कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Medinīkośa

नानार्थशब्दकोश or मेदिनीकोश Medinīkośa

2,500 verses · text only, tagging comes next

यान्तवर्गः · यद्विकम्

यद्विकम्

अव्यः स्यात् पङ्कजे पुंसि त्रिषु रम्ये च नाविके ।अर्थ्यं शिलाजतुन्यार्थ्ये बुधे न्याय्ये च वाच्यवत् ॥ ३ ॥
26.2.3 · p. 113
अनुष्टुप्
अन्त्यस्तु पुंसि मुस्तायामन्तोद्भूतेऽधमे त्रिषु ।अर्घ्यमर्घस्य योग्ये स्यादर्घार्थेऽपि च वाच्यवत् ॥ ४ ॥
26.2.4 · p. 113
अनुष्टुप्
अन्योऽसदृशेतरयोरर्य्यः स्यात् स्वामिवैश्ययोः ।आस्यं मुखे च तन्मध्ये तद्भवे च स्त्रियां स्थितौ ॥ ५ ॥
26.2.5 · p. 113
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 दृ (wrong syllable)
इज्या दानेऽध्वरेऽर्च्चायां सङ्गमे स्त्री गुरौ त्रिषु ।इभ्या करेणुशल्लक्योः स्त्रियामाढ्ये तु वाच्यवत् ॥ ६ ॥
26.2.6 · p. 113
अनुष्टुप्
कश्यं त्रिषु कशार्हे स्यात् क्लीबं मद्याश्वमध्ययोः ।कन्या कुमारिकानार्य्योरोषधीराशिभेदयोः ॥ ७ ॥
26.2.7 · p. 113
अनुष्टुप्
क्षयो रोगान्तरे वेश्मकल्पान्तापचयेषु च ।कल्यं प्रभाते क्लीबं स्यात् कल्यो वाक्श्रुतिवर्जिते ॥ ८ ॥
26.2.8 · p. 113
अनुष्टुप्
सज्जनीरोगदक्षेषु कल्याणवचनेऽपि च ।उपायवचनेऽपि स्यात् त्रिषु मद्ये तु योषिति ॥ ९ ॥
26.2.9 · p. 113
अनुष्टुप्
कक्ष्यो बृहतिकायां स्यात् काञ्च्यां मध्येभबन्धने ।हर्म्यादीनां प्रकोष्ठेऽपि कार्य्यं हेतौ प्रयोजने ॥ १० ॥
26.2.10 · p. 113
अनुष्टुप्
काव्यं ग्रन्थे पुमान् शुक्रे काव्या स्यात् पूतनाधियोः ।कांस्यं वाद्यायन्तरे पानपात्रे स्यात् तैजसान्तरे ॥ ११ ॥
26.2.11 · p. 113
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
कायः कदैवते मूर्त्तौ सङ्घे लक्ष्यस्वभावयोः ।मनुष्यतीर्थे कायं स्यात् क्रिया तूपायचेष्टयोः ॥ १२ ॥
26.2.12 · p. 113
अनुष्टुप्
आरम्भे निष्कृतौ पूजासम्प्रधारणकर्मसु ।शिक्षाचिकित्साकरणे कुड्यं स्यात्तु नपुंसकम् ॥ १३ ॥
26.2.13 · p. 113
अनुष्टुप्
विलेपने च भित्तौ च तथा कौतूहलेऽपि च ।कुल्यं स्यात् कीकसेऽप्यष्टद्रोणीशूर्पामिषेषु च ॥ १४ ॥
26.2.14 · p. 114
अनुष्टुप्
कुल्या पयःप्रणाल्याञ्च नद्यां जीवन्तिकौषधौ ।कुलोद्भवे कुलहिते त्रिषु मान्ये पुनः पुमान् ॥ १५ ॥
26.2.15 · p. 114
अनुष्टुप्
कृत्या क्रियादेवतयोस्त्रिषु विद्विष्टकार्य्ययोः ।गयः स्यात् पशुराजर्ष्योर्भेदे तीर्थे पुनर्गया ॥ १६ ॥
26.2.16 · p. 114
अनुष्टुप्
गव्यं नपुंसकं ज्यायां रागद्रव्येऽप्यथ स्त्रियाम् ।गोसमूहे त्रिलिङ्गन्तु गोदुग्धादौ च गोहिते ॥ १७ ॥
26.2.17 · p. 114
अनुष्टुप्
