All kośas › Medinīkośa
नानार्थशब्दकोश or मेदिनीकोश Medinīkośa
2,500 verses · text only, tagging comes next
शान्तवर्गः · शचतुष्कम्
शचतुष्कम्
अपदेशः पुमान् लक्ष्ये निमित्तव्याजयोरपि ।अपभ्रंशस्तु पतने भाषाभेदापशब्दयोः ॥ ३१ ॥
30.4.31 · p. 164
अनुष्टुप्
आश्रयाशः पुमान् वह्नौ त्रिषु चाश्रयनाशके ।उपस्पर्शः स्पर्शमात्रे स्नानाचमनयोरपि ॥ ३२ ॥
30.4.32 · p. 164
अनुष्टुप्
उपदंशो विदंशे च मेढ्ररोगान्तरेऽपि च ।क्रूरदृक् पिशुने वाच्यलिङ्गः पुंसि शनैश्चरे ॥ ३३ ॥
30.4.33 · p. 165
अनुष्टुप्
खण्डपर्शुः पर्शुरामे शङ्करे चूर्णलेपिनि ।खण्डामलकभैषज्ये सिंहिकातनयेऽपि ना ॥ ३४ ॥
30.4.34 · p. 165
अनुष्टुप्
जीवितेशो यमे पुंसि त्रिषु स्याज्जीवितेश्वरे ।नागपाशः पुमान् स्त्रीणां करणे वरुणायुधे ॥ ३५ ॥
30.4.35 · p. 165
अनुष्टुप्
पञ्चदशी त्वमावास्यापौर्णमास्योश्च योषिति ।प्रतिस्पर्शः सहाये स्याद् वार्त्ताहरपुरोगयोः ॥ ३६ ॥
30.4.36 · p. 165
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 द (wrong syllable)
परिवेशो वेष्टने स्यात् परिधावपि पुंस्ययम् ।पादपाशी खड्डुकायां शृङ्खलायामपि स्त्रियाम् ॥ ३७ ॥
30.4.37 · p. 165
अनुष्टुप्
पुरोडाशो हविर्भेदे चमस्यां पिष्टकस्य च ।हुतशेषे च भूमिस्पृक् पुंसि मानुषवैश्ययोः ॥ ३८ ॥
30.4.38 · p. 165
अनुष्टुप्