All kośas › Medinīkośa
नानार्थशब्दकोश or मेदिनीकोश Medinīkośa
2,500 verses · text only, tagging comes next
शान्तवर्गः · शद्विकम्
शद्विकम्
अंशुरर्कप्रभोस्रेषु नाऽऽशा तृष्णादिशोः स्त्रियाम् ।आशुर्धान्यान्तरे शीघ्रेऽपीशा लाङ्गलदण्डके ॥ २ ॥
30.2.2 · p. 162
अनुष्टुप्
ईशः प्रभौ महादेवे काशी वाराणसीपुरे ।न स्त्रियां तृणभेदे स्यात् कीशो दिगम्बरे कपौ ॥ ३ ॥
30.2.3 · p. 162
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 दि (wrong syllable)
कुशी फाले कुशा रज्ज्वां त्रिषु पापिष्ठमत्तयोः ।योक्त्ररामसुतद्वीपे ना दर्भेऽस्त्री कुशं जले ॥ ४ ॥
30.2.4 · p. 162
अनुष्टुप्
केशः स्यात् पुंसि वरुणे ह्रीबेरे कुन्तलेऽपि च ।क्लेशो दुःखेऽपि कोपेऽपि व्यवसायेऽपि दृश्यते ॥ ५ ॥
30.2.5 · p. 162
अनुष्टुप्
कोशोऽस्त्री कुद्मले पात्रे दिव्ये खड्गपिधानके ।जातिकोषेऽर्थसङ्घाते पेश्यां शब्दादिसङ्ग्रहे ॥ ६ ॥
30.2.6 · p. 162
अनुष्टुप्
दर्शस्तु स्यादमावस्यायागभेदावलोकने ।दंशः कीटविशेषे च वर्मदंशनयोः पुमान् ॥ ७ ॥
30.2.7 · p. 163
अनुष्टुप्
दशाऽवस्थादीपवर्त्त्योर्वस्त्रान्ते भूम्नि योषिति ।दृक् स्त्रियां दर्शने नेत्रे बुद्धौ च त्रिषु वीक्षके ॥ ८ ॥
30.2.8 · p. 163
अनुष्टुप्
नाशः पलायनेऽपि स्यान्निधानानुपलम्भयोः ।निशा दारुहरिद्रायां स्यात् त्रियामाहरिद्रयोः ॥ ९ ॥
30.2.9 · p. 163
अनुष्टुप्
पशुर्मृगादिदेवाजे नाव्ययं पशु दर्शने ।पाशः केशादिपूर्वः स्यात् तत्सङ्घे कर्णपूर्वकः ॥ १० ॥
30.2.10 · p. 163
अनुष्टुप्
सुकर्णे च स्वसामर्थ्यान् मृगपक्ष्यादिबन्धने ।पांशुर्धूलौ च शस्यार्थचिरसञ्चितगोमये ॥ ११ ॥
30.2.11 · p. 163
अनुष्टुप्
पेशी सुपक्वकलिके मांस्यां खड्गपिधानके ।मांसपिण्ड्यामण्डभेदे राशिर्मेषादिपुञ्जयोः ॥ १२ ॥
30.2.12 · p. 163
अनुष्टुप्
वंशः पुंसि कुले वेणौ पृष्ठावयववर्गयोः ।वशा वन्ध्यासुतायोषास्त्रीगवीकरिणीषु च ॥ १३ ॥
30.2.13 · p. 163
अनुष्टुप्
त्रिष्वायत्ते क्लीबमायत्तत्त्वे चेच्छाप्रभुत्वयोः ।विट् पुंसि मनुजे वैश्ये वेशो वेश्यागृहे गृहे ॥ १४ ॥
30.2.14 · p. 163
अनुष्टुप्
नेपथ्ये च शशो वोले लोध्रे नृपशुभेदयोः ।स्पर्शो रुजायां दाने च स्पर्शने स्पर्शकेऽपि च ॥ १५ ॥
30.2.15 · p. 163
अनुष्टुप्
स्पर्शः स्यात् सम्पराये च प्रणिधावपि पुंस्ययम् ।
30.2.15 · p. 163