All kośas › Medinīkośa
नानार्थशब्दकोश or मेदिनीकोश Medinīkośa
2,500 verses · text only, tagging comes next
वान्तवर्गः · वद्विकम्
वद्विकम्
अविर्नाथे रवौ मेषे शैलमूषिककम्बले ॥ २ ॥
29.2.2 · p. 157
अश्वः पुञ्जातिभेदे च तुरगे च पुमानयम् ।उर्द्ध्वं स्यादुच्छ्रिते तुङ्गे चोपरिष्टादपि स्मृतम् ॥ ३ ॥
29.2.3 · p. 157
अनुष्टुप्
क्षवः क्षुते राजकायां कविर्वाल्मीकिशुक्रयोः ।सूरौ काव्यकरे पुंसि स्यात् खलीने तु योषिति ॥ ४ ॥
29.2.4 · p. 157
अनुष्टुप्
कण्वं पापे मुनौ पुंसि किण्वं बीजे च शीधुनः ।पापे क्लीबं नपुंसके षण्डेऽन्यवदविक्रमे ॥ ५ ॥
29.2.5 · p. 157
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 स (wrong syllable)
स्यात्तु ग्रीवा कन्धरायां तच्छिरायाञ्च योषिति ।चार्वी तु शोभनाबुद्ध्योर्ज्योत्स्नाधनदभार्य्ययोः ॥ ६ ॥
29.2.6 · p. 158
अनुष्टुप्
छविः शोभारुचोर्योषिज्जवो वेगवति त्रिषु ।पुंलिङ्गस्तु भवेद्वेगे चोण्ड्रपुष्पे जवा स्मृता ॥ ७ ॥
29.2.7 · p. 158
अनुष्टुप्
जीवः प्राणिनि वृत्तौ च वृक्षभेदे बृहस्पतौ ।जीवा जीवन्तिकामौर्वीवचाशिञ्जितभूमिषु ॥ ८ ॥
29.2.8 · p. 158
अनुष्टुप्
न स्त्री तु जीविते तत्त्वं स्वरूपे परमात्मनि ।स्याद्विलम्वितनृत्ये च द्रवः प्रद्रावनर्मणेाः ॥ ९ ॥
29.2.9 · p. 158
अनुष्टुप्impossible sign sequence: द्रावनर्मणेाः ॥ ९
रसेऽपि दवदावौ तु वनवह्नौ वनेऽप्युभौ ।द्वन्द्वं रहस्ये कलहे तथा मिथुनयुग्मयोः ॥ १० ॥
29.2.10 · p. 158
अनुष्टुप्
दार्वी दारुहरिद्रायां तथा गोजिह्विकौषधौ ।द्यौः स्त्री स्वर्गे च गगने दिवं क्लीबं तयोः स्मृतम् ॥ ११ ॥
29.2.11 · p. 158
अनुष्टुप्
देवो मेघे सुरे राज्ञि स्यान्नपुंसकमिन्द्रिये ।देवी कृताभिषेकायां तेजनीपृक्कयोरपि ॥ १२ ॥
29.2.12 · p. 158
अनुष्टुप्
धवः पुमान्नरे धूर्त्ते पत्यौ वृक्षान्तरेऽपि च ।ध्रुवः शङ्कौ हरे विष्णौ वटे चेात्तानपादजे ॥ १३ ॥
29.2.13 · p. 158
अनुष्टुप्metre not read in every lineimpossible sign sequence: ष्णौ वटे चेात्तानपnearly अनुष्टुप्
वसुयोगभिदोः पुंसि क्लीबं निश्चिततर्कयोः ।स्त्री मूर्वाढ्योः शापर्ण्यां गीतिस्रुग्भेयोस्त्रिषु ॥ १४ ॥
29.2.14 · p. 158
अनुष्टुप्metre not read in every line
