कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Medinīkośa

नानार्थशब्दकोश or मेदिनीकोश Medinīkośa

2,500 verses · text only, tagging comes next

घान्तवर्गः · घत्रिकम्

घत्रिकम्

अनघो निर्मलापापमनोज्ञेष्वभिधेयवत् ॥ ६ ॥
4.3.6 · p. 26
अमोघः सफले वाच्यवत् स्त्री पथ्याविडङ्गयोः ।उल्लाघोऽपि शुचौ कृष्णे दक्षनीरोगयोस्त्रिषु ॥ ७ ॥
4.3.7 · p. 26
अनुष्टुप्
काचिघः काञ्चनेऽपि स्याच्छेमण्डे मूषकेऽपि च ।निदाघो ग्रीष्मकाले स्यादुष्णस्वेदाम्बुनोरपि ॥ ८ ॥
4.3.8 · p. 26
अनुष्टुप्
पलिघः काचकलशे घटे प्राकारगोपुरे ।परिघो योगभेदेऽस्त्रविशेषेऽर्गलघातयोः ॥ ९ ॥
4.3.9 · p. 26
अनुष्टुप्
प्रतिघः प्रतिघाते स्यात् क्रोधेऽपि परिकीर्तितः ।महार्घस्तु महामूल्ये त्रिषु स्याल्लावके पुमान् ॥ १० ॥
4.3.10 · p. 27
अनुष्टुप्
सर्वौघो गुरुभेदे च सर्वसन्नहने पुमान् ।
4.3.6 · p. 27