All kośas › Medinīkośa
नानार्थशब्दकोश or मेदिनीकोश Medinīkośa
2,500 verses · text only, tagging comes next
दान्तवर्गः · दत्रिकम्
दत्रिकम्
अङ्गदः कपिभेदे ना केयूरे तु नपुंसकम् ॥ १७ ॥
18.3.17 · p. 75
अङ्गदा याम्यदिग्दन्तिहस्तिन्यामपि योषिति ।अर्द्धेन्दुरर्द्धचन्द्रे स्याद्गलहस्तनखाङ्कयोः ॥ १८ ॥
18.3.18 · p. 75
अनुष्टुप्
अर्द्धेन्दुः स्यादतिप्रौढस्त्रीयोन्यङ्गुलियोजने ।(१)अर्बुदो मांसकीले स्यात्पुरुषे दशकोटिषु ॥ १९ ॥
18.3.19 · p. 75
अनुष्टुप्
महीधरविशेषे नाऽथास्पदं पदकृत्ययोः ।आसन्दो वासुदेवे स्यात् खट्वाभेदे च योषिति ॥ २० ॥
18.3.20 · p. 76
अनुष्टुप्
आक्रन्दः क्रन्दने ह्वाने मित्रदारुणयुद्धयोः ।भ्रातर्यपि च पुंसि स्यादामोदो गन्धहर्षयोः ॥ २१ ॥
18.3.21 · p. 76
अनुष्टुप्
ककुत् स्त्री ककुदोऽप्यस्त्री वृषाङ्के राड्ध्वजे वरे ।क्षणदो गणके रात्रौ क्षणदा क्षणदञ्जले ॥ २२ ॥
18.3.22 · p. 76
अनुष्टुप्
कपर्दः खण्डपरशौ जटाजूटे वराटके ।कर्णान्दुरुत्क्षिप्तिकायां कर्णपाल्यामपि स्त्रियाम् ॥ २३ ॥
18.3.23 · p. 76
अनुष्टुप्
क्रव्याद्रक्षसि पुंसि स्यान्मांसाशिन्यन्यलिङ्गकः ।कामदा कामधेनौ स्त्री कामदातरि वाच्यवत् ॥ २४ ॥
18.3.24 · p. 76
अनुष्टुप्
कुमुत् त्रिषु स्यात्कृपणे कैरवे तु नपुंसकम् ।कुमुदं कैरवे रक्तपद्मे स्त्री कुम्भिकौषधौ ॥ २५ ॥
18.3.25 · p. 76
अनुष्टुप्
गाभ्यार्यां पुंसि दिङ्नागे नागे शाखामृगान्तरे ।कुसीदं जीवने वृद्ध्या क्लीबं त्रिषु कुसीदके ॥ २६ ॥
18.3.26 · p. 76
अनुष्टुप्
कौमुदः स्यात्कार्तिकिके चन्द्रिकायां तु कौमुदी ।गोष्पदं गोपदश्वभ्रे गवाञ्च गतिगोचरे ॥ २७ ॥
18.3.27 · p. 76
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्का (wrong syllable)
गोविन्दा वासुदेवे स्याद् गवाध्यक्षे बृहस्पतौ ।गोनर्दमपि कैवर्तीमुस्तके पुंसि सारसे ॥ २८ ॥
18.3.28 · p. 76
अनुष्टुप्
जलदो मुस्तके मेघे जीवदो वैद्यविद्विषोः ।तरत् स्त्रियां प्लवेऽपि स्यात् कारण्डे च विहङ्गमे ॥ २९ ॥
18.3.29 · p. 76
अनुष्टुप्
तोयदो मुस्तके मेघे पुमानाज्ये नपुंसकम् ।दरत् स्त्रियां प्रपातेऽपि भयपर्वतयोरपि ॥ ३० ॥
18.3.30 · p. 76
अनुष्टुप्
दारदो विषभेदे स्यात्पारदे हिङ्गुले पुमान् ।दायादस्तु भवेत्पुंसि सपिण्डे तनयेऽपि च ॥ ३१ ॥
18.3.31 · p. 76
अनुष्टुप्
दृषन्निष्पेषणशिलापट्टप्रस्तरयोः पुमान् ।धनदस्तु कुबेरे स्यात्पुंलिङ्गो दातरि त्रिषु ॥ ३२ ॥
18.3.32 · p. 76
अनुष्टुप्
नलदं स्यात्पुष्परसोशीरमांसीषु न द्वयोः ।नर्मदः केलिसचिवे नर्मदा सरिदन्तरे ॥ ३३ ॥
18.3.33 · p. 76
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्पु (wrong syllable)
निर्वादः स्याल्लोकवादे परिनिष्ठितवादयोः ।निषादः स्वरभेदे स्याच्चण्डाले धीवरान्तरे ॥ ३४ ॥
18.3.34 · p. 77
अनुष्टुप्
प्रमदः सम्मदे मत्ते स्त्रियामुत्तमयोषिति ।प्रसादोऽनुग्रहे काव्यगुणस्वास्थ्यप्रसत्तिषु ॥ ३५ ॥
18.3.35 · p. 77
अनुष्टुप्
प्रणादस्तु पुमांस्तारशब्दे च श्रवणामये ।प्रासादो देवनृपयोर्गृहेऽथ वरदा स्त्रियाम् ॥ ३६ ॥
18.3.36 · p. 77
अनुष्टुप्
कन्यायां वाच्यलिङ्गस्तु प्रसन्ने च समर्द्धके ।भसत् स्त्री भास्वरे योनौ मर्यादा सीमनि स्थितौ ॥ ३७ ॥
18.3.37 · p. 77
अनुष्टुप्
माकन्दः सहकारेऽस्त्री धात्रीनगरभेदयोः ।मुकुन्दो निधिभिद्विष्णुरत्नभेदे च कुन्दुरौ ॥ ३८ ॥
18.3.38 · p. 77
अनुष्टुप्
मेनादस्तु पुमान् केकिमार्जारच्छागलेषु च ।विशदः पाण्डुरे रक्ते शरत् स्त्री वत्सरेऽप्यृतौ ॥ ३९ ॥
18.3.39 · p. 77
अनुष्टुप्
शारदोऽब्दे स्त्रियां तोयपिप्पलीसप्तपर्णयोः ।शस्ये क्लीबं शरज्जातनूतनाप्रतिभे त्रिषु ॥ ४० ॥
18.3.40 · p. 77
अनुष्टुप्
षड्बिन्दुः स्यात्कीटभेदपुण्डरीकाक्षयोः पुमान् ।सम्पद्भूतौ गुणोत्कर्षे हारभेदेऽपि च स्त्रियाम् ॥ ४१ ॥
18.3.41 · p. 77
अनुष्टुप्
संवित् स्त्रियां प्रतिज्ञायामाचारज्ञानसङ्गरे ।सम्भाषणे क्रियाकारे सङ्केते नाम्नि तोषणे ॥ ४२ ॥
18.3.42 · p. 77
अनुष्टुप्
सम्भेदः स्फुटने सङ्गे सुनन्दा रोचनोमयोः ।
18.3.27 · p. 77