All kośas › Medinīkośa
नानार्थशब्दकोश or मेदिनीकोश Medinīkośa
2,500 verses · text only, tagging comes next
टान्तवर्गः · टत्रिकम्
टत्रिकम्
अवटः स्यात् खिले गर्ते कूपे कुहकजीविनि ।अरिष्टो लशुने निम्बे फेनिले काककङ्कयोः ॥ ३२ ॥
11.3.32 · p. 35
अनुष्टुप्
अरिष्टमशुभे तक्रे सूतिकागार आसवे ।शुभे मरणचिह्ने चादिष्टमादेशिते त्रिषु ॥ ३३ ॥
11.3.33 · p. 36
अनुष्टुप्
आज्ञप्तोच्छिष्टयोः क्लीबमुत्कटतीव्रमत्तयोः ।उद्भटः कच्छपे(१) शूर्पे कर्कटो विहगान्तरे ॥ ३४ ॥
11.3.34 · p. 36
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ट (wrong syllable)
राशिभेदे कुलीरे च वालुङ्क्यां शाल्मलीफले ।कर्दटः करहाटे स्यात् पङ्कपङ्कारयोरपि ॥ ३५ ॥
11.3.35 · p. 36
अनुष्टुप्
करटो गजगण्डे स्यात् कुसुम्भे निन्द्यजीवने(२) ।एकादशाहादिश्राद्धे दुर्दुरूढेऽपि वायसे ॥ ३६ ॥
11.3.36 · p. 36
अनुष्टुप्
करटो वाद्यभेदेऽथ कार्पटो जतुकार्यिणोः ।कीकटः कृपणे निःस्वे त्रिषु पुम्भूम्नि नीवृति ॥ ३७ ॥
11.3.37 · p. 36
अनुष्टुप्
कुरुण्टो दारुपुत्र्यां ना झिण्ट्यम्लानप्रभेदयोः ।कुक्कुट्यनृतचर्यायां पुंसि स्याच्चरणायुधे ॥ ३८ ॥
11.3.38 · p. 36
अनुष्टुप्
निषादशूद्रयोः पुत्रे तृणील्कायां च कुक्कुभे ।कुनटी मनःशिलायां नैपाल्यामपि योषिति ॥ ३९ ॥
11.3.39 · p. 36
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 म (wrong syllable)
कृपीटमुदरे तोये केशटो हर्यजोत्कटे ।चर्पटः स्फारविपुले चपेटे पर्पटेऽपि च ॥ ४० ॥
11.3.40 · p. 36
अनुष्टुप्
चक्राटो विषवैद्येऽपि धूर्तदीनारयोरपि ।चिपिटः खाद्यभेदे ना त्रिषु पिट्टितविस्तृते ॥ ४१ ॥
11.3.41 · p. 36
अनुष्टुप्
चिरटी तु सुवासिन्यां स्याद्द्वितीयवयःस्त्रियाम् ।जकुटं वार्त्ताकुपुष्पे जकुटो मलये शुनि ॥ ४२ ॥
11.3.42 · p. 36
अनुष्टुप्
त्र्यङ्कटं शिक्यभेदेऽपि धौताञ्जन्यां च न द्वयोः ।त्रिकूटं सिन्धुलवणे त्रिकूटः पर्वतान्तरे ॥ ४३ ॥
11.3.43 · p. 36
अनुष्टुप्
त्रिपुटा मल्लिकायां च सूक्ष्मैलात्रिवृतोः स्त्रियाम् ।सतीनके च तीरे च त्रिपुटः समुदाहृतः ॥ ४४ ॥
11.3.44 · p. 36
अनुष्टुप्
द्रोहाटः कथितो गाथाप्रभेदे मृगलुब्धके ।वैडालव्रतिके चाऽथ धाराटश्चातकाश्वयोः ॥ ४५ ॥
11.3.45 · p. 36
अनुष्टुप्
निर्दटस्तु दयाशून्ये कथितो निष्प्रयोजने ।परापवादरक्ते च वाच्यलिङ्गोऽयमिष्यते ॥ ४६ ॥
11.3.46 · p. 37
अनुष्टुप्
निष्कुटस्तु गृहोद्याने स्यात् केदारकपाटयोः ।पर्कटी नूतनफले पूगादेः प्लक्षपादपे ॥ ४७ ॥
11.3.47 · p. 37
अनुष्टुप्
परीष्टिः परिचर्यायां प्राकाम्येऽन्वेषणे स्त्रियाम् ।पर्पटी पिष्टभेदे स्यात् पर्पटो भेषजान्तरे ॥ ४८ ॥
11.3.48 · p. 37
अनुष्टुप्
पात्रटः (१)कर्परे पुंसि कृशे स्यादभिधेयवत् ।पिच्चटो नेत्ररोगे स्यात् क्लीबं सीसकरङ्गयोः ॥ ४९ ॥
11.3.49 · p. 37
अनुष्टुप्
वरटा द्वयोर्वरट्यां स्त्री हंस्यां तत्पतौ पुमान् ।बर्वटी पण्ययोषायां व्रीहिभेदे च योषिति ॥ ५० ॥
11.3.50 · p. 37
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 द्व (wrong syllable)
वेकटः स्याद्वैकटिके मत्स्यभेदे च यूनि च ।भावाटो भावके साधुनिवेशे कामुके नटे ॥ ५१ ॥
11.3.51 · p. 37
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्वै (wrong syllable)
भाकूटः शैलझषयोर्भेदे स्यादथ मर्कटी ।करञ्जभिच्छूकशिब्योः पुंसि वानरलूतयोः ॥ ५२ ॥
11.3.52 · p. 37
अनुष्टुप्
मोचाटः कृष्णजीरे च रम्भास्थ्नि मलयोद्भवे ।मोरटं तु भवेदिक्षुमूलाङ्कोठप्रसूनयोः ॥ ५३ ॥
11.3.53 · p. 37
अनुष्टुप्
सप्तरात्रात्परक्षीरे मूर्विकायां तु मोरटा ।वर्णाटो गायने चित्रकरे स्त्रीकृतजीवने ॥ ५४ ॥
11.3.54 · p. 37
अनुष्टुप्
चिकटा वज्रवाराह्यां त्रिषूरुविकरालयोः ।शाकटं शकटस्येदमित्यर्थे तस्य वोढरि ॥ ५५ ॥
11.3.55 · p. 37
अनुष्टुप्
शैलाटो देवले सिंहे शुक्लकाचकिरातयोः ।संसृष्टं त्रिषु संसर्ग संशुद्धे वसनादिना ॥ ५६ ॥
11.3.56 · p. 37
अनुष्टुप्