All kośas › Medinīkośa
नानार्थशब्दकोश or मेदिनीकोश Medinīkośa
2,500 verses · text only, tagging comes next
अव्ययानि · तत्रिकम्
तत्रिकम्
आराद्दूरे समीपे च कच्चित् कामप्रवेदने ॥ २८ ॥
34.29.28 · p. 180
प्रश्ने हर्षे मङ्गले च किमुत प्रश्नतर्कयोः ।विकल्पेऽतिशयेऽपि स्यात् तावत् मानेऽवधारणे ॥ २९ ॥
34.29.29 · p. 180
अनुष्टुप्
सम्भ्रमे च परिच्छेदे तथा कार्त्स्न्याधिकारयोः ।पश्यत् स्याच्च प्रशंसायां विस्मये च निगद्यते ॥ ३० ॥
34.29.30 · p. 181
अनुष्टुप्
पश्चात् प्रतीच्यां चरमेऽप्यधिकारेऽपि दृश्यते ।यद्वत् प्रश्ने वितर्के च यावत् कार्त्स्न्येऽवधारणे ॥ ३१ ॥
34.29.31 · p. 181
अनुष्टुप्
प्रशंसायां परिच्छेदे मानाधिकारसम्भ्रमे ।पक्षान्तरे च शश्वत् स्यादनुप्रासे च मङ्गले ॥ ३२ ॥
34.29.32 · p. 181
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 धि (wrong syllable)
पुराकल्पे सदार्थे च पुनरर्थे च दृश्यते ।सकृत् सहैकवारे स्यात् साक्षात् प्रत्यक्षतुल्ययोः ॥ ३३ ॥
34.29.33 · p. 181
अनुष्टुप्