ग्राम्यं स्त्रीकरणे क्लीबेऽश्लीलप्राकृतयोस्त्रिषु ।गुह्यं रहस्युपस्थे च गुह्यः कमठदम्भयोः ॥ १८ ॥
26.2.18 · p. 114
अनुष्टुप्
गृह्यं गुदे ग्रन्थभेदे क्लीबं शाखापुरे स्त्रियाम् ।गृहासक्ते मृगादौ ना त्रिषु चास्वैरिपक्षयोः ॥ १९ ॥
26.2.19 · p. 114
अनुष्टुप्
गेयन्तु गीते गेयः स्याद् गातव्ये गायने त्रिषु ।गोप्यो दासीसुते पुंसि रक्षणीयेऽभिधेयवत् ॥ २० ॥
26.2.20 · p. 114
अनुष्टुप्
चव्यन्तु चविके क्लीबं वचायामपि योषिति ।चयः समूहे प्राक्रारे मूलबन्धे समाहृतौ ॥ २१ ॥
26.2.21 · p. 114
अनुष्टुप्
चित्यं मृतकचैत्ये स्याच्चित्रामृतचितौ स्त्रियाम् ।चैत्यमायतने बुद्धबिम्बे नोद्देशपादपे ॥ २२ ॥
26.2.22 · p. 114
अनुष्टुप्
चोद्यं स्यादद्भुते प्रश्ने चोदनार्हे तु वाच्यवत् ।छाया स्यादातपाभावे प्रतिबिम्बार्कयोषितोः ॥ २३ ॥
26.2.23 · p. 114
अनुष्टुप्
पालनोत्कोचयोर्दीप्तिसच्छोभापङ्क्तिषु स्त्रियाम् ।जया जयन्तीतिथिभित्पथ्योमातत्सखीषु च ॥ २४ ॥
26.2.24 · p. 114
अनुष्टुप्
अग्निमन्थे ना जयन्ते विजये च युधिष्ठिरे ।जन्यं हट्टे परीवादे सङ्ग्रामे च नपुंसकम् ॥ २५ ॥
26.2.25 · p. 114
अनुष्टुप्
जन्या मातृवयस्यायां जन्यः स्याज्जनके पुमान् ।त्रिषूत्पाद्यजनित्रोश्च नवोढाज्ञातिभृत्ययोः ॥ २६ ॥
26.2.26 · p. 114
अनुष्टुप्
वरस्निग्धेऽथ जन्युः स्यात् पुंसि प्राण्यग्निधातृषु ।त्रयी त्रिवेद्यां त्रितये न ना तार्क्ष्योऽश्वशालयोः ॥ २७ ॥
26.2.27 · p. 114
अनुष्टुप्
गरुडाग्रजे सुपर्णे पुंसि क्लीबं रसाञ्जने ।तिष्यो नक्षत्रभेदे स्यात् कलौ धात्र्याञ्च योषिति ॥ २८ ॥
26.2.28 · p. 115
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ग्र (wrong syllable)
द्रव्यन्तु पित्तले वित्ते पृथिव्यादौ विलेपने ।क्लीबे च भेषजे भव्ये द्रुतिकारे च वाच्यवत् ॥ २९ ॥
26.2.29 · p. 115
अनुष्टुप्
दस्युश्चौरे रिपौ पुंसि दायः सेाल्लुण्ठभाषणे ।विभक्तव्यपितृद्रव्ये तथा हरणदानयोः ॥ ३० ॥
26.2.30 · p. 115
अनुष्टुप्metre not read in every lineimpossible sign sequence: ंसि दायः सेाल्लुण्nearly अनुष्टुप्
दिव्यं लवङ्गे धात्र्यां स्त्री वल्गौ दिवि भवे त्रिषु ।दूष्यं त्रिषु दूषणीये क्लीबं वस्त्रे च तद्गृहे ॥ ३१ ॥
26.2.31 · p. 115
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 षु (wrong syllable)
दूत्यं दूतस्य भागे च भावे कर्मण्यपि स्मृतम् ।दैत्योऽसुरे सुरायान्तु दैत्या चण्डौषधावपि ॥ ३२ ॥
26.2.32 · p. 115
अनुष्टुप्
धन्या धात्र्यामलक्योः स्याद् धन्यं पुण्यवति त्रिषु ।धान्यं व्रीहिषु धन्याके धिष्ण्यं स्थानाग्निसद्मसु ॥ ३३ ॥
26.2.33 · p. 115
