कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Medinīkośa

नानार्थशब्दकोश or मेदिनीकोश Medinīkośa

2,500 verses · text only, tagging comes next

ठान्तवर्गः · ठद्विकम्

ठद्विकम्

कठो मुनौ तदाख्यातवेदाध्येतृज्ञयोः स्वरे ॥ १ ॥
12.2.1 · p. 38
कण्ठो गले सन्निधाने ध्वनौ मदनपादपे ।काष्ठा दारुहरिद्रायां कालमानप्रकर्षयोः ॥ २ ॥
12.2.2 · p. 38
अनुष्टुप्
स्थानमात्रे दिशि च स्त्री दारुणि स्यान्नपुंसकम् ।कुष्ठं रोगे पुष्करेऽस्त्री कुण्ठोऽकर्मण्यमूर्खयोः ॥ ३ ॥
12.2.3 · p. 39
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 शि (wrong syllable)
कोष्ठः कुसूले चात्मीये मध्ये कुक्षेर्गृहस्य च ।गोष्ठं गोस्थानके गोष्ठी सभासंलापयोः स्त्रियाम् ॥ ४ ॥
12.2.4 · p. 39
अनुष्टुप्
ज्येष्ठः श्रेष्ठेऽतिवृद्धे च त्रिषु मासान्तरे पुमान् ।ज्येष्ठा तु गृहगोधाऽऽख्यजन्तुनक्षत्रभेदयोः ॥ ५ ॥
12.2.5 · p. 39
अनुष्टुप्
निष्ठा निष्पत्तिनाशान्तयाञ्चानिर्वहणेषु च ।प्रष्ठस्त्रिष्वग्रगे श्रेष्ठे पुंसि चाण्डालिकौषधौ ॥ ६ ॥
12.2.6 · p. 39
अनुष्टुप्
पाठश्च पठने ख्याते विद्धकर्ण्यां तु योषिति ।पृष्ठं परमगात्रेऽपि देहस्यावयवान्तरे ॥ ७ ॥
12.2.7 · p. 39
अनुष्टुप्
वण्ठः स्यादकृतोद्वाहे खर्वे कुन्तायुधेऽपि च ।शठो मध्यस्थपुरुषे धूर्त्तधूस्तूरयोरपि ॥ ८ ॥
12.2.8 · p. 39
अनुष्टुप्
श्रेष्ठो वरे कुबेरे च शोठो मुर्खेऽलसेऽपि च ।षष्ठी कात्यायनीतिथ्योस्त्रिषु षण्णां च पूरणे ॥ ९ ॥
12.2.9 · p. 39
अनुष्टुप्
हठः स्यात् प्रसभे पृश्न्यां हेठो बाधापिहेठयोः ।
12.2.10 · p. 39