All kośas › Medinīkośa
नानार्थशब्दकोश or मेदिनीकोश Medinīkośa
2,500 verses · text only, tagging comes next
कान्तवर्गः · कचतुष्कम्
कचतुष्कम्
भवेदलिमको भेके पिकेऽलौ पद्यकेसरे ।मधूकेऽप्यथालिपको भृङ्गकोकिलकुक्कुरे ॥ १७४ ॥
1.4.174 · p. 14
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 प्य (wrong syllable)
अङ्गारकः कुजेऽपि स्यादुल्मुकांशे कुरुण्टके ।भवेदङ्गारिका चेक्षुकाण्डे(२) किंशुककोरके ॥ १७५ ॥
1.4.175 · p. 14
अनुष्टुप्
स्यादश्मन्तकमुद्धाने मल्लिकाच्छदनेऽपि च ।आकल्पकस्तमोमोहग्रन्थावुत्कलिकामदोः ॥ १७६ ॥
1.4.176 · p. 14
अनुष्टुप्
आक्षेपकोऽनिलव्याधौ व्याधे निन्दाकरेऽपि च ।भवेदाखनिकश्चौरे शूकरे मूषिकेऽपि च ॥ १७७ ॥
1.4.177 · p. 15
अनुष्टुप्
कथितोत्कलिकोत्कण्ठाहेलासलिलवीचिषु ।एडमूकोऽन्यलिङ्गः स्याच्छठे वाक्श्रुतिवर्जिते ॥ १७८ ॥
1.4.178 · p. 15
अनुष्टुप्
कठिल्लकस्तु पर्णाशे वर्षाभूकारवेल्लयोः ।कपर्दको वराटे स्याज्जटाजूटे च धूर्जटेः ॥ १७९ ॥
1.4.179 · p. 15
अनुष्टुप्
कर्कोटकः स्यान्मालूरकाद्रवेयप्रभेदयोः ।कलविङ्कः पुमान् ग्रामचटकेऽपि कलिङ्गके ॥ १८० ॥
1.4.180 · p. 15
अनुष्टुप्
कनीनिका तारकोऽक्ष्णः स्यात् कनिष्ठाङ्गुलावपि ।कापटिकोऽन्यमर्मज्ञे छात्रे पुंसि शठे त्रिषु ॥ १८१ ॥
1.4.181 · p. 15
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 3 टि (wrong syllable)
काकरूको नग्नदम्भस्त्राजितोलूकभीरुषु ।निःस्वे कुरुबकः शोणाम्लानझिण्टीप्रभेदयोः ॥ १८२ ॥
1.4.182 · p. 15
अनुष्टुप्
कुरण्टकः पीतपुष्पाम्लानझिण्टीकयोः पुमान् ।कृकवाकुर्मयूरेऽपि सरटे चरणायुधे ॥ १८३ ॥
1.4.183 · p. 15
अनुष्टुप्
कोशातकः (१)कठे पुंसि पटोल्यां घोषके स्त्रियाम् ।अथ कौक्कुटिकोऽदूरप्रेरिताक्षे च दाम्भिके ॥ १८४ ॥
1.4.184 · p. 15
अनुष्टुप्
कौलेयकः सारमेये कुलीनेऽथ खरालिकः ।ग्रामणीभण्डिनाराचेऽप्युपधाने च पुंस्ययम् ॥ १८५ ॥
1.4.185 · p. 15
अनुष्टुप्
भवेद्गुणनिका नृत्यशून्याङ्के पाठनिश्चितौ ।गोकण्टको गोक्षुरके स्थपुटे च गवां खुरे ॥ १८६ ॥
1.4.186 · p. 15
अनुष्टुप्
गोमेदकं पीतमणौ काकोले पत्रकेऽपि च ।स्याद्गोकुलिको वलिरे पङ्कस्थगव्युपेक्षके ॥ १८७ ॥
1.4.187 · p. 15
अनुष्टुप्metre not read in every line
अथ घर्घरिका क्षुद्रघण्टावादित्रदण्डयोः ।चर्चरीको महाकाले केशविन्यासशाकयोः ॥ १८८ ॥
1.4.188 · p. 15
अनुष्टुप्
चण्डालिका किन्नरायामुमायामोषधीभिदि ।अथ चातुरकश्चक्रगण्डौ पुंस्यभिधेयवत् ॥ १८९ ॥
1.4.189 · p. 15
अनुष्टुप्
