All kośas › Medinīkośa
नानार्थशब्दकोश or मेदिनीकोश Medinīkośa
2,500 verses · text only, tagging comes next
तान्तवर्गः · तद्विकम्
तद्विकम्
अस्तं क्षिप्तेऽप्यवसिते त्रिषु ना पश्चिमाचले ।अन्तं स्वरूपे नाशे ना न स्त्री शेषेऽन्तिके त्रिषु ॥ २ ॥
16.2.2 · p. 54
अनुष्टुप्
आर्त्तिः पीडाधनुष्कोट्योः स्त्र्याप्तो लब्धे स्वसत्ययोः ।आप्तिः स्त्री योगसम्प्राप्त्योरितं स्मृते गते त्रिषु ॥ ३ ॥
16.2.3 · p. 54
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्मृ (wrong syllable)
ईतिर्डिम्बे प्रवासेऽतिवृष्ट्यादिषट्सु च स्त्रियाम् ।उक्तमेकाक्षरच्छन्दस्युक्तं स्याद्भाषिते त्रिषु ॥ ४ ॥
16.2.4 · p. 54
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 दि (wrong syllable)
ऊतिः स्त्री रक्षणे स्यूतावृतिः कल्याणवर्त्मनोः ।जुगुप्सास्पर्द्धयोः स्त्री स्याद्रुतमुञ्छशिले जले ॥ ५ ॥
16.2.5 · p. 54
अनुष्टुप्
सत्ये दीप्ते पूजिते स्याद्रुतुर्वर्षादिषट्सु च ।आर्तवे भासि च पुमानेतः कर्बुर आगते ॥ ६ ॥
16.2.6 · p. 54
अनुष्टुप्
क्षत्ता शूद्रात् क्षत्रियाजे प्रतीहारे च सारथौ ।भुजिष्यातनयेऽपि स्यान्नियुक्तवेधसोः पुमान् ॥ ७ ॥
16.2.7 · p. 54
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 क्त (wrong syllable)
कर्त्ता तु कारके वाच्यलिङ्गो ना परमेष्ठिनि ।ऋतुर्यज्ञे मुनौ पुंसि कान्तिः शोभेच्छयोः स्त्रियाम् ॥ ८ ॥
16.2.8 · p. 54
अनुष्टुप्
कान्ता नार्यां प्रियङ्गौ स्त्री शोभने त्रिषु ना धवे ।लोहे च चन्द्रसूर्यायःपर्यायान्तःशिलासु च ॥ ९ ॥
16.2.9 · p. 54
अनुष्टुप्
क्षितिर्निवासे मेदिन्यां कालभेदे क्षये स्त्रियाम् ।कीर्तिः प्रसादयशसोर्योषित् कुन्तो गवेधिकायां स्यात् ॥ १० ॥
16.2.10 · p. 54
अनुष्टुप्
प्रासायुधे च कुन्ती गुग्गुलुपृथयोश्च शल्लक्याम् ।कृतं युगेऽलमर्थे स्याद्विहिते हिंसिते त्रिषु ॥ ११ ॥
16.2.11 · p. 54
अनुष्टुप्metre not read in every line
कृत्तं तु चेष्टिते छन्ने कृतिः करणहिंसयोः ।कृत्तिश्चर्मत्वचोर्भूर्जे कृत्तिकायां द्वयं स्त्रियाम् ॥ १२ ॥
16.2.12 · p. 54
अनुष्टुप्
केतुर्ना रुक्पताकाविग्रहोत्पातेषु लक्ष्मणि ।गर्तस्त्रिगर्त्तभेदे स्यादवटे च कुकुन्दरे ॥ १३ ॥
16.2.13 · p. 54
अनुष्टुप्
ग्रस्तं ग्रासीकृतेऽपि स्याल्लुप्तवर्णपदेऽपि च ।गतिः स्त्री मार्गदशयोर्ज्ञाने यात्राऽभ्युपाययोः ॥ १४ ॥
16.2.14 · p. 55
अनुष्टुप्
