All kośas › Medinīkośa
नानार्थशब्दकोश or मेदिनीकोश Medinīkośa
2,500 verses · text only, tagging comes next
अव्ययानि · रत्रिकम्
रत्रिकम्
अन्तः स्वीकारमध्ययोः ।अन्तरा तु विनार्थे स्यान्मध्यार्थनिकटार्थयोः ॥ ७० ॥
34.47.70 · p. 184
अनुष्टुप्metre not read in every line
उरर्यूरुर्य्यूररी च विस्तारेऽङ्गाकृतौ त्रयम् ।नकिर्निषेधोपमयोः प्रादुः प्राकाश्य इष्यते ॥ ७१ ॥
34.47.71 · p. 184
अनुष्टुप्
सम्भाव्ये च प्रवृत्तौ च पुनरप्रथमे मतम् ।अधिकारे च भेदे च तथा पक्षान्तरेऽपि च ॥ ७२ ॥
34.47.72 · p. 184
अनुष्टुप्