात् कुम्भदास्यां च मुरायां चित्रगुच्छके ।कूटोऽस्त्री निश्चलं राशौ लोहमुद्गरदम्भयोः ॥ ७ ॥
11.2.7 · p. 34
अनुष्टुप्
मायाद्रिशृङ्गयोस्तुच्छे सीरावयवयन्त्रयोः ।अनृते चाथ कृष्टिः स्यादाकर्षे स्त्री बुधे पुमान् ॥ ८ ॥
11.2.8 · p. 34
अनुष्टुप्
काटिः स्त्री धनुषोऽग्रेऽश्रौ संख्याभेदप्रकर्षयोः ।खटोऽन्धकूपकफयोः प्रहारान्तरटङ्कयोः ॥ ९ ॥
11.2.9 · p. 34
अनुष्टुप्
खाटिस्त्वसद्ग्रहेऽपि स्यात् किणे शवरथे स्त्रियाम् ।खेटः कफे ग्रामभेदे चर्मण्यस्त्र्यर्वति त्रिषु ॥ १० ॥
11.2.10 · p. 34
अनुष्टुप्
अथ गृष्टिः सकृत्सूतगवीबदरयोः स्त्रियाम् ।घटः समाधिभेदेभशिरःकूटकुटेषु च ॥ ११ ॥
11.2.11 · p. 34
अनुष्टुप्
घटा घटनगोष्ठीभघटनासु च योषिति ।घृष्टिः स्त्री घर्षणस्पर्द्धाविष्णुक्रान्तासु ना किरौ ॥ १२ ॥
11.2.12 · p. 34
अनुष्टुप्
घोण्टा तु बदरीपूगवृक्षयोरपि योषिति ।चटुश्चाटौ पिचिण्डे(१) च व्रतिनामासने पुमान् ॥ १३ ॥
11.2.13 · p. 34
अनुष्टुप्
जटा लग्नकचे मूले मांस्यां प्लक्षे पुनर्जटी ।जुष्टं तु क्लीबमुच्छिष्टे सेविते वाच्यलिङ्गकम् ॥ १४ ॥
11.2.14 · p. 34
अनुष्टुप्
झाटो निकुञ्जे कान्तारे व्रणादीनां च मार्जने ।तटं नपुंसकं क्षेत्रे प्रतीरे तु तटी त्रिषु ॥ १५ ॥
11.2.15 · p. 34
अनुष्टुप्
त्वष्टा पुमान् देवशिल्पितक्ष्णोरादित्यभिद्यपि ।त्रुटिः स्त्री संशये स्वल्पे सूक्ष्मैलाकालमानयोः ॥ १६ ॥
11.2.16 · p. 34
अनुष्टुप्
त्रोटिः स्त्री कट्फले चञ्च्वां खगे मीनान्तरेऽपि च ।दिष्टं दैवै पुमान् काले दिष्टिर्मुत्परिमाणयोः ॥ १७ ॥
11.2.17 · p. 34
अनुष्टुप्
स्त्रियां दृष्टिः स्त्रियां बुद्धौ लोचने दर्शनेऽपि च ।धटो दिव्यतुलायां स्याद्धटी चीरे च वाससः ॥ १८ ॥
11.2.18 · p. 34
अनुष्टुप्
नटी नल्यौषधे स्त्री स्यात् शैलूषाशीकयोः पुमान् ।पटश्चित्रपटे वस्त्रेऽस्त्री प्रियालद्रुमे पुमान् ॥ १९ ॥
11.2.19 · p. 34
अनुष्टुप्
पटुर्दक्षे च नीरोगे चतुरेऽप्यभिधेयवत् ।पटोले तु पुमान् क्लीबे छत्रालवणयोरपि ॥ २० ॥
11.2.20 · p. 35
अनुष्टुप्
पट्टः पेषणपाषाणे व्रणादीनां च बन्धने ।चतुष्पथे च राजादिशासनान्तरपीठयोः ॥ २१ ॥
11.2.21 · p. 35
अनुष्टुप्
पटिः स्त्री पटभेदे स्याद्वागुलौ कुम्भिकाद्रुमे ।पुष्टिः स्त्री पोषणे वृद्धौ फटा तु फणदन्तयोः ॥ २२ ॥
11.2.22 · p. 35
अनुष्टुप्
बटी त्रिषु गुणे पुंसि स्यान्न्यग्रोधकपर्दयोः ।भटः स्यात् पुंसि वीरे च विशेषे पामरस्य च ॥ २३ ॥
11.2.23 · p. 35
अनुष्टुप्
भृष्टिः स्याद्भर्जने शून्यवाटिकायां च योषिति ।म्लिष्टं त्रिष्वव्यक्तवाचि म्लाने मुष्टिर्द्वयोः फले ॥ २४ ॥
11.2.24 · p. 35
अनुष्टुप्
बद्धपाणौ त्सरौ यष्टिः पुंसि स्याद्भुजदण्डके ।द्वयोर्हारलताभार्ग्योर्मधुकाशस्त्रभेदयोः ॥ २५ ॥
11.2.25 · p. 35
अनुष्टुप्
रिष्टं क्षमाशुभाभावे पुंसि खड्गे च फेनिले ।रिष्टिः खड्गे ना शुभे स्त्री लाटो देशान्तरेंऽशुके ॥ २६ ॥
11.2.26 · p. 35
अनुष्टुप्
वाटो मार्गे वृतिस्थाने स्यात् कुटीवास्तुनोः स्त्रियाम् ।विटोऽद्रौ लवणे षिड्गे मूषिके खदिरेऽपि च ॥ २७ ॥
11.2.27 · p. 35
अनुष्टुप्
विष्टिस्त्रिषु कर्मकरे स्त्र्याजूवेतनकर्मसु ।व्युष्टिः फले समृद्धौ स्त्री व्युष्टं कल्ये त्रिषूषिते ॥ २८ ॥
11.2.28 · p. 35
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 षु (wrong syllable)
सटा जटाकेसरयोः स्फुटो व्यक्तप्रफुल्लयोः ।व्याप्ते त्रिषु स्फुटिर्योषित् पादस्फोटामयेऽपि च ॥ २९ ॥
11.2.29 · p. 35
अनुष्टुप्
निर्भिन्नकर्कटीशस्येऽपि स्यात् सृष्टं तु निर्मिते ।युक्तनिश्चितयोः प्राज्ये त्रिषु सृष्टिस्तु निर्मितौ ॥ ३० ॥
11.2.30 · p. 35
अनुष्टुप्
स्वभावे चापि कथिता हृष्टो रोमाञ्चितेऽपि च ।जातहर्षे प्रहसिते विस्मितेऽप्यभिधेयवत् ॥ ३१ ॥
11.2.31 · p. 35
अनुष्टुप्