All kośas › Medinīkośa
नानार्थशब्दकोश or मेदिनीकोश Medinīkośa
2,500 verses · text only, tagging comes next
तान्तवर्गः · तचतुष्कम्
तचतुष्कम्
अवसितमृद्धे ज्ञातेऽप्यवसानगते च वाच्यलिङ्गं स्यात् ॥ १७७ ॥
16.4.177 · p. 67
(१)अर्थपतिः पुंलिङ्गो धनाधिनाथे च नरनाथे ।अवदातः सिते गौरे विशुद्धेऽप्यन्यलिङ्गकः ॥ १७८ ॥
16.4.178 · p. 67
अनुष्टुप्metre not read in every line
अवगीतं तु निर्वादे दु(२)ष्टगर्हितयोरपि ।अन्तर्गतं विस्मृते स्यान्मध्यप्राप्ते च वाच्यवत् ॥ १७९ ॥
16.4.179 · p. 67
अनुष्टुप्
अङ्गारितं तु दग्धे स्यात्पलाशकलिकोद्गमे ।(३)हसन्त्यां च लतामात्रे नदीभेदे च योषिति ॥ १८० ॥
16.4.180 · p. 67
अनुष्टुप्
अपावृतस्तु पिहिते स्वतन्त्रेऽपि च वाच्यवत् ।अत्याहितं महाभीतौ जीवानपेक्षिकर्मणि ॥ १८१ ॥
16.4.181 · p. 67
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)
अभिनीतं त्रिषु न्याय्ये संस्कृतामर्षिणोरपि ।अभिजातः कुलीने स्यात् न्याय्यपण्डितयोस्त्रिषु ॥ १८२ ॥
16.4.182 · p. 67
अनुष्टुप्
अभियुक्तः परै रुद्धे तत्परेऽप्यभिधेयवत् ।अतिमुक्तस्तु निःसङ्गे वासन्त्यां तिनिशेऽपि च ॥ १८३ ॥
16.4.183 · p. 67
अनुष्टुप्
अवध्वस्तः परित्यक्ते निन्दितेऽप्यवचूर्णिते ।अधिक्षिप्तः प्रsणिहिते कुत्सिते भर्त्सिते त्रिषु ॥ १८४ ॥
16.4.184 · p. 67
अनुष्टुप्metre not read in every lineLatin letters: s
अंशुमान् भास्करे शालपर्ण्यामंशुमती स्मृता ।भवेदपचितिः पूजाव्ययनिष्कृतिहानिषु ॥ १८५ ॥
16.4.185 · p. 68
अनुष्टुप्
अथानुमतिरूनेन्दुपूर्णिमाऽनुज्ञयोरपि ।अभिशस्तिः प्रार्थनाऽपवादयोश्च त्रयं स्त्रियाम् ॥ १८६ ॥
16.4.186 · p. 68
अनुष्टुप्
आयुष्मान् योगभेदे ना वाच्यवच्चिरजीविनि ।उपाहितोऽनलोत्पाते पुमानारोपिते त्रिषु ॥ १८७ ॥
16.4.187 · p. 68
अनुष्टुप्
उपाकृतोऽध्वरहतपशौ नोपद्रुते त्रिषु ।उदास्थितः प्रतीहारे प्रव्रज्याऽवसिते चरे ॥ १८८ ॥
16.4.188 · p. 68
अनुष्टुप्
स्यादुल्लिखितमुत्कीर्णे तनूकृते च वाच्यवत् ।उद्ग्राहितमुदीर्णे स्याद्बद्धग्राहितयोस्त्रिषु ॥ १८९ ॥
16.4.189 · p. 68
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 कृ (wrong syllable)
भवेदुपचितं दग्धे समृद्धे वाच्यलिङ्गकम् ।उज्जृम्भितं त्रिषूत्फुल्ले चेष्टायां तु नपुंसकम् ॥ १९० ॥
16.4.190 · p. 68
अनुष्टुप्
उपरक्तो व्यसनार्ते राहुग्रस्तेन्दुसूर्ययोः ।उपसत्तिः सङ्गमात्रे सेवायामपि योषिति ॥ १९१ ॥
16.4.191 · p. 68
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 स (wrong syllable)
ऋष्यप्रोक्ता शतावर्यतिबलाशूकशिबिषु ।ऐरावतोऽभ्रमातङ्गे नारङ्गे लकुचद्रमे ॥ १९२ ॥
16.4.192 · p. 68
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 शि (wrong syllable)
