कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Medinīkośa

नानार्थशब्दकोश or मेदिनीकोश Medinīkośa

2,500 verses · text only, tagging comes next

मान्तवर्गः · मचतुष्कम्

मचतुष्कम्

भवेदनुपमा सुप्रतीकिन्यां स्त्री त्रिषूत्तमे ।अभ्यागमो विरोधाजिघाताभ्युद्गमनान्तिके ॥ ५८ ॥
25.4.58 · p. 112
अनुष्टुप्
उपक्रमस्तूपधायां ज्ञात्रारम्भे च विक्रमे ।चिकित्सायामुपगमः स्वीकारेऽन्तिकसर्पणे ॥ ५९ ॥
25.4.59 · p. 112
अनुष्टुप्
जलगुल्मो जलावर्त्ते कच्छपे जलजत्वरे ।दण्डयामस्तु कीनाशे दिवसे कुम्भसम्भवे ॥ ६० ॥
25.4.60 · p. 112
अनुष्टुप्
प्लवङ्गमस्तु मण्डूके तथा शाखामृगेऽपि च ।पराक्रमो विक्रमे स्यात् सामर्थ्योद्योगयोरपि ॥ ६१ ॥
25.4.61 · p. 112
अनुष्टुप्
महापद्मः पुमान्नागनिधिसङ्ख्यान्तरेषु च ।यातयामोऽन्यवज्जीर्णे परिभुक्तोञ्झितेऽपि च ॥ ६२ ॥
25.4.62 · p. 112
अनुष्टुप्
सार्वभौमस्तु दिङ्नागे सर्वपृथ्वीपतावपि ।
25.4.6 · p. 112