अनुष्टुप्
शक्तावृक्षेऽप्यथ नयो नीतिद्यूतविशेषयोः ।नाट्यं तौर्य्यत्रिके लास्ये नित्यं स्यात् सततेऽपि च ॥ ३४ ॥
26.2.34 · p. 115
अनुष्टुप्
शाश्वते त्रिषु पथ्या स्त्री हरीतक्यां हिते त्रिषु ।पद्यं श्लोके पुमान् शूद्रे पद्या वर्त्मनि कीर्त्तिता ॥ ३५ ॥
26.2.35 · p. 115
अनुष्टुप्
पाक्यं विटाख्यलवणे यवक्षारे पुनः पुमान् ।प्रायो मरणानशने मृत्यौ बाहुल्यतुल्ययोः ॥ ३६ ॥
26.2.36 · p. 115
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र (wrong syllable)
प्रियो हृद्येऽन्यवत् पुंसि वृद्धिनामौषधे धवे ।पीयुः काले रवौ घूके ना पुण्यं शोभने त्रिषु ॥ ३७ ॥
26.2.37 · p. 115
अनुष्टुप्
क्लीबं धर्मे च सुकृते पुष्यः कलियुगे स्मृतः ।नक्षत्रमासयोर्भेदे पूज्यः श्वशुरवन्द्ययोः ॥ ३८ ॥
26.2.38 · p. 115
अनुष्टुप्
पेयं पातव्यपयसोः पेया श्राणाच्छमण्डयोः ।बन्ध्यस्त्वफलवृक्षादौ स्त्रियां स्यादप्रजः स्त्रियाम् ॥ ३९ ॥
26.2.39 · p. 115
अनुष्टुप्
वर्य्या पतिंवरायां स्त्री वरेण्ये त्रिषु ना स्मरे ।बल्यं प्रधानधातौ स्यात् क्लीबं बलकरे त्रिषु ॥ ४० ॥
26.2.40 · p. 115
अनुष्टुप्
वीर्य्यं शुक्रे प्रभावे च तेजःसामर्थ्ययोरपि ।भयं प्रतिभये घोरे प्रसूने कुब्जकस्य च ॥ ४१ ॥
26.2.41 · p. 115
अनुष्टुप्
भव्यं शुभे च सत्ये च योग्ये भाविनि च त्रिषु ।कर्मरङ्गतरौ पुंसि स्त्रियां करिकणोमयोः ॥ ४२ ॥
26.2.42 · p. 116
अनुष्टुप्
क्लीबमस्थनि भाग्यन्तु स्यात् शुभाशुभकर्मणोः ।भृत्यो दासे भृतौ भृत्या मयुर्ना किन्नरे मृगे ॥ ४३ ॥
26.2.43 · p. 116
अनुष्टुप्
मयः शिल्पिनि दैत्यानां करभेऽश्वतरेऽपि च ।मध्यं वलग्ने न स्त्री स्यान्न्याय्येऽन्तरेऽधमेऽन्यवत् ॥ ४४ ॥
26.2.44 · p. 116
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्त (wrong syllable)
मत्स्यो मीनेऽथ पुंभूम्नि देशे मन्युः पुमान् क्रुधि ।दैन्ये शोके च यज्ञे च माल्यं कुसुमतत्स्रजोः ॥ ४५ ॥
26.2.45 · p. 116
अनुष्टुप्
माया स्यात् शाम्बरीबुद्ध्योर्मायः पीताम्बरेऽसुरे ।मूल्यं स्याद्वेतने प्रश्ने मृत्युर्ना मरणे यमे ॥ ४६ ॥
26.2.46 · p. 116
अनुष्टुप्
मेध्यं त्रिषु शुचौ रक्तवचारोचनयोः स्त्रियाम् ।ययुः पुमानश्वमेधतुरङ्गे च तुरङ्गमे ॥ ४७ ॥
26.2.47 · p. 116
अनुष्टुप्
याय्यस्तु यापनीये स्यान्निन्दितेऽप्यभिधेयवत् ।याम्याऽवाच्यां भरण्याञ्च पुंस्यगस्त्ये च चन्दने ॥ ४८ ॥
26.2.48 · p. 116
अनुष्टुप्
योग्यः प्रवीणयोगार्होपायिशक्तेषु वाच्यवत् ।क्लीबमृद्ध्यौषधे पुष्ये ना स्त्र्यभ्यासार्कयोषितोः ॥ ४९ ॥
26.2.49 · p. 116
अनुष्टुप्
रम्या रात्रौ चम्पके ना मनोज्ञे त्वभिधेयवत् ।नपुंसकं पटोलस्य मूले सूरिभिरिष्यते ॥ ५० ॥