नाडीव्रणसरण्यां च गतं विज्ञानयातयोः ।गातुर्ना कोकिले भृङ्गे गन्धर्वे त्रिषु रोषणे ॥ १५ ॥
16.2.15 · p. 55
अनुष्टुप्
गीतिश्छन्दसि गाने स्त्री गीतं शब्दितगानयोः ।गुप्तिः स्त्र्यवकरस्थाने कारागारे च रक्षणे ॥ १६ ॥
16.2.16 · p. 55
अनुष्टुप्
गुप्तं स्याद्रक्षिते गूढे घातः काण्डप्रहारयोः ।घृतमाज्ये जले क्लीबं प्रदीप्ते त्वभिधेयवत् ॥ १७ ॥
16.2.17 · p. 55
अनुष्टुप्
चितं छन्ने त्रिषु चिता चित्यायां संहतौ स्त्रियाम् ।चितिश्चित्यावृन्दयोः स्त्री जातं व्यक्तौघजन्मसु ॥ १८ ॥
16.2.18 · p. 55
अनुष्टुप्
क्लीबं त्रिलिङ्गमुत्पन्ने जातिः स्त्री गोत्रजन्मनोः ।अश्मन्तिकामलक्योश्च सामान्यच्छन्दसोरपि ॥ १९ ॥
16.2.19 · p. 55
अनुष्टुप्
जातीफले च मालत्यां ज्ञातिस्तातसगोत्रयोः ।पुमानथ ततं व्याप्ते विस्तृते च त्रिलिङ्गकम् ॥ २० ॥
16.2.20 · p. 55
अनुष्टुप्
क्लीबं वीणादिवाद्ये स्यात् पुंलिङ्गस्तु समीरणे ।तातोऽनुकम्प्ये जनके तिक्तो रससुगन्धयोः ॥ २१ ॥
16.2.21 · p. 55
अनुष्टुप्
तिक्ता तु कटुरोहिण्यां पर्पटे तु नपुंसकम् ।तूस्तं रेणौ च विख्या(१)तं जटायां च नपुंसकम् ॥ २२ ॥
16.2.22 · p. 55
अनुष्टुप्
त्रेता युगेऽग्नित्रितये दत्तं विश्राणितेऽर्चिते ।दन्तोऽद्रिकटके कुञ्जे दशनेऽथौषधौ स्त्रियाम् ॥ २३ ॥
16.2.23 · p. 55
अनुष्टुप्
दान्तस्तु दमितेऽपि स्यात्तपःक्लेशसहे त्रिषु ।दितिर्दैत्यजनन्यां च खण्डनेऽपि च योषिति ॥ २४ ॥
16.2.24 · p. 55
अनुष्टुप्
दीप्तं निर्भासिते दग्धे ज्वलितेऽथ द्रुतं त्रिषु ।शीघ्रे विलीने विद्राणे द्युतिः स्त्री रश्मिशोभयोः ॥ २५ ॥
16.2.25 · p. 55
अनुष्टुप्
दृतिश्चर्मपुटे मत्स्ये ना धातुर्नेन्द्रियेषु च ।शब्दयोनिमहाभूततद्गुणेषु रसादिषु ॥ २६ ॥
16.2.26 · p. 55
अनुष्टुप्
मनःशिलादौ श्लेष्मादौ विशेषाद्गैरिकेऽस्थ्नि च ।धाता हिरण्यगर्भे ना पालके त्रिष्वथो धुतम् ॥ २७ ॥
16.2.27 · p. 56
अनुष्टुप्
त्यक्ते विधूते धूतं तु कम्पिते भर्त्सिते त्रिषु ।धूर्त्तं तु खण्डलवणे धुस्तूरे ना विटे त्रिषु ॥ २८ ॥
16.2.28 · p. 56
अनुष्टुप्
धृतिर्नेष्टौ स्त्रियां तुष्टौ योगभिद्धैर्यधारणे ।नतं तगरपाद्यां स्यात् क्लीबं कुटिलनम्रयोः ॥ २९ ॥
16.2.29 · p. 56
अनुष्टुप्
त्रिषु नीतिर्नयेऽपि स्यात् प्रापणेऽपि च योषिति ।पक्तिः स्त्री गौरवे पाके पत्तिर्ना पदगे स्त्रियाम् ॥ ३० ॥
16.2.30 · p. 56
अनुष्टुप्
गतावेकरथैकेभत्र्यश्वपञ्चपदातिके ।पङ्क्तिर्दशाक्षरच्छन्दोदशसंख्यालिषु स्त्रियाम् ॥ ३१ ॥
16.2.31 · p. 56
अनुष्टुप्
