All kośas › Medinīkośa
नानार्थशब्दकोश or मेदिनीकोश Medinīkośa
2,500 verses · text only, tagging comes next
णान्तवर्गः · णत्रिकम्
णत्रिकम्
अरुणोऽव्यक्तरोगेऽर्के सन्ध्यारागेऽर्कसारथौ ।निःशब्दे कपिले कुष्ठभेदे ना गुणिनि त्रिषु ॥ ३३ ॥
15.3.33 · p. 47
अनुष्टुप्
अरुणाऽतिविषाश्यामामञ्जिष्ठात्रिवृतासु च ।अरणिर्वह्निमन्थे ना द्वयोर्निर्मन्थ्यदारुणि ॥ ३४ ॥
15.3.34 · p. 47
अनुष्टुप्
अभीक्ष्णं तु भृशे नित्यतद्युक्तक्रिययोस्त्रिषु ।इन्द्राणी करणे स्त्रीणां पौलोमीसिन्धुवारयोः ॥ ३५ ॥
15.3.35 · p. 47
अनुष्टुप्
ईरिणं तूषरे शून्येऽपीक्षणं दर्शने दृशि ।ऊषणं मरिचे क्लीबं कणायामूषणा स्त्रियाम् ॥ ३६ ॥
15.3.36 · p. 47
अनुष्टुप्
एषणी व्रणमार्गानुसारिण्यां च तुलाभिदि ।करुणस्तु रसे वृक्षे कृपायां करुणा मता ॥ ३७ ॥
15.3.37 · p. 47
अनुष्टुप्
कत्तृणं तृणभित्पृश्न्योः करणं हेतुकर्मणोः ।(२)वीणजादौ हस्तलेपे नृत्यगीतप्रभेदयोः ॥ ३८ ॥
15.3.38 · p. 47
अनुष्टुप्
क्रियाभेदेन्द्रियक्षेत्रकायसंवेशनेषु च ।कायस्थे साधने क्लीबं पुंसि शूद्राविशोः सुते ॥ ३९ ॥
15.3.39 · p. 47
अनुष्टुप्
कल्याणमक्षयस्वर्गे मङ्गलेऽपि नपुंसकम् ।कङ्कणं करभूषायां सूत्रमण्डनयोरपि ॥ ४० ॥
15.3.40 · p. 47
अनुष्टुप्
करेणुर्गजयोषायां स्त्रियां पुंसि मतङ्गजे ।कार्मणं मन्त्रतन्त्रादियोजने कर्मठेऽपि च ॥ ४१ ॥
15.3.41 · p. 48
अनुष्टुप्
काकिणी पणतुर्यांशे मानदण्डे च दृश्यते ।कृष्णलैकवराट्योः स्यादुन्मानस्यांशकेऽपि च ॥ ४२ ॥
15.3.42 · p. 48
अनुष्टुप्
कारणं करणे हेतुवधयोश्च नपुंसकम् ।स्त्री यातनायां कुर्वाणो भृत्यकारकयोस्त्रिषु ॥ ४३ ॥
15.3.43 · p. 48
अनुष्टुप्
कृपाणः खाडगे छुरिकाकर्त्तर्योरपि योषिति ।कृपणस्तु कृमौ पुंसि मन्दकुत्सितयोस्त्रिषु ॥ ४४ ॥
15.3.44 · p. 48
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 छुरि (syllable split)
क्षेपणं प्रेरणे नौकादण्डजालभिदोः स्त्रियाम् ।ग्रहणं स्वीकारादरकरोपरागोपलब्धिवन्दिषु (च) ॥ ४५ ॥
15.3.45 · p. 48
अनुष्टुप्metre not read in every line
स्याद्ग्रामणीः प्रधानेऽधिपतौ त्रिषु नापिते पुंसि ।ग्रामीणा नीलिकायां स्त्री ग्रामोद्भूतेऽभिधेयवत् ॥ ४६ ॥
15.3.46 · p. 48
अनुष्टुप्metre not read in every line
गोकर्णोऽश्वतरे सर्पे सारङ्गे च गणान्तरे ।अङ्गुष्ठानामिकोन्माने गोकर्णी मूर्विकौषधौ ॥ ४७ ॥
15.3.47 · p. 48
अनुष्टुप्
चरणोऽस्त्री बह्वृचादौ मूले गोत्रे पदेऽपि च ।भ्रमणे भक्षणे चा(१)पि नपुंसक उदाहृतः ॥ ४८ ॥
15.3.48 · p. 48
अनुष्टुप्
जरणं जीरके(२)ऽजाजीहिङ्गुसौवर्चलेऽपि च ।तरुणं कुब्जपुष्पे ना रुबुके यूनि तु त्रिषु ॥ ४९ ॥
15.3.49 · p. 48
अनुष्टुप्
तरणिर्द्युमणौ पुंसि कुमारीनौकयोः स्त्रियाम् ।दक्षिणो दक्षिणोद्भूतसरलच्छन्दवर्त्तिषु ॥ ५० ॥
15.3.50 · p. 48
अनुष्टुप्
आरामे त्रिषु यज्ञादिविधिदाने दिशि स्त्रियाम् ।द्रविणं न द्वयोर्वित्ते काञ्चने च पराक्रमे ॥ ५१ ॥
15.3.51 · p. 48