गोचरे लोचनस्यापि चाटुकारे नियन्तरि ।जर्जरीकं बहुच्छिद्रे जरातुरेऽपि वाच्यवत् ॥ १९० ॥
1.4.190 · p. 16
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable)
जीवन्तिका गुडूच्यां च जीवाख्यशाकवन्दयोः ।जैवातृकः पुमान् सोमे दीर्घायुःकृशयास्त्रिषु ॥ १९१ ॥
1.4.191 · p. 16
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ख्य (wrong syllable)
तर्तरीकं वहित्रे स्यान्न द्वयोः पारगे त्रिषु ।तिक्तशाकस्तु खदिरे वरुणे पत्रसुन्दरे ॥ १९२ ॥
1.4.192 · p. 16
अनुष्टुप्
त्रिवर्णकं गोक्षुरके त्रिफलायां कटुत्रिके ।दलाढकः स्वयं जाततिले पृश्न्यां च गैरिके ॥ १९३ ॥
1.4.193 · p. 16
अनुष्टुप्
फेनखातकयोर्नागकेसरे च महत्तरे ।दन्दशूकस्तु पुल्लिङ्गो राक्षसे च सरीसृपे ॥ १९४ ॥
1.4.194 · p. 16
अनुष्टुप्
दासेरकस्तु करभे दासीपुत्रे च धीवरे ।नियामकः कर्णधारे पोतवाहे नियन्तरि ॥ १९५ ॥
1.4.195 · p. 16
अनुष्टुप्
निश्चारकः पुरीषस्य क्षये स्वैरे समीरणे ।निर्ग्रन्थकः स्यात् क्षपणे निष्फलेऽप्यपरिच्छदे ॥ १९६ ॥
1.4.196 · p. 16
अनुष्टुप्
प्रचलाकः शराघाते शिखण्डे च भुजङ्गमे ।प्रकीर्णकं चामरे स्याद्विस्तारे ना तुरङ्गमे ॥ १९७ ॥
1.4.197 · p. 16
अनुष्टुप्
पञ्चालिका स्त्रियां वस्त्रपुत्रिकागीतिभेदयोः ।स्यात् पिप्पलकं वक्षोजवृन्ते सीवनसूत्रके ॥ १९८ ॥
1.4.198 · p. 16
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 कं (wrong syllable)
पिण्डीतकः स्यात्तगरे मदनाख्यमहीरुहे ।अथ पुष्कलको गन्धमृगे क्षपणकीलयोः ॥ १९९ ॥
1.4.199 · p. 16
अनुष्टुप्
पुण्डरीकं सिताम्भोजे सितच्छत्रे च भेषजे ।पुंसि व्याघ्रेऽग्निदिङ्नागे कोशकारान्तरेऽपि च ॥ २०० ॥
1.4.200 · p. 16
अनुष्टुप्
भवेत् पूर्णानकं वर्द्धापने च पटहेऽपि च ।फर्फरीकश्चपेटे स्यात् फर्फरीकं तु मार्दवे ॥ २०१ ॥
1.4.201 · p. 16
अनुष्टुप्
बलाहको गिरौ मेघे दैत्यनागविशेषयोः ।वराटकः पद्मबीजकोशे रज्जौ कपर्दके ॥ २०२ ॥
1.4.202 · p. 16
अनुष्टुप्
बकेरुका बलाकाभिद्वातावर्जितशाखयोः ।वरण्डकस्तु मातङ्गवेद्यां यौवनकण्टके ॥ २०३ ॥
1.4.203 · p. 16
अनुष्टुप्
वर्त्तुलेऽथो वाणिजको वाडवाग्नौ वणिज्यपि ।वृन्दारकः सुरे पुंसि मनोज्ञश्रेष्ठयोस्त्रिषु ॥ २०४ ॥
1.4.204 · p. 17
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वा (wrong syllable)
अथ भ्रमरको भृङ्गे गिरिके चाऽलकान्तरे ।भट्टारको नृपे नाट्यवाचा देवे तपोधने ॥ २०५ ॥
1.4.205 · p. 17
अनुष्टुप्
भयानकः स्मृतो व्याघ्रे रसे राहौ भयङ्करे ।भार्याटिकः पुमान् भार्यानिर्जिते हरिणान्तरे ॥ २०६ ॥