पतिर्धवे ना त्रिष्वीशे प्राप्तं लब्धे समञ्जसे ।पातो ना पतने त्राते त्रिषु प्राप्तिर्महोदये ॥ ३२ ॥
16.2.32 · p. 56
अनुष्टुप्
लाभेऽपि च स्त्रियां प्रातिः पूर्त्तिप्रादेशयोः स्त्रियाम् ।पीतिर्नाऽश्वे स्त्रियां पाने प्रीतं हृषितनर्मणोः ॥ ३३ ॥
16.2.33 · p. 56
अनुष्टुप्
पीतं पाने हरिद्रायां स्त्रियां गौरेऽभिधेयवत् ।प्रीतिर्योगान्तरे प्रेम्णि स्मरपत्नीमुदोः स्त्रियाम् ॥ ३४ ॥
16.2.34 · p. 56
अनुष्टुप्
पुस्तं क्लीबे पुस्तके च लेप्यादिशिल्पकर्मणि ।प्लुतं तुरङ्गमगतौ क्लीबं पुंसि त्रिमात्रके ॥ ३५ ॥
16.2.35 · p. 56
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 दि (wrong syllable)
पूतं त्रिषु पवित्रे च शठिते बहुलीकृते ।पूर्त्तं त्रिषु पूरिते स्यात् क्लीबं खातादिकर्मणि ॥ ३६ ॥
16.2.36 · p. 56
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 षु (wrong syllable)
प्रोतं नपुंसकं वस्त्रे खचिते वाच्यलिङ्गकम् ।प्रेतो भूतान्तरे पुंसि मृते स्याद्वाच्यलिङ्गकः ॥ ३७ ॥
16.2.37 · p. 56
अनुष्टुप्
पोतः शिशौ वहित्रे च गृहस्थाने च वाससि ।वृतिस्तु वरणेऽपि स्याद्वेष्टनेऽपि च योषिति ॥ ३८ ॥
16.2.38 · p. 56
अनुष्टुप्
भर्त्ता स्वामिनि पुंसि स्यात् त्रिषु धातरि पोष्टरि ।भक्तिर्विभागे सेवायां स्त्रियां भ्रान्तिस्तु योषिति ॥ ३९ ॥
16.2.39 · p. 56
अनुष्टुप्
मिथ्यामतौ च भ्रमणे भित्तिः कुड्यप्रदेशयोः ।भीतिर्भये स्त्रियां भीतं भयेऽथ भीयुते त्रिषु ॥ ४० ॥
16.2.40 · p. 56
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 थ (wrong syllable)
भूतिर्भस्मनि सम्पत्तौ हस्तिशृङ्गारयोः स्त्रियाम् ।भूतं क्ष्मादौ पिशाचादौ जन्तौ क्लीबं त्रिषूचिते ॥ ४१ ॥
16.2.41 · p. 57
अनुष्टुप्
प्राप्ते वित्ते समे सत्ये देवयोन्यन्तरे तु ना ।कुमारेऽपि भृतिः स्त्री स्यान्मूल्येऽपि भरणेऽपि च ॥ ४२ ॥
16.2.42 · p. 57
अनुष्टुप्
मतं तु सम्मते ज्ञाते मतिः स्त्रीच्छाधियोः स्मृतौ ।मन्तुः पुंस्यपराधेऽपि मनुष्येऽपि प्रजापतौ ॥ ४३ ॥
16.2.43 · p. 57
अनुष्टुप्
माता गौर्यादिजननीगोब्रह्माण्यादिभूमिषु ।(१)मातिर्मानेऽप्यवच्छेदे मुक्तिर्मोक्षे च मोक्षणे ॥ ४४ ॥
16.2.44 · p. 57
अनुष्टुप्
मात्रादयः स्त्रियां मुक्तः प्राप्तमोक्षे च मोचिते ।त्रिषु स्त्री मौक्तिके मूर्त्तिः कायकाठिन्ययोः स्त्रियाम् ॥ ४५ ॥
16.2.45 · p. 57
अनुष्टुप्
मूर्त्तं स्यात् त्रिषु मूर्च्छाले कठिने मूर्त्तिमत्यपि ।मृतं तु याचिते मृत्यौ क्लीबं मृत्युमति त्रिषु ॥ ४६ ॥
