All kośas › Medinīkośa
नानार्थशब्दकोश or मेदिनीकोश Medinīkośa
2,500 verses · text only, tagging comes next
धान्तवर्गः · धद्विकम्
धद्विकम्
अर्द्धं समांशे खण्डे नाऽब्धिर्ना सरसि वारिधौ ॥ २ ॥
19.2.2 · p. 78
अन्धं स्यात्तिमिरे क्लीबं चक्षुर्हीनेऽभिधेयवत् ।आधिः पुमांश्चित्तपीडाप्रत्याशाबन्धकेषु च ॥ ३ ॥
19.2.3 · p. 79
अनुष्टुप्
व्यसने चाप्यधिष्ठानेऽपीद्धमातपदीप्तयोः ।ऋद्धं सम्पन्नधान्ये च सुसमृद्धे च वाच्यवत् ॥ ४ ॥
19.2.4 · p. 79
अनुष्टुप्
ऋद्धिः स्यादौषधीभेदे समृद्धावपि योषिति ।गन्धः प्रतिवेश्यामोदलेशसम्बन्धगन्धके ॥ ५ ॥
19.2.5 · p. 79
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वे (wrong syllable)
गाधः स्थाने च लिप्सायां गोधा तलनिहाकयोः ।दधि क्षीरोत्तरा(१)वस्थाभावे श्रीवासस(२)र्जयोः ॥ ६ ॥
19.2.6 · p. 79
अनुष्टुप्
दग्धं प्लुष्टेऽन्यलिङ्गं स्यात् स्थितार्कदिशि च स्त्रियाम् ।दिग्धा विषाक्तबाणे स्यात्पुंसि लिप्तेऽन्यलिङ्गकः ॥ ७ ॥
19.2.7 · p. 79
अनुष्टुप्
दुग्धं प्रपूरिते क्षीरे दुग्धी क्षीराविकौषधौ ।दोग्धाऽर्थोपजीविकवौ वत्सगोपालयोः पुमान् ॥ ८ ॥
19.2.8 · p. 79
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 प (wrong syllable)
नद्धो बद्धे तथोद्वृत्ते बन्ध आधौ च बन्धने ।बन्धुः स्यात्पुंसि बन्धूके मित्रे त्रातरि बान्धवे ॥ ९ ॥
19.2.9 · p. 79
अनुष्टुप्
बाधा दुःखे निषेधे च बुधः सौम्ये च पण्डिते ।बुद्धो जिने लब्धवर्णे पुंसि स्याद्बुधितेऽन्यवत् ॥ १० ॥
19.2.10 · p. 79
अनुष्टुप्
बोधिः पुंसि समाधेश्च भेदे पिप्पलपादपे ।मधुपुष्परसे क्षौद्रे मद्ये ना तु मधुद्रुमे ॥ ११ ॥
19.2.11 · p. 79
अनुष्टुप्
वसन्तदैत्यभिच्चैत्रे स्याज्जीवन्त्यां तु योषिति ।मिद्धं चित्ताभिसङ्क्षेपे क्लीबमालस्यनिद्रयोः ॥ १२ ॥
19.2.12 · p. 79
अनुष्टुप्
मुग्धस्तु सुन्दरे मूढे मेधा बुधौ क्रतौ पुमान् ।राधो मासान्तरे राधा चित्रभेदे च धन्विनाम् ॥ १३ ॥
19.2.13 · p. 79
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 बु (wrong syllable)
गोपीविशाखामलकीविष्णुकान्तासु विद्युति ।लुब्ध आकाङ्क्षिणि व्याधे वधूः स्त्री शारिवौषधौ ॥ १४ ॥
19.2.14 · p. 79
अनुष्टुप्
स्नुषाशटीनवोढासु चार्यापृक्काङ्गनासु च ।व्याधिः कुष्ठे च रोगे ना व्याधो मृगयुदुष्टयोः ॥ १५ ॥
19.2.15 · p. 79
अनुष्टुप्
तारामयेशे च विधुर्ना कर्पूरेन्दुविष्णुषु ।विद्धं स्याद्वेधिते क्षिप्ते सदृशे बाधिते त्रिषु ॥ १६ ॥
19.2.16 · p. 80
अनुष्टुप्
विधिर्ना नियतौ काले विधाने परमेष्ठिनि ।विधा गजान्ने ऋद्धौ च प्रकारे वेतने विधौ ॥ १७ ॥
19.2.17 · p. 80
अनुष्टुप्
वृद्धो जीर्णे प्रवृद्धे ज्ञे त्रिषु क्लीबं तु शैलजे ।वृद्धिस्तु वर्द्धने योगेऽप्यष्टवर्गौषधान्तरे ॥ १८ ॥
19.2.18 · p. 80
अनुष्टुप्
कालान्तरे चाभ्युदये समृद्धावपि योषिति ।श्रद्धाऽऽदरे च काङ्क्षायां श्राद्धं श्रद्धाऽन्विते त्रिषु ॥ १९ ॥
19.2.19 · p. 80
अनुष्टुप्
हव्यकव्यविधौ क्लीबं शुद्धं स्यात्त्रिषु केवले ।निर्दोषे च पवित्रे च सन्धा स्थितिप्रतिज्ञयोः ॥ २० ॥
19.2.20 · p. 80
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्थि (wrong syllable)
स्पर्द्धा संहर्षणेऽपि स्यात्साम्ये क्रमसमुन्नतौ ।सन्धिः पुमान् सुरुङ्गायां भगे सङ्घटनेऽपि च ॥ २१ ॥
19.2.21 · p. 80
अनुष्टुप्
रूपकाणां मुखाद्यङ्गे सावकाशेऽपि कीर्तितः ।स्कन्धः स्यान्नृपतावंसे सम्परायसमूहयोः ॥ २२ ॥
19.2.22 · p. 80
अनुष्टुप्
कार्ये तरुप्रकाण्डे च भद्रादौ छन्दसो भिदि ।साधुर्वार्धुषिके चारौ सज्जने चाभिधेयवत् ॥ २३ ॥
19.2.23 · p. 80
अनुष्टुप्
सिद्धो ना व्यासादौ भेदे योगस्य देवयोनेश्च ।त्रिषु निष्पन्ने स्निग्धं स्नेहयुते चिक्कणेऽपि स्यात् ॥ २४ ॥
19.2.24 · p. 80
metre not recognised
सिन्धुर्वमथुदेशाब्धिनदे ना सरिति स्त्रियाम् ।सिद्धिः स्त्री योगनिष्पत्तिपादुकान्तर्द्धिवृद्धिषु ॥ २५ ॥
19.2.25 · p. 80
अनुष्टुप्
सुधा स्त्री लेपने मूर्व्यां स्नुहीगङ्गष्टकामृते ।
19.2.25 · p. 80