नागभेदे च पुंसि स्याद्विद्युत्तद्भेदयोः स्त्रियाम् ।नपुंसकं महेन्द्रस्य ऋजुदीर्घशरासने ॥ १९३ ॥
16.4.193 · p. 68
अनुष्टुप्
कलधौतं सुवर्णे स्याद्रजते च नपुंसकम् ।भवेत् कुहरितं क्लीबं पिकालापे रतध्वनौ ॥ १९४ ॥
16.4.194 · p. 68
अनुष्टुप्
कुमुद्वान् कुमुदप्रायदेशे स्याद्वाच्यलिङ्गकः ।कुमुद्वती कुमुदिन्यां कुशपत्न्यां च योषिति ॥ १९५ ॥
16.4.195 · p. 68
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 मु (wrong syllable)
कृष्णवृन्ता पाटलायां माषपर्ण्यां च योषिति ।अथ गन्धवती पृथ्वीपुरीभिद्व्यासमातृषु ॥ १९६ ॥
16.4.196 · p. 68
अनुष्टुप्
सुरायां च गरुत्मांश्च पक्षिमात्रे खगाधिपे ।भवेद्गृहपतिः पुंसि गृहस्थेऽपि च मन्त्रिणि ॥ १९७ ॥
16.4.197 · p. 68
अनुष्टुप्
चन्द्रकान्तस्तु पुंसि स्यान्मणिभेदे च कैरवे ।चर्मण्वती नदीभेदे कदलीपादपे स्त्रियाम् ॥ १९८ ॥
16.4.198 · p. 68
अनुष्टुप्
चित्रगुप्तस्तु पुंसि स्याद्यमे तस्य च लेखके ।दिवाभीतः कुम्भिले स्यादुलूके कुमुदाकरे ॥ १९९ ॥
16.4.199 · p. 69
अनुष्टुप्
दिवाकीर्तिस्तु पुंसि स्यान्नापितान्तावसायिनोः ।द्वीपवान् सिन्धुनदयोर्द्वीपवत्यापगाभुवोः ॥ २०० ॥
16.4.200 · p. 69
अनुष्टुप्
दृषद्वती नदीभेदे कात्यायन्यामपि स्त्रियाम् ।स्याद्धूमकेतुरुत्पातभेदे वैश्वानरे पुमान् ॥ २०१ ॥
16.4.201 · p. 69
अनुष्टुप्
नन्द्यावर्तः पुमान् वेश्मप्रभेदे भगवद्द्रुमे ।नदीकान्तः समुद्रे स्याद् हिज्जले सिन्दुवारके ॥ २०२ ॥
16.4.202 · p. 69
अनुष्टुप्
नदीकान्ता स्त्रियां जम्ब्वां काकजङ्घौषधावपि ।नागदन्तो द्विपरदे गृहान्निर्गतदारुणि ॥ २०३ ॥
16.4.203 · p. 69
अनुष्टुप्
नागदन्ती तु कुम्भायां श्रीहस्तिन्यामपि स्त्रियाम् ।निष्कासितो निर्गमितेऽप्याहितेऽधिकृतेऽपि च ॥ २०४ ॥
16.4.204 · p. 69
अनुष्टुप्
अथ निस्तुषितं त्यक्ते त्वग्निहीने लघूकृते ।निराकृतिरनाकारेऽस्वाध्याये त्रिषु वारणे ॥ २०५ ॥
16.4.205 · p. 69
अनुष्टुप्
स्त्रियां परिगतं प्राप्ते विस्मृतज्ञानचेष्टिते ।अथ प्रणिहितं न्यस्ते प्राप्तेऽपि च समाहिते ॥ २०६ ॥
16.4.206 · p. 69
अनुष्टुप्
अथ पल्लवितं लाक्षारक्ते सपल्लवे तते ।भवेत् प्रतिहितं द्विष्टे प्रतिस्खलितरुद्धयोः ॥ २०७ ॥
16.4.207 · p. 69
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स (wrong syllable)
प्रतिक्षिप्तं वारिते स्यात्प्रेषिते पञ्चकं त्रिषु ।परिवर्तो विनियमे कूर्मराजेऽपवर्तने ॥ २०८ ॥
16.4.208 · p. 69
अनुष्टुप्
परिस्रुता स्त्री वारुण्यां स्यन्ने स्यादभिधेयवत् ।प्रधूपिता क्लेशितायां सूर्यगन्तव्यदिश्यपि ॥ २०९ ॥
16.4.209 · p. 69
अनुष्टुप्
पञ्चगुप्तस्तु चार्वाकदर्शने कमठे पुमान् ।प्रजापतिश्च दक्षादौ महीपाले विधातरि ॥ २१० ॥
16.4.210 · p. 69
अनुष्टुप्
प्रतिपत्तिः प्रवृत्तौ च प्रागल्भ्ये गौरवेऽपि च ।सम्प्राप्तौ च प्रबोधे च पदप्राप्तौ च योषिति ॥ २११ ॥