16.2.46 · p. 57
अनुष्टुप्
यतिः स्त्री (२)पाठविक्छेदे निकारयतिनोः पुमान् ।यन्ता (३)मेठे च सूते ना युक्तिः स्त्री न्याययोगयोः ॥ ४७ ॥
16.2.47 · p. 57
अनुष्टुप्
युतो युक्तोऽपृथग्भूते क्लीबं हस्तचतुष्टये ।रक्तोऽनुरक्ते नील्यादिरञ्जिते लोहिते त्रिषु ॥ ४८ ॥
16.2.48 · p. 57
अनुष्टुप्
क्लीबं तु कुङ्कुमे ताम्रे प्राचीनामलके सृजि ।रतिः स्त्री स्मरदारेषु रागे सुरतगुह्ययोः ॥ ४९ ॥
16.2.49 · p. 57
अनुष्टुप्
रत्नं वर्त्मनि नद्यां स्त्री रतं सुरतगुह्ययोः ।रतस्त्रिष्वनुरक्ते स्यात् तत्परे चाभिधेयवत्(४) ॥ ५० ॥
16.2.50 · p. 57
अनुष्टुप्
रिक्तं शून्ये वने रीतिः स्त्रियां स्यन्दप्रचारयोः ।पित्तले लोहकिट्टे च लता प्रियङ्गुशाखयोः ॥ ५१ ॥
16.2.51 · p. 57
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प्रि (wrong syllable)
पृक्काज्योतिष्मतीवल्लीलताकस्तूरिकासु च ।माधवीदूर्वयोर्लिप्तं विलिप्तविषदिग्धयोः ॥ ५२ ॥
16.2.52 · p. 57
अनुष्टुप्
भुक्ते लूता तूर्णनाभे पिपीलिकागदान्तरे ।वप्ता तु जनके पुंसि वापकेऽप्यभिधेयवत् ॥ ५३ ॥
16.2.53 · p. 57
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 लि (wrong syllable)
वक्ता तु पण्डितेऽपि स्याद्वाग्मिन्यप्यन्यलिङ्गकः ।व्यस्तं तु व्याकुले व्याप्ते व्यक्तः स्फुटमनीषिणोः ॥ ५४ ॥
16.2.54 · p. 58
अनुष्टुप्
वस्तिर्द्वयोर्निरूहे नाभ्यधोभूम्नि दशासु च ।वर्त्तिभैषजनिर्माणे नयनाञ्जनलेखयोः ॥ ५५ ॥
16.2.55 · p. 58
अनुष्टुप्
गात्रानुलेपनीदीपदशादीपेषु योषिति ।वार्त्ता तु वर्त्तने वातिङ्गणे कृष्याद्युदन्तयोः ॥ ५६ ॥
16.2.56 · p. 58
अनुष्टुप्
निःसारारोग्ययोः क्लीबं वृत्तिर्मल्लीरुजोः स्त्रियाम् ।व्याप्तं ख्याते समाक्रान्ते व्याप्तिर्व्यापनरम्भयोः ॥ ५७ ॥
16.2.57 · p. 58
अनुष्टुप्
स्त्रियां वित्तिर्विचारे च लाभसम्भावयोः स्त्रियाम् ।वित्तं क्लीबं धने वाच्यलिङ्गं ख्याते विचारिते ॥ ५८ ॥
16.2.58 · p. 58
अनुष्टुप्
वीतमसारगजे स्यादङ्कुशकर्मण्यसारतुरगेऽपि ।वीतिर्गतौ च दीप्तौ प्रजनाशनधावनेषु स्त्री ॥ ५९ ॥
16.2.59 · p. 58
आर्या
वृत्तिर्विवरणाजीवकैशिक्यादिप्रवर्तने ।वृन्तं प्रसबन्धेऽस्त्री घटीधाराकुचाग्रयोः ॥ ६० ॥
16.2.60 · p. 58
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 वृ (syllables merged)
वृत्तोऽधीतेप्यतीतेऽतिवर्तुलेऽपि वृते मृते ।दृढेऽन्यलिङ्गं वा क्लीबं छन्दश्चारित्रवृत्तिषु ॥ ६१ ॥
