कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Medinīkośa

नानार्थशब्दकोश or मेदिनीकोश Medinīkośa

2,500 verses · text only, tagging comes next

सान्तवर्गः · सत्रिकम्

सत्रिकम्

अलसा हंसपद्यां ना पादरोगद्रुभेदयोः ॥ १४ ॥
32.3.14 · p. 171
क्रियामन्दे त्रिष्वथार्चिर्मयूखशिखयोर्न ना ।अदस् परस्मिन्नत्र स्यादभ्यासोऽभ्यसनेऽन्तिके ॥ १५ ॥
32.3.15 · p. 171
अनुष्टुप्
आगोऽपराधे पापे स्यादाश्वासः पुंसि निर्वृतौ ।आख्यायिकापरिच्छेदे चाशीर्दन्ते मरुद्भुजाम् ॥ १६ ॥
32.3.16 · p. 171
अनुष्टुप्
हितस्याशंसने स्त्री स्यादिष्वासः कार्मुके पुमान् ।त्रिषु स्यात् क्षेपके चेषोरुच्छ्वासः प्राणनेऽपि च ॥ १७ ॥
32.3.17 · p. 171
अनुष्टुप्
आख्यायिकापरिच्छेदेऽप्याश्वासेऽपि पुमानयम् ।उत्तंसः कर्णपूरेऽपि शिखरेऽपि च न स्त्रियाम् ॥ १८ ॥
32.3.18 · p. 171
अनुष्टुप्
उषस् प्रत्यूषसि क्लीबं पितृप्रस्वाञ्च योषिति ।उरस् वक्षसि च श्रेष्ठेऽप्येनः पापापराधयोः ॥ १९ ॥
32.3.19 · p. 171
अनुष्टुप्
ओजस् दीप्ताववष्टम्भे प्रकाशबलयोरपि ।ओकस् आश्रयमात्रे च मन्दिरे च नपुंसकम् ॥ २० ॥
32.3.20 · p. 171
अनुष्टुप्
कीकसः कृमिजातौ स्यात् पुंसि कुल्ये नपुंसकम् ।चमसो यज्ञपात्रस्य भेदेऽस्त्री पिष्टके स्त्रियाम् ॥ २१ ॥
32.3.21 · p. 171
अनुष्टुप्
छन्दस् पद्ये च वेदे च स्वैराचाराभिलाषयोः ।ज्यायान् वृद्धेऽतिप्रशस्ते ज्योतिरग्नौ दिवाकरे ॥ २२ ॥
32.3.22 · p. 171
अनुष्टुप्
पुमान्नपुंसकं दृष्टौ स्यान्नक्षत्रप्रकाशयोः ।तरो बले च वेगे च तपो लोकान्तरेऽपि च ॥ २३ ॥
32.3.23 · p. 171
अनुष्टुप्
चान्द्रायणादौ धर्मे च पुमान् शिशिरमाघयोः ।तमो ध्वान्ते गुणे शोके क्लीबं वा ना विधुन्तुदे ॥ २४ ॥
32.3.24 · p. 171
अनुष्टुप्
तामसी निशि दुर्गायां तामसी भुजगे खले ।तेजो दीप्तौ प्रभावे च स्यात् पराक्रमरेतसोः ॥ २५ ॥
32.3.25 · p. 171
अनुष्टुप्
धनुः पियाले ना न स्त्री राशिभेदे शरासने ।धनुर्द्धरे त्रिषु नभः क्लीबं पुमान् घने ॥ २६ ॥
32.3.26 · p. 171
अनुष्टुप्metre not read in every line
घ्राणश्रावणवर्षासु बिसतन्तौ पतद्ग्रहे ।पनसः कण्टकीफले कण्टके वानरान्तरे ॥ २७ ॥
32.3.27 · p. 171
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 फ (wrong syllable)
स्त्रियां रोगप्रभेदे स्यात् पयः स्यात् क्षीरनीरयोः ।पायसस्तु क्लीबपुंसोः श्रीवासपरमान्नयोः ॥ २८ ॥
32.3.28 · p. 172
अनुष्टुप्
पुक्कसी कलिकानील्योः पुक्कसः श्वपचेऽधमे ।बीभत्सो नाऽर्ज्जुने क्रूरघृणात्मविकृते त्रिषु ॥ २९ ॥
32.3.29 · p. 172
अनुष्टुप्
भूयान् त्रिषु बहुतरे पुनरर्थे त्वदोऽव्ययम् ।मनस् चित्ते मनीषायां मह उत्सवतेजसोः ॥ ३० ॥