16.4.211 · p. 69
अनुष्टुप्
अथ प्रव्रजिता मांसीमुण्डीरीतापसीषु च ।प्रतिकृतिरथार्चायां प्रतिनिधिप्रतीकारयोश्च स्त्री ॥ २१२ ॥
16.4.212 · p. 69
अनुष्टुप्metre not read in every line
पाशुपतो बकपुष्पे स्यात् पशुपत्यधिदैवते च तद्भक्ते ।पारिजातः सुरतरौ पारिभद्रतरावपि ॥ २१३ ॥
16.4.213 · p. 70
अनुष्टुप्metre not read in every line
पुष्पदन्तस्तु दिङ्नागभेदे विद्याधरान्तरे ।पुरस्कृतोऽभिशस्तारिग्रस्ताग्रे कृतपूजिते ॥ २१५ ॥
16.4.215 · p. 70
अनुष्टुप्
भगवान्ना जिने गौर्यां स्त्रियां पूज्ये तु वाच्यवत् ।अथ भोगवती नागपुरीनद्योरहौ पुमान् ॥ २१६ ॥
16.4.216 · p. 70
अनुष्टुप्
रङ्गमाता तु कुट्टन्यां वृक्षरोगान्तरे स्त्रियाम्(१) ।लक्ष्मीपतिः पुमान् वासुदेवे नरपतावपि ॥ २१७ ॥
16.4.217 · p. 70
अनुष्टुप्
व्यतीपातो महोत्पाते योगभेदापमानयोः ।वनस्पतिर्ना द्रुमात्रे विना पुष्पफलद्रुमे ॥ २१८ ॥
16.4.218 · p. 70
अनुष्टुप्
विनिपातो निपाते स्याद् दैवादिव्यसने पुमान् ।विजृम्भितं तु चेष्टायां क्लीबं त्रिषु विकस्वरे ॥ २१९ ॥
16.4.219 · p. 70
अनुष्टुप्
विवस्वान् विबुधे(२) सूर्ये तन्नगर्यां विवस्वती ।वैजयन्तो महेन्द्रस्य ध्वजप्रासादयोः पुमान् ॥ २२० ॥
16.4.220 · p. 70
अनुष्टुप्
वैजयन्ती पताकायां जयन्तीपादपे (३)स्त्रियाम् ।भवेच्छतधृतिः पुंसि शुक्रे च परमेष्ठिनि ॥ २२१ ॥
16.4.221 · p. 70
अनुष्टुप्
शुभ्रदन्ती सुदन्त्यां स्यात् पुष्पदन्तेभयोषिति ।समुद्धतं समुत्कीर्णेऽप्यपनीते च वाच्यवत् ॥ २२२ ॥
16.4.222 · p. 70
अनुष्टुप्
सदागतिर्नाकवातनिर्वाणेषु सदीश्वरे ।सरस्वांश्च नदे चाब्धौ मान्यवद्रसिके स्त्रियाम् ॥ २२३ ॥
16.4.223 · p. 70
अनुष्टुप्
वाणी स्त्री रत्नवाग्देवीगोनदीषु नदीभिदि ।मनुपत्न्यामपि सत्यवती व्यासस्य मातरि ॥ २२४ ॥
16.4.224 · p. 70
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 पि (wrong syllable)
नारदर्चीकयोः पत्न्यां स्त्रियां पुंसि नृपान्तरे ।समुद्रान्ता तु कार्पासीपृक्कादुरालभासु च ॥ २२५ ॥
16.4.225 · p. 70
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 दु (wrong syllable)
समाहितः समाधिस्थेऽप्युक्तसिद्धान्त आहिते ।निर्विवादीकृतेऽपि स्यात्प्रतिज्ञाते च वाच्यवत् ॥ २२६ ॥
16.4.226 · p. 71
अनुष्टुप्
समाघातो वधे युद्धे संख्यावान् पण्डिते पुमान् ।संख्यायुक्तेऽन्यलिङ्गोऽथ सुधासूतिः पुमान् मखे ॥ २२७ ॥
16.4.227 · p. 71
अनुष्टुप्
चन्द्रे सुभाषितो बुद्धे पुमान् सूक्ते नपुंसकम् ।सूर्यभक्तस्तु बन्धूके पुंसि त्रिष्वर्कपूजके ॥ २२८ ॥
16.4.228 · p. 71
अनुष्टुप्
सेनापतिः कार्तिकेयेऽप्यनीकाधिपतौ पुमान् ।हिमारातिः पुमान् वीतिहोत्रे किरणमालिनि ॥ २२९ ॥
16.4.229 · p. 71
अनुष्टुप्
हैमवत्यभयास्वर्णक्षीर्योः श्वेतवचोमयोः ।
16.4.54 · p. 71