कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Medinīkośa

नानार्थशब्दकोश or मेदिनीकोश Medinīkośa

2,500 verses · text only, tagging comes next

षान्तवर्गः · षत्रिकम्

षत्रिकम्

अध्यक्षोऽधिकृते पुंसि प्रत्यक्षे त्वभिधेयवत् ॥ २९ ॥
31.3.29 · p. 167
अभिषुः प्रग्रहे रश्मौ नाकर्षो द्यूत इन्द्रिये ।पाशके शारिफलके कोदण्डाभ्यासवस्तुनि ॥ ३० ॥
31.3.30 · p. 167
अनुष्टुप्
आकर्षणेऽपि पुंसि स्यादामिषं पुन्नपुंसकम् ।भोग्यवस्तुनि सम्भोगेऽप्युत्कोचे पललेऽपि च ॥ ३१ ॥
31.3.31 · p. 167
अनुष्टुप्
उष्णीषन्तु शिरोवेष्टे किरीटे लक्षणान्तरे ।उत्प्रेक्षाऽनपधानेऽपि काव्यालङ्करणान्तरे ॥ ३२ ॥
31.3.32 · p. 167
अनुष्टुप्
कल्मषं किल्विषे क्लीबं पुंसि स्यान्नरकान्तरे ।कल्माषो यातुधाने च कृष्णपाण्डरकृष्णयोः ॥ ३३ ॥
31.3.33 · p. 167
अनुष्टुप्
कलुषं त्वाविले पापे किल्विषं पापरोगयोः ।अपराधेऽपि कुल्माषं काञ्जिके यावके पुमान् ॥ ३४ ॥
31.3.34 · p. 168
अनुष्टुप्
गण्डूषो मुखपूर्त्तीभपुष्करप्रसृतोन्मिते ।गवाक्षी शक्रवारुण्यां गवाक्षो जालके कपौ ॥ ३५ ॥
31.3.35 · p. 168
अनुष्टुप्
गोरक्षो नागरङ्गे स्याद् गवाञ्च परिरक्षके ।जिगीषा जेतुमिच्छायां व्यवसायप्रकर्षयोः ॥ ३६ ॥
31.3.36 · p. 168
अनुष्टुप्
तरीषः शोभनाकारे भेलेऽब्धिव्यवसाययोः ।तरीषी शक्रकन्यायां पुंसि स्वर्गे महोदधौ ॥ ३७ ॥
31.3.37 · p. 168
अनुष्टुप्
तारीषी चेन्द्रकन्यायां ना स्वर्गाम्बुधिकाञ्चने ।नहुषो नागभेदे स्यात् सोमवंशनृपेऽपि च ॥ ३८ ॥
31.3.38 · p. 168
अनुष्टुप्
निकषः शाणफलके निकषा यातुमातरि ।निमेषनिमिषौ कालप्रभेदेऽक्षिनिमीलने ॥ ३९ ॥
31.3.39 · p. 168
अनुष्टुप्
परुषं कर्बुरे रूक्षे निष्ठुरोक्तौ च वाच्यवत् ।प्रदोषः समये दोषे प्रत्युषोऽहर्मुखे वसौ ॥ ४० ॥
31.3.40 · p. 168
अनुष्टुप्
पीयूषं सप्तदिवसावधिक्षीरे तथाऽमृते ।पुरुषः पूरुषे साङ्ख्यज्ञे च पुन्नागपादपे ॥ ४१ ॥
31.3.41 · p. 168
अनुष्टुप्
पौरुषं पुरुषस्य स्याद् भावे कर्मणि तेजसि ।ऊर्ध्वविस्तृतदोःपाणिनृमाने त्वभिधेयवत् ॥ ४२ ॥
31.3.42 · p. 168
अनुष्टुप्
महिषी कृताभिषेकासैरिभ्योरोषधीभिदि ।मारिषः शाकभिद्यार्य्ये नाट्योक्तौ पुंसि योषिति ॥ ४३ ॥
31.3.43 · p. 168
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 कृ (wrong syllable)
दक्षाम्बायां मृगाक्षी तु विशालामृगनेत्रयोः ।रक्ताक्षः कासरे क्रूरे पारावतचकोरयोः ॥ ४४ ॥
31.3.44 · p. 168
अनुष्टुप्
रौहिषं कत्तृणे क्लीबं पुंसि स्याद्धरिणान्तरे ।विश्लेषो विधुरेऽयोगे शुश्रूषा स्यादुपासने ॥ ४५ ॥
31.3.45 · p. 168
अनुष्टुप्
कथने श्रोतुमिच्छायां शैलूषो नटबिल्वयोः ।संहर्षस्तु प्रमोदेऽपि स्पर्द्धायाञ्च प्रभञ्जने ॥ ४६ ॥
31.3.46 · p. 168
अनुष्टुप्
सङ्घर्षः स्यात् पुमान् घृष्टौ स्पर्द्धायामपि दृश्यते ।समीक्षा तु स्त्रियां तत्त्वे बुद्धावपि निभालने ॥ ४७ ॥
31.3.47 · p. 168
अनुष्टुप्