26.2.50 · p. 116
अनुष्टुप्
रथ्या रथौघविशिखावर्त्तनीषु च योषिति ।रथवोढरि पुंलिङ्गो रूप्यः स्यात् सुन्दरे त्रिषु ॥ ५१ ॥
26.2.51 · p. 116
अनुष्टुप्
आहतस्वर्णरजते रजते च नपुंसकम् ।लयो विनाशे संश्लेषे साम्ये तौर्य्यत्रिके मतम् ॥ ५२ ॥
26.2.52 · p. 116
अनुष्टुप्
लक्ष्यं स्यादपदेशेऽपि शरव्येऽपि नपुंसकम् ।लभ्यं युक्ते च लब्धव्ये लास्यं तौर्य्यत्रिके मतम् ॥ ५३ ॥
26.2.53 · p. 116
अनुष्टुप्
नृत्ये च व्रज्या प्रस्थाने वर्गे पर्य्यटनेऽपि च ।वन्यं त्रिषु वनोद्भूते स्त्री वनाम्बुसमूहयोः ॥ ५४ ॥
26.2.54 · p. 116
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ज्या (wrong syllable)
वाच्यन्तु कुत्सिते हीने वचनार्हे च वाच्यवत् ।विन्ध्या स्त्रियां लवल्यां स्यात् पुंसि व्याधाद्रिभेदयोः ॥ ५५ ॥
26.2.55 · p. 116
अनुष्टुप्
वीक्ष्यन्तु विस्मये दूश्ये पुंसि लासकवाजिनोः ।वेश्यं वेश्यागृहे क्लीबं गणिकायान्तु योषिति ॥ ५६ ॥
26.2.56 · p. 117
अनुष्टुप्
शल्यन्तु न स्त्रियां शङ्की क्लीबं क्षेडेषु तोमरे ।मदनद्रुश्वाविधोर्ना शयः शय्याहिपाणिषु ॥ ५७ ॥
26.2.57 · p. 117
अनुष्टुप्
शय्या स्यात् शयनीये च गुम्फनेऽपि च योषिति ।शून्यं स्यान्निर्जने वाच्यलिङ्गं नल्यान्तु योषिति ॥ ५८ ॥
26.2.58 · p. 117
अनुष्टुप्
शौर्य्यमारभटीशक्त्योः सह्यः शैलान्तरे पुमान् ।सोढव्ये वाच्यलिङ्गः स्यादारोग्ये तु नपुंसकम् ॥ ५९ ॥
26.2.59 · p. 117
अनुष्टुप्
सङ्ख्यं समिति सङ्ख्या स्यादेकाद्यादिविचारयोः ।सन्ध्या पितृप्रसूनद्यन्तरयोर्युगसन्धिषु ॥ ६० ॥
26.2.60 · p. 117
अनुष्टुप्
सत्यं कृते च शपथे तथ्ये त्रिषु तु तद्वति ।सव्यं वामे प्रतीपे च स्मयो नाऽद्भुतगर्वयोः ॥ ६१ ॥
26.2.61 · p. 117
अनुष्टुप्
सायः काण्डे दिनान्ते च साध्यो योगान्तरे शरे ।गणदेवविशेषे च साधनीये तु वाच्यवत् ॥ ६२ ॥
26.2.62 · p. 117
अनुष्टुप्
सूर्य्योऽर्कपणें तपने स्त्री तद्भार्य्यौषधीभिदोः ।स्थेयो विवादपक्षस्य निर्णेतरि पुरोहिते ॥ ६३ ॥
26.2.63 · p. 117
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 प (wrong syllable)
सेव्यं क्लीबमुशीरे स्यात् सेवार्हे पुनरन्यवत् ।सैन्यं क्लीबं बले सेनासमवेते तु वाच्यवत् ॥ ६४ ॥
26.2.64 · p. 117
अनुष्टुप्
सौम्यो ज्ञे ना त्रिष्वनुग्रे मनोज्ञे सोमदैवते ।हार्य्यो बिभीतकतरौ हर्त्तव्ये पुनरन्यवत् ॥ ६५ ॥
26.2.65 · p. 117
अनुष्टुप्
हृद्यं जवनेऽथ त्रिषु हृज्जहृद्धितहृत्प्रिये ।वशकृद्वेदमन्त्रे ना वृद्धिनामौषधे स्त्रियाम् ॥ ६६ ॥
26.2.66 · p. 117
अनुष्टुप्metre not read in every line