32.3.30 · p. 172
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 षु (wrong syllable)
मानसं सरसि स्वान्ते रभसो वेगहर्षयोः ।रहस् तत्त्वे रते गुह्ये रजस् क्लीबं गुणान्तरे ॥ ३१ ॥
32.3.31 · p. 172
अनुष्टुप्
आर्त्तवे च परागे च रेणुमात्रे च दृश्यते ।राक्षसो यातुधाने स्याच्चण्डयां राक्षसी स्मृता ॥ ३२ ॥
32.3.32 · p. 172
अनुष्टुप्
रेपाः स्यादधमे क्रूरे कृपणेऽप्यभिधेयवत् ।रेतस् शुक्रे पारदे च रोदश्च रोदसीति च ॥ ३३ ॥
32.3.33 · p. 172
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)
दिवि भूमौ पृथक् च स्यात् सह्योक्त्याप्येतयोस्तथा ।लालसौत्सुक्यतृष्णातिरेकयाच्ञासु च द्वयोः ॥ ३४ ॥
32.3.34 · p. 172
अनुष्टुप्
वयस् पक्षिणि बाल्यादौ यौवने च नपुंसकम् ।वर्च्चो नपुंसकं रूपे विष्ठायामपि तेजसि ॥ ३५ ॥
32.3.35 · p. 172
अनुष्टुप्
पुंसि चन्द्रस्य तनये वर्हिस् पुंसि हुताशने ।न स्त्री कुशे वपुस् क्लीबं तनौ शस्ताकृतावपि ॥ ३६ ॥
32.3.36 · p. 172
अनुष्टुप्
वतंसस्तु पुमान् कर्णपूरशेखरयोरपि ।वाहसो जलनिर्याने शयालौ सुनिषण्णके ॥ ३७ ॥
32.3.37 · p. 172
अनुष्टुप्
वायसोऽगुरुवृक्षे च श्रीवासध्वाङ्क्षयोः पुमान् ।काकोडुम्बरिकायाञ्च काकमाच्याञ्च वायसी ॥ ३८ ॥
32.3.38 · p. 172
अनुष्टुप्
विद्वानात्मविदि प्राज्ञे पण्डिते चाभिधेयवत् ।विलासो हारभेदे स्याल्लीलायामपि पुंस्ययम् ॥ ३९ ॥
32.3.39 · p. 172
अनुष्टुप्
वीतंसो बन्धनोपाये मृगाणां पक्षिणामपि ।तेषामपि च विश्वासहेतोः प्रावरणेऽपि च ॥ ४० ॥
32.3.40 · p. 172
अनुष्टुप्
वेधाः पुंसि हृषीकेशे बुधे च परमेष्ठिनि ।शिरस् प्रधाने सेनाग्रे शिखरे मस्तकेऽपि च ॥ ४१ ॥
32.3.41 · p. 172
अनुष्टुप्
श्रीवासो वृकधूपे स्यात् पङ्कजे मधुसूदने ।श्रेयो मुक्तौ शुभे घर्मेऽतिप्रशस्ते च वाच्यवत् ॥ ४२ ॥
32.3.42 · p. 173
अनुष्टुप्
श्रेयसी करिपिप्पल्यामभयापाठयोरपि ।सहो बले ज्योतिषि च पुंसि हेमन्तमार्गयोः ॥ ४३ ॥
32.3.43 · p. 173
अनुष्टुप्
सरसी विल्ले कासारे सरो नीरतडागयोः ।स्यात् समासस्तु पुंलिङ्गः सङ्क्षेपे च समर्थने ॥ ४४ ॥
32.3.44 · p. 173
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ल्ले (wrong syllable)
सारसः पक्षिभेदेन्द्वोः क्लीबन्तु सरसीरुहे ।साहसन्तु बलात्कारकृतकार्य्ये दमेऽपि च ॥ ४५ ॥
32.3.45 · p. 173
अनुष्टुप्
सुरसन्तु त्रिषु स्वादौ पर्णासे तु नपुंसकम् ।स्त्री रास्नानागमात्रोश्च स्रोतोऽम्बुवेग इन्द्रिये ॥ ४६ ॥
32.3.46 · p. 173
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 म्बु (wrong syllable)
हविर्होतव्यमात्रे च सर्पिष्यपि नपुंसकम् ।
32.3.34 · p. 173