1.4.206 · p. 17
अनुष्टुप्
भवेन्मरुबकः (१)पुष्पविशेषे मदनद्रुमे ।मण्डोदकं चित्तरागे क्लीबमातर्पणेऽपि च ॥ २०७ ॥
1.4.207 · p. 17
अनुष्टुप्
भवेन्मण्डलकं बिम्बे कुष्ठभेदे च दर्पणे ।अथ मर्कटकः सस्यभेदे वानरलूतयोः ॥ २०८ ॥
1.4.208 · p. 17
अनुष्टुप्
मयूरकोऽप्यपामार्गे क्लीबं तुत्थाञ्जने पुनः ।माणवको हारभेदे बाले कुपुरुषेऽपि (२)च ॥ २०९ ॥
1.4.209 · p. 17
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable)
मृष्टेरुको वदान्येऽपि मिष्टाशिन्यतिथिद्विषि ।रतर्द्धिकं स्याद्दिवसे सुखस्थानेष्टमङ्गले ॥ २१० ॥
1.4.210 · p. 17
अनुष्टुप्
(३)राधरेकः पुमान् सीरे सीरके च घनोपले ।लालाटिकः प्रभोर्भावदर्शिन्याश्लेषणान्तरे ॥ २११ ॥
1.4.211 · p. 17
अनुष्टुप्
कार्याक्षमे लेखनिकः कथितो लेखहारके ।लेखेषु परहस्तेन स्वहस्तस्य च लेखके ॥ २१२ ॥
1.4.212 · p. 17
अनुष्टुप्
वर्तरूको नदीभेदे काकनीडे जलावटे ।विनायकस्तु हेरम्बे तार्क्ष्ये विघ्ने जिने गुरौ ॥ २१३ ॥
1.4.213 · p. 17
अनुष्टुप्
वितुन्नकस्तु धान्याके झाटामलमयूरके ।विशेषकोऽस्त्री तिलके विशेषयितरि त्रिषु ॥ २१४ ॥
1.4.214 · p. 17
अनुष्टुप्
विदूषकश्चाटुबटौ परनिन्दाकरेऽपि च ।वैनाशिकः स्यात् क्षणिके परतन्त्रोर्णनाभयोः ॥ २१५ ॥
1.4.215 · p. 17
अनुष्टुप्
वैदेहको वाणिजके शूद्राद्वैश्यासुतेऽपि च ।वैतालिकः पुमान् खेट्टिताले बोधकरे त्रिषु ॥ २१६ ॥
1.4.216 · p. 17
अनुष्टुप्
शतानीकस्तु वृन्दे स्यान्मुनि(१)राजप्रभेदयोः ।शालावृकः शृगाले स्यात् सारमेये वलीमुखे ॥ २१७ ॥
1.4.217 · p. 18
अनुष्टुप्
शिलाटकः पुमानट्टे (२)विलेपे परिकीर्तितः ।शृगालिका शिवायां स्यात् त्रासादपि पलायने ॥ २१८ ॥
1.4.218 · p. 18
अनुष्टुप्
शृङ्गाटकं भवेद्वारिकण्टके च चतुष्पथे ।सन्तानिकाऽपि क्षीरादिसारे मर्कटजालके ॥ २१९ ॥
1.4.219 · p. 18
अनुष्टुप्
सन्दंशिकाऽपि सुचुटीलोहयन्त्रविशेषयोः ।सञ्चारिका तु युगले कुट्टनीघ्राणयोरपि ॥ २२० ॥
1.4.220 · p. 18
अनुष्टुप्
सङ्घाटिका स्त्रियां युग्मे कुट्टिन्यां जलकण्टके ।सुप्रतीकः शोभनाङ्गे भवेदीशानदिग्गजे ॥ २२१ ॥
1.4.221 · p. 18
अनुष्टुप्
अथ सकतिकं मातृयात्रामङ्गलसूत्रके ।ना संन्यस्ते क्षपणके त्रिषु सन्देहजीविनि ॥ २२२ ॥
1.4.222 · p. 18
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 स (wrong syllable)
सोमवल्कस्तु धवलखदिरे कट्फलेऽपि च ।सौगन्धिकं तु कल्हारे पद्मरागेऽपि कत्तृणे ॥ २२३ ॥
1.4.223 · p. 18
अनुष्टुप्
पुंलिङ्गो गन्धपाषाणे सुगन्धिव्यवहारिणि ।
1.4.51 · p. 18