कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Medinīkośa

नानार्थशब्दकोश or मेदिनीकोश Medinīkośa

2,500 verses · text only, tagging comes next

धान्तवर्गः · धत्रिकम्

धत्रिकम्

अवधिस्त्ववधाने स्यात्सीम्नि काले बिले पुमान् ॥ २६ ॥
19.3.26 · p. 80
अगाधमतलस्पर्शे त्रिषु श्वभ्रे नपुंसकम् ।आनद्धं मुरजादौ च क्लीबं स्यात्सन्दिते त्रिषु ॥ २७ ॥
19.3.27 · p. 80
अनुष्टुप्
आविद्धो वाच्यलिङ्गः स्यात्कुटिले च पराहतम् ।आबद्धो दृढबन्धे स्यात्प्रेमालङ्कारयोक्त्रयोः ॥ २८ ॥
19.3.28 · p. 80
अनुष्टुप्
उत्सेधस्तूच्छ्रये न स्त्री क्लीबं संहननेऽपि च ।उपाधिर्धर्मचिन्तायां कुटुम्बव्यापृते छले ॥ २९ ॥
19.3.29 · p. 80
अनुष्टुप्
विशेषणे पुंस्युपधिः पुंसि व्याजरथाङ्गयोः ।कबन्धोऽस्त्री क्रियायुक्तव्यपमूर्धकलेवरे ॥ ३० ॥
19.3.30 · p. 81
अनुष्टुप्
क्लीबं जले पुंस्युदरे बाहुरक्षोविशेषयोः ।दुर्विधो वाच्यलिङ्गः स्याद् दुर्गतेऽपि खलेऽपि च ॥ ३१ ॥
19.3.31 · p. 81
अनुष्टुप्
न्यग्रोधस्तु पुमान् व्यामवटयोश्च शमीतरौ ।न्यग्रोधो तूपचित्रायां निरोधो नाशरोधयोः ॥ ३२ ॥
19.3.32 · p. 81
अनुष्टुप्
निषधः कठिने देशे तद्राजे पर्वतान्तरे ।परिधिर्ना यज्ञियद्रुशाखायामुपसूर्यके ॥ ३३ ॥
19.3.33 · p. 81
अनुष्टुप्
प्रसिद्धो भूषिते ख्याते प्रणिधिर्नाऽर्थने चरे ।मागधी स्त्री कणायूथ्योर्वाच्यवन्मगधोद्भवे ॥ ३४ ॥
19.3.34 · p. 81
अनुष्टुप्
पुंसि वैश्यात् क्षत्रियाजे शुक्लजीरकबन्दिनोः ।विवधो वीवधश्चापि पर्याहारेऽध्वभारयोः ॥ ३५ ॥
19.3.35 · p. 81
अनुष्टुप्
विश्रब्धोऽनुद्भटेऽपि स्याद् गाढविश्वस्तयोस्त्रिषु ।विबुधो ज्ञे सुरे वीरुध् लताविटपयोः स्त्रियाम् ॥ ३६ ॥
19.3.36 · p. 81
अनुष्टुप्
सन्नद्धो बर्मिते व्यूढे सम्बाधः सङ्कटे भगे ।सन्निधिः सन्निधानेऽपि पुमानिन्द्रियगोचरे ॥ ३७ ॥
19.3.37 · p. 81
अनुष्टुप्
संसिद्धिः प्रकृतौ सिद्धौ मदोग्रायामपि स्त्रियाम् ।सम्बोधो बोधने क्षेपे समाधिर्ना समर्थने ॥ ३८ ॥
19.3.38 · p. 81
अनुष्टुप्
ध्याननीवाकनियमे काव्यस्य च गुणान्तरे ।(१)सुगन्धिः स्यादिष्टगन्धे त्रिषु क्लीबं तु वालुके ॥ ३९ ॥
19.3.39 · p. 81
अनुष्टुप्