All kośas › Medinīkośa
नानार्थशब्दकोश or मेदिनीकोश Medinīkośa
2,500 verses · text only, tagging comes next
अव्ययानि · मत्रिकम्
मत्रिकम्
अलम् भूषणपर्य्याप्तिवारणेषु निरर्थके ॥ ५६ ॥
34.41.56 · p. 183
शक्तावेवम् प्रकारे स्यादङ्गीकारेऽवधारणे ।अनुप्रश्ने परकृतावुपमापृच्छयोरपि ॥ ५७ ॥
34.41.57 · p. 183
अनुष्टुप्
कथम् हर्षे च गर्हायां प्रकारार्थे च सम्भ्रमे ।प्रश्ने सम्भावनायाञ्च कामम् चाऽनुमतौ स्मृतम् ॥ ५८ ॥
34.41.58 · p. 183
अनुष्टुप्
प्रकामे चाप्यसूयायां तथाऽनुगमनेऽपि च ।जोषम् सुखे प्रशंसायां तूष्णींलङ्घनयोरपि ॥ ५९ ॥
34.41.59 · p. 183
अनुष्टुप्
नूनन्तु निश्चिते तर्के स्मरणे वाक्यपूरणे ।परम् नियोगे क्षेपे च प्राध्वम् नर्मानुकूलयोः ॥ ६० ॥
34.41.60 · p. 183
अनुष्टुप्
सत्यम् प्रश्नेऽभ्युपगमे-
34.41.6 · p. 183