कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Medinīkośa

नानार्थशब्दकोश or मेदिनीकोश Medinīkośa

2,500 verses · text only, tagging comes next

घान्तवर्गः · घद्विकम्

घद्विकम्

अघं तु व्यसने दुःखे दुरिते च नपुंसकम् ॥ १ ॥
4.2.1 · p. 26
अर्घः पूजाविधौ मूल्येऽप्युद्घः स्याद्देहजानिले ।अग्नौ हस्तपुटे शस्तेऽप्योघो वेगे जलस्य च ॥ २ ॥
4.2.2 · p. 26
अनुष्टुप्
वृन्दे परम्परायां च द्रुतनृत्योपदेशयोः ।मघा मघी च नक्षत्रे धान्यभेदे यथाक्रमम् ॥ ३ ॥
4.2.3 · p. 26
अनुष्टुप्
मघो द्वीपान्तरे मेघो मुस्ताजलदयोः पुमान् ।मोघा स्त्री पाटलायां स्याद्धीननिष्फलयोस्त्रिषु ॥ ४ ॥
4.2.4 · p. 26
अनुष्टुप्
लघुरगुरौ च मनोज्ञे निःसारे वाच्यवत् क्लीबम् ।शीघ्रे कृष्णागुरुणि च पृक्कानामौषधौ तु स्त्री ॥ ५ ॥
4.2.5 · p. 26
metre not recognised
श्लाघा स्त्रियां प्रशंसायां परिचर्याऽभिलाषयोः ।
4.2.6 · p. 26