All kośas › Medinīkośa
नानार्थशब्दकोश or मेदिनीकोश Medinīkośa
2,500 verses · text only, tagging comes next
डान्तवर्गः · डचतुष्कम्
डचतुष्कम्
(२)अपोगण्डस्तु बलिभे विकलाङ्गशिशावपि ।(३)अतिगण्डो योगभेदे बृहद्गण्डे तु वाच्यवत् ॥ ३८ ॥
13.4.38 · p. 43
अनुष्टुप्
चक्रवाडोऽद्रिभेदे स्याच्चक्रवाडं तु मण्डले ।जलरुण्डो जलावर्ते पयोरेणौ भुजङ्गमे ॥ ३९ ॥
13.4.39 · p. 43
अनुष्टुप्
देवताडः सैंहिकेये जीमूते च हुताशने ।अथ वातहुडा(४) वात्यावातशोणितयोरपि ॥ ४० ॥
13.4.40 · p. 43
अनुष्टुप्
पिच्छिलस्फोटिकायां च वामायामपि योषिति ।
13.4.4 · p. 43