अनुष्टुप्
दारुणो रसभेदे ना त्रिषु तु स्याद्भयावहे ।द्रुघणो मुद्गरेऽपि स्यात् द्रुहिणे च परश्वधे ॥ ५२ ॥
15.3.52 · p. 48
अनुष्टुप्
दुर्वर्णं त्रिष्वसद्वर्णे क्लीबमैलेयरूप्ययोः ।दौर्वीणं मृष्टपर्णं स्याद् दूर्वायां स्वरसेऽपि च ॥ ५३ ॥
15.3.53 · p. 48
अनुष्टुप्
धर्मणस्तु पुमान् वृक्षभेदसर्पप्रभेदयोः ।धरणं मानभेदेऽपि धारणे धरणी भुवि ॥ ५४ ॥
15.3.54 · p. 49
अनुष्टुप्
धर्षणं स्यात् परिभवे रतेऽसत्यां तु धर्षिणी ।धरुणः सम्मते नीरे स्वर्लोके परमेष्ठिनि ॥ ५५ ॥
15.3.55 · p. 49
अनुष्टुप्
धारणी नाडिकायां स्याद् बुद्धोक्तमन्त्रभिद्यपि ।धारणाऽङ्गे च योगस्य न पुंसि स्याद्विधारणे ॥ ५६ ॥
15.3.56 · p. 49
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क्त (wrong syllable)
धिषणस्त्रिदशाचार्ये धिषणा धियि योषिति ।निःश्रेणिरधिरोहिण्यां खर्जूरीपादपे स्त्रियाम् ॥ ५७ ॥
15.3.57 · p. 49
अनुष्टुप्
निर्याणं वारणापाङ्गदेशे मोक्षेऽध्वनिर्गमे ।निर्माणं निर्मितौ सारे समञ्जसे नपुंसकम् ॥ ५८ ॥
15.3.58 · p. 49
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ञ्ज (wrong syllable)
निर्वाणमस्तङ्गमने निर्वृतौ गजमज्जने ।सङ्गमेऽप्यपवर्गे च प्रवणो ना चतुष्पथे ॥ ५९ ॥
15.3.59 · p. 49
अनुष्टुप्
क्रमनिम्नमहीभागोदरप्रह्वेषु च त्रिषु ।प्रघणस्ताम्रकुम्भे स्यादलिन्दे लोहमुद्गरे ॥ ६० ॥
15.3.60 · p. 49
अनुष्टुप्
प्रमाणं नित्यमर्यादाशास्त्रेषु सत्यवादिनि ।इयत्तायां च हेतौ च क्लीबैकत्वे प्रमातरि ॥ ६१ ॥
15.3.61 · p. 49
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 षु (wrong syllable)
पत्रोर्णं धौतकौशेये क्लीबं स्याच्छोणके पुमान् ।पक्षिणी पूर्णिमायां स्याद्विहङ्ग्यां शाकिनीभिदि ॥ ६२ ॥
15.3.62 · p. 49
अनुष्टुप्
आगामिवर्त्तमानाहर्युक्तरात्रावपि स्त्रियाम् ।प्रवेणिः स्त्री कुथावेण्योः पुराणं पञ्चलक्षणे ॥ ६३ ॥
15.3.63 · p. 49
अनुष्टुप्
पणे पुंसि त्रिषु प्रत्ने पूरणः पूरके त्रिषु ।क्लीबं पिण्डप्रभेदे च पूरणी शाल्मलिद्रुमे ॥ ६४ ॥
15.3.64 · p. 49
अनुष्टुप्
पटारम्भकसूत्रेषु प्रोक्षणं सेचने वधे ।वरुणस्तरुभेदेऽप्सु पश्चिमाशापतावपि ॥ ६५ ॥
15.3.65 · p. 49
अनुष्टुप्
वरणस्तु पुमान् तिक्तशाकप्राकारयोरपि ।क्लीबं कन्यादिवरणे वेष्टने स्त्री नदीभिदि ॥ ६६ ॥
15.3.66 · p. 49
अनुष्टुप्
वारणं प्रतिषेधे स्याद्वारणस्तु मतङ्गजे ।ब्राह्मणं ब्रह्मसङ्घाते वेदभागे नपुंसकम् ॥ ६७ ॥
15.3.67 · p. 49
अनुष्टुप्
भूमिदेवे तु पुंलिङ्गः फञ्जिकापृक्कयोः स्त्रियाम् ।वारुणी गण्डदूर्वायां प्रतीचीसुरयोरपि ॥ ६८ ॥
15.3.68 · p. 50
अनुष्टुप्
भरणी घोषके ऋक्षे भरणं वेतने भृतौ ।भ्रमणी कारुण्डिकायां क्रीडाद्यायामधीशितुः ॥ ६९ ॥
15.3.69 · p. 50
अनुष्टुप्
भीषणो रसे सल्लक्यां ना गाढे दारुणे त्रिषु ।मसृणोऽकर्कशे स्निग्धे त्रिषूमायां तु योषिति ॥ ७० ॥
15.3.70 · p. 50
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 से (wrong syllable)