सन्तते शाश्वते चाथ नवं नव्ये पुमान् स्तुतौ ।नीवी परिपणे स्त्रीणां कटीवसनवन्धने ॥ १५ ॥
29.2.15 · p. 158
अनुष्टुप्
पक्वं परिणतेऽपि स्याद् विनाशाभिमुखे त्रिषु ।प्लवः स्यात् प्लवने भेले भेकेऽवौ श्वपचेऽपि च ॥ १६ ॥
29.2.16 · p. 158
अनुष्टुप्
शाखामृगे च कुलके प्रवणे पर्कटीद्रुमे ।कारण्डवाख्यविहगे शब्दे प्लुतगतौ पुमान् ॥ १७ ॥
29.2.17 · p. 158
अनुष्टुप्
कैवर्तीमुस्तके गन्धतृणेऽपि स्यान्नपुंसकम् ।पार्श्वं कक्षाधरे चक्रोपान्ते पर्शुगणेऽपि च ॥ १८ ॥
29.2.18 · p. 158
अनुष्टुप्
प्राध्वन्तु प्रणते चातिदूरवर्त्मनि बन्धने ।पृथ्वी भूमौ महत्याञ्च त्वक्पत्र्यां कृष्णजीरके ॥ १९ ॥
29.2.19 · p. 158
अनुष्टुप्
भवः क्षेमेशसंसारे सत्तायां प्राप्तिजन्मनोः ।भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु ॥ २० ॥
29.2.20 · p. 159
अनुष्टुप्
क्रियालीलापदार्थेषु विभूतिबुधजन्तुषु ।रत्यादौ चाथ रेवा स्यान् नील्यां रत्यां नदीभिदि ॥ २१ ॥
29.2.21 · p. 159
अनुष्टुप्
लवो लेशे विनाशे च छेदने रामनन्दने ।लट्वा करञ्जभेदे स्यात् फले वाद्ये खगान्तरे ॥ २२ ॥
29.2.22 · p. 159
अनुष्टुप्
लघ्वी लाघवयुक्तायां प्रभेदे स्यन्दनस्य च ।विश्वा त्वतिविषायां स्त्री जगति स्यान्नपुंसकम् ॥ २३ ॥
29.2.23 · p. 159
अनुष्टुप्
न ना शुण्ठ्यां पुंसि देवप्रभेदेष्वखिले त्रिषु ।बिल्वं फले श्रीफले ना शवः स्यात् कुणपे पुमान् ॥ २४ ॥
29.2.24 · p. 159
अनुष्टुप्
नपुंसकन्तु पानीये शिविर्भूर्ज्जे नृपे पुमान् ।शिवो मोक्षे महादेवे कीलकग्रहयोगयोः ॥ २५ ॥
29.2.25 · p. 159
अनुष्टुप्
बालुके गुग्गुलौ वेदे पुण्डरीकद्रुमे पुमान् ।सुखक्षेमजले क्लीबं शिवा झाटामलौषधौ ॥ २६ ॥
29.2.26 · p. 159
अनुष्टुप्
अभयामलकीगौरीफेरुसक्तुफलास्वपि ।शुल्बं ताम्रे यज्ञकर्म्मण्याचारे जलसन्निधौ ॥ २७ ॥
29.2.27 · p. 159
अनुष्टुप्
सत्त्वं गुणे पिशाचादौ बले द्रव्यस्वभावयोः ।आत्मत्वे व्यवसायाऽसुचित्तेष्वस्त्री तु जन्तुषु ॥ २८ ॥
29.2.28 · p. 159
अनुष्टुप्
सवो यज्ञे च सन्ताने सान्त्वं दाक्षिण्यसामनोः ।स्रुवा द्वयोर्यज्ञपात्रे शल्लकीमूर्व्वयोः स्त्रियाम् ॥ २९ ॥
29.2.29 · p. 159
अनुष्टुप्
हव आज्ञाध्वराह्वाने ह्रस्वो न्यक्खर्व्वयोस्त्रिषु ।
29.2.29 · p. 159