कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Medinīkośa

नानार्थशब्दकोश or मेदिनीकोश Medinīkośa

2,500 verses · text only, tagging comes next

धान्तवर्गः · धचतुष्कम्

धचतुष्कम्

अवरोधस्तिरोधाने राजदारेषु तद्गृहे ।अवष्टब्धो विदूरे स्यादाक्रान्ते चावलम्बिते ॥ ४० ॥
19.4.40 · p. 81
अनुष्टुप्
अनुबन्धस्तु बन्धे स्याद्दोषोत्पादे विनश्वरे ।मुख्यानुयायिनि शिशौ प्रकृतस्यानुवर्त्तने ॥ ४१ ॥
19.4.41 · p. 81
अनुष्टुप्
अनुबन्धी तु हिक्कायां तृष्णायामपि योषिति ।अनिरुद्ध उषानाथे पुंसि (१)चाबन्धनेऽन्यवत् ॥ ४२ ॥
19.4.42 · p. 82
अनुष्टुप्
आशाबन्धः समाश्वासे पुंसि मर्कटजालके ।इष्टगन्धः सुगन्धौ स्यात् त्रिषु क्लीबं तु बालुके ॥ ४३ ॥
19.4.43 · p. 82
अनुष्टुप्
इक्षुगन्धा कोकिलाक्षे क्रोष्ट्यां काशे च गोक्षुरे ।उपलब्धिर्मितौ प्राप्तावपि ज्ञाने च योषिति ॥ ४४ ॥
19.4.44 · p. 82
अनुष्टुप्
उग्रगन्धाऽजमोदायां वचायां छिक्किकौषधौ ।कालस्कन्धस्तमाले स्यात्तिन्दुके जीवकद्रुमे ॥ ४५ ॥
19.4.45 · p. 82
अनुष्टुप्
तीक्ष्णगन्धा वचाराजिकयोः शोभाञ्जने पुमान् ।तृणगोधा चित्रकोले कृकलासेऽपि योषिति ॥ ४६ ॥
19.4.46 · p. 82
अनुष्टुप्
पारिव्याधस्तु पुंसि स्याद्वेतसे च द्रुमोत्पले ।ब्रह्मबन्धुरधिक्षिप्ते निर्देशे ब्राह्मणस्य ना ॥ ४७ ॥
19.4.47 · p. 82
अनुष्टुप्
महौषधं तु शुण्ठ्यां स्याद्विषायां लशुनेऽपि च ।समुन्नद्धः समुद्भूते पण्डितम्मन्यगर्विते ॥ ४८ ॥
19.4.48 · p. 82
अनुष्टुप्