मत्कुणो निर्विषाणेभे निःश्मश्रुपुरुषेऽपि च ।उद्देशे नारिकेले च मार्गणो याचके शरे ॥ ७१ ॥
15.3.71 · p. 50
अनुष्टुप्
याच्ञाऽन्वेषणयोः क्लीबं यन्त्रणं रक्षणे स्मृतम् ।बन्धने स्यान्नियमने रवणः शब्दने खरे ॥ ७२ ॥
15.3.72 · p. 50
अनुष्टुप्
रमणं पटोलमूले नार्यां स्त्री ना धवे स्मरे ।रोषणः पारदे हेमहर्षणोपलयोः पुमान् ॥ ७३ ॥
15.3.73 · p. 50
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 प (wrong syllable)
क्रोधने वाच्यलिङ्गः स्याद्रोहिणी कण्ठरुग्भिदि ।तडित्कटम्भरासोमवल्केषु लोहितागवोः ॥ ७४ ॥
15.3.74 · p. 50
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 षु (wrong syllable)
लवणं सैन्धवादो ना सिन्धुरक्षोभिदो रसे ।तद्युक्ते वाच्यलिङ्गः स्यान्नदीभेदत्विषोः स्त्रियाम् ॥ ७५ ॥
15.3.75 · p. 50
अनुष्टुप्
लक्षणं नाम्नि चिह्ने च सारस्यां लक्षणा क्वचित् ।लक्ष्मणा त्वोषधीभेदे सारस्यामपि योषिति ॥ ७६ ॥
15.3.76 · p. 50
अनुष्टुप्
रामभ्रातरि पुंसि स्यात् सश्रीके चाभिधेयवत् ।विषाणी क्षीरकाकोल्यामजशृङ्ग्यां च योषिति ॥ ७७ ॥
15.3.77 · p. 50
अनुष्टुप्
कुष्ठनामौषधे क्लीबं पशुशृङ्गेभदन्तयोः ।विपणिः पण्यवीथ्यां च भवेदापणपण्ययोः ॥ ७८ ॥
15.3.78 · p. 50
अनुष्टुप्
शरणं गृहरक्षित्रोर्वधरक्षणयोरपि ।स्त्रियां सुदर्शनामांस्योर्मुण्डीरीशबरीभिदोः ॥ ७९ ॥
15.3.79 · p. 50
अनुष्टुप्
श्रवणं च श्रुतौ कर्णे नक्षत्रे न नपुंसकम् ।श्रमणो यतिभेदे ना निन्द्यजीविनि तु त्रिषु ॥ ८० ॥
15.3.80 · p. 50
अनुष्टुप्
श्रावणो मासि पाषण्डे दध्याल्यां श्रावणा स्त्रियाम् ।शिङ्घाणं काचपात्रे च लोहनासिकयोर्मले ॥ ८१ ॥
15.3.81 · p. 50
अनुष्टुप्
श्रीपर्णी काश्मरीकुम्भ्योः क्लीबं पद्माग्निमन्थयोः ।सङ्कीर्णं निचितेऽपि स्यादशुद्धे चापि भेद्य(१)वत् ॥ ८२ ॥
15.3.82 · p. 51
अनुष्टुप्
सरणिः पङ्क्तौ मार्गे च सारणो राक्षसान्तरे ।रुग्भेदे ना प्रसारण्यां स्वल्पनद्यां च सारणी ॥ ८३ ॥
15.3.83 · p. 51
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ङ्क्तौ (wrong syllable)
सुषेणः करमर्दे स्याद्विष्णुसुग्रीववैद्ययोः ।सुवर्णो ना स्वर्णकर्षे सुवर्णाख्यमखान्तरे ॥ ८४ ॥
15.3.84 · p. 51
अनुष्टुप्
श्रीकृष्णागुरुणि क्लीबे काञ्चने हरिचन्दने ।सुपर्णः स्वर्णचूडे च गरुडे कृतमालके ॥ ८५ ॥
15.3.85 · p. 51
अनुष्टुप्
सुपर्णा कमलिन्यां च वैनतेयस्य मातरि ।हरेणुर्ना सतीले स्त्री रेणुकाकुलयोषितोः ॥ ८६ ॥
15.3.86 · p. 51
अनुष्टुप्
हरणं यौतकादीनां द्रव्ये भुजे हृतावपि ।हरिणः पुंसि सारङ्गे विषदे त्वभिधेयवत् ॥ ८७ ॥
15.3.87 · p. 51
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 भु (wrong syllable)
हरिणी हरितायां च नारीभिद्वृत्तभेदयोः ।सुवर्णप्रतिमायां च हर्पणोऽक्षिरुगन्तरे ॥ ८८ ॥
15.3.88 · p. 51
अनुष्टुप्
हर्षके योगभेदे च श्राद्धदेवेऽपि च क्वचित् ।हिरणं रेतसि स्वर्णे वराटे च नपुंसकम् ॥ ८९ ॥
15.3.89 · p. 51
अनुष्टुप्