कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Medinīkośa

नानार्थशब्दकोश or मेदिनीकोश Medinīkośa

2,500 verses · text only, tagging comes next

कान्तवर्गः · कद्विकम्

कद्विकम्

अर्कोऽर्कपर्णे स्फटिके रवौ ताम्रे दिवस्पतौ ॥ १६ ॥
1.2.16 · p. 2
अङ्को रूपकभेदाङ्गचिह्नरेखाजिभूषणे ।रूपकांशाऽन्तिकोत्सङ्गस्थानेऽकं पापदुःखयोः ॥ १७ ॥
1.2.17 · p. 2
अनुष्टुप्
एकं संख्यान्तरे श्रेष्ठे केवलेतरयोस्त्रिषु ।कर्कः कर्केऽनिले वह्नौ शुक्लाश्वे दर्पणे घटे ॥ १८ ॥
1.2.18 · p. 2
अनुष्टुप्
कङ्कश्छद्मद्विजे ख्यातो लोहपृष्ठकृतान्तयोः ।कल्कोऽस्त्री घृततैलादिशेषे दम्भे बिभीतके ॥ १९ ॥
1.2.19 · p. 2
अनुष्टुप्
(५)विटविट्टयोश्च पापे च त्रिषु पापाशये पुनः ।काकः स्याद्वायसे वृक्षप्रभेदे पीठसर्पिणि ॥ २० ॥
1.2.20 · p. 2
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शिरोऽवक्षालने मानप्रभेदद्वीपभेदयोः ।काका स्यात् काकनासायां काकोलीकाकजङ्घयोः ॥ २१ ॥
1.2.21 · p. 3
अनुष्टुप्
रक्तिकायां मलप्वां च काकमाच्यां च योषिति ।काकं सुरतबन्धे स्यात् काकानामपि संहतौ ॥ २२ ॥
1.2.22 · p. 3
अनुष्टुप्
किष्कुर्द्वयेार्वितस्तौ च प्रकोष्ठेऽपि करेऽपि च ।कोकश्चक्रे वृके ज्येष्ठ्यां खर्जूरीद्रुमदर्दुरे ॥ २३ ॥
1.2.23 · p. 3
अनुष्टुप्metre not read in every lineimpossible sign sequence: ष्कुर्द्वयेार्वितसnearly अनुष्टुप्
छेको गृहाश्रितमृगपक्षिणोर्नागरे त्रिषु ।टङ्को नीलकपित्थे च खनित्रे टङ्कनेऽस्त्रियाम् ॥ २४ ॥
1.2.24 · p. 3
अनुष्टुप्
जङ्घायां स्त्री पुमान् कोपे कोशासिग्रावदारणे ।तर्कः काङ्क्षावितर्कोहहेतुशास्त्रेषु कथ्यते ॥ २५ ॥
1.2.25 · p. 3
अनुष्टुप्
त्रिका कूपस्य नेमौ स्यात् कं पृष्ठाधरे त्रये ।तोकं पुत्रे सुतायां च द्विकः स्यात् काककोकयोः ॥ २६ ॥
1.2.26 · p. 3
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
न्यङ्कुर्मुनौ मृगे पुंसि नाकस्तु त्रिदिवेऽम्बरे ।नाकुर्मुन्यन्तरे पृथ्वीधरवल्मीकयेाः पुमान् ॥ २७ ॥
1.2.27 · p. 3
अनुष्टुप्metre not read in every lineimpossible sign sequence: ीधरवल्मीकयेाः पुमाnearly अनुष्टुप्
निष्कमस्त्री साष्टहेमशतं दीनारकर्षयोः ।वक्षेाऽलङ्करणे हेमपात्रे हेमपलेऽपि च ॥ २८ ॥
1.2.28 · p. 3
metre not recognisedimpossible sign sequence: वक्षेाऽलङ्करnearly अनुष्टुप्
पङ्कोऽस्त्री कर्दमे पापे पाकः परिणतौ शिशौ ।केशस्य जरसा शौक्ल्ये स्थाल्यादौ पचनेऽपि च ॥ २९ ॥
1.2.29 · p. 3
अनुष्टुप्
बकस्तु बकपुष्पे स्यात् कह्वे श्रीदे च रक्षसि ।भूकं छिद्रे च काले च भेको मण्डूकमेघयोः ॥ ३० ॥
1.2.30 · p. 3
अनुष्टुप्
मुष्को मोक्षकवृक्षे स्यात् (१)संहते वृषणेऽपि च ।मूकस्त्ववाचि ना दैत्ये रङ्कः (२)कृपणमन्दयोः ॥ ३१ ॥
1.2.31 · p. 3
अनुष्टुप्
राका नद्यन्तरे कच्छ्वां नवजातरजःस्त्रियाम् ।सम्पूर्णेन्दुतिथौ रेकः शङ्कानीचविरेचने ॥ ३२ ॥
1.2.32 · p. 3
अनुष्टुप्
रोकस्तु क्रयभिद्दीप्त्यो रोकं नावि चले बिले ।लङ्का रक्षःपुरीशाखाशाकिनीकुलटालु च ॥ ३३ ॥
1.2.33 · p. 3
अनुष्टुप्
लोको जनेऽपि भुवने वल्कं वल्कलशल्कयोः ।वङ्कः पर्याणभागे ना नदीपात्रे च भङ्गुरे ॥ ३४ ॥
1.2.34 · p. 4
अनुष्टुप्
शल्कं तु शकले वल्के शको जात्यन्तरे नृपे ।शङ्कुः संख्याऽस्त्रयादोभित्कीलेशकलुषेषु ना ॥ ३५ ॥
1.2.35 · p. 4
अनुष्टुप्
शङ्का त्रासे वितर्के च शाको द्वीपान्तरेऽपि च ।शक्तौ द्रुमविशेषे च पुमान् हरितकेऽस्त्रियाम् ॥ ३६ ॥
1.2.36 · p. 4
अनुष्टुप्
शुको व्याससुते कीरे रावणस्य च मन्त्रिणि ।शिरीषपादपे पुंसि ग्रन्थिपर्णे नपुंसकम् ॥ ३७ ॥
1.2.37 · p. 4
अनुष्टुप्
शुल्कं घट्टादिदेये स्याद्वरार्थग्रहेऽस्त्रियाम् ।शूकोऽस्त्री शुङ्गदलयोः श्लोकः पद्ये यशस्यपि ॥ ३८ ॥
1.2.38 · p. 4
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शौकं शुकगणे स्त्रीणां करणे सूक इत्यपि(१) ।बाणवातोत्पले (२)स्तोकस्त्रिष्वल्पे चातके पुमान् ॥ ३९ ॥
1.2.39 · p. 4
अनुष्टुप्