16.2.61 · p. 58
अनुष्टुप्
शक्तिरस्त्रान्तरे गौर्यामुत्साहादौ बले स्त्रियाम् ।शस्तं क्षेमे प्रशस्ते च शान्तिः स्त्री मङ्गले शमे ॥ ६२ ॥
16.2.62 · p. 58
अनुष्टुप्
शास्ता समन्तभद्रे ना शासने पुनरन्यवत् ।शान्तोऽभियुक्तरसयोः पुंसि त्रिषु शमान्विते ॥ ६३ ॥
16.2.63 · p. 58
अनुष्टुप्
अव्ययं वारणे शान्तं शान्तं शितं च दुर्बले ।निशिते च शितिर्भूर्जे ना सितासितयोस्त्रिषु ॥ ६४ ॥
16.2.64 · p. 58
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 शि (wrong syllable)
शीतं हिमगुणे क्लीबं शीतलालसयोस्त्रिषु ।वानीरे बहुवारे ना शुक्तं पूताम्लनिष्ठुरे ॥ ६५ ॥
16.2.65 · p. 58
अनुष्टुप्
श्रुतिः श्रौत्रे च तत्कर्मण्याम्नायवा(१)तयोः स्त्रियाम् ।शुक्तिः कपालशकले शङ्खे शङ्खनखेऽपि च ॥ ६६ ॥
16.2.66 · p. 58
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 य (wrong syllable)
नख्यश्वावर्तदुर्नाममुक्तास्फोटेषु च स्त्रियाम् ।श्रुतमाकर्णिते शास्त्रे श्वेतो द्वीपाद्रिभेदयोः ॥ ६७ ॥
16.2.67 · p. 59
अनुष्टुप्
श्वेता वराटिकाकाष्ठपाटलाशङ्खिनीषु च ।क्लीबं रूप्येऽन्यवच्छुक्ले सन् साधौ धीरशस्तयोः ॥ ६८ ॥
16.2.68 · p. 59
अनुष्टुप्
मान्ये सत्ये विद्यमाने त्रिषु साध्व्युमयोः स्त्रियाम् ।सातिर्दानेऽवसाने स्त्री स्वान्तं चेतसि गह्वरे ॥ ६९ ॥
16.2.69 · p. 59
अनुष्टुप्
स्थितं प्रतिज्ञातवति चोर्ध्वनिश्चलयोस्त्रिषु ।स्थितिः स्त्रियामवस्थाने मर्यादायां च सीमनि ॥ ७० ॥
16.2.70 · p. 59
अनुष्टुप्
सितमवसिते च बद्धे धवले त्रिषु धवलायां स्त्री ।सीता लाङ्गलपद्धतिवैदेहीस्वर्गगङ्गासु ॥ ७१ ॥
16.2.71 · p. 59
उपगीतिःmetre not read in every line
सुतस्तु पार्थिवे पुत्रे स्त्र्यपत्ये तु सुता स्मृता ।सुप्तिः स्पर्शाज्ञतानिद्राविश्रम्भे शयने स्त्रियाम् ॥ ७२ ॥
16.2.72 · p. 59
अनुष्टुप्
सूतस्तु सारथौ तक्ष्णि क्षत्रियाद्ब्राह्मणीसुते ।बन्दिपारदयोः पुंसि प्रसूते प्रेरिते त्रिषु ॥ ७३ ॥
16.2.73 · p. 59
अनुष्टुप्
स्यूतिः सीवनसन्तत्योः स्त्रियां स्यूतः प्रसेवके ।ना त्रिषूते स्मृतिर्धर्मशास्त्रस्मरणयोः स्त्रियाम् ॥ ७४ ॥
16.2.74 · p. 59
अनुष्टुप्
सृतिः स्त्री गमने मार्गे हेतुर्नाऽऽलौ कुमारके ।हस्तः करे करिकरे सप्रकोष्ठकरेऽपि च ॥ ७५ ॥
16.2.75 · p. 59
अनुष्टुप्
ऋक्षे केशात् परो व्राते हितं पथ्ये गते धृते ।हेतिः स्यादायुधज्वालासूर्यतेजःसु योषिति ॥ ७६ ॥
16.2.76 · p. 59
अनुष्टुप्