All kośas › Medinīkośa
नानार्थशब्दकोश or मेदिनीकोश Medinīkośa
2,500 verses · text only, tagging comes next
टान्तवर्गः · टचतुष्कम्
टचतुष्कम्
उच्चिङ्गटस्तृणगडमत्स्ये(२) कोपनपूरुषे ।करहाटः शिफाकन्दे पद्मस्य मदनद्रुमे ॥ ५७ ॥
11.4.57 · p. 37
अनुष्टुप्
स्यात् कार्यपुटः कृपणोन्मत्तानर्थकरेषु च ।कामकूटस्तु वेश्यायाः प्रियविभ्रमयोः पुमान् ॥ ५८ ॥
11.4.58 · p. 37
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 पु (wrong syllable)
कुटन्नटं तु कैवर्ते मुस्तके पुंसि शोणके ।कुण्डकीटस्तु चार्वाकवचनाभिज्ञपूरुषे ॥ ५९ ॥
11.4.59 · p. 38
अनुष्टुप्
पतितब्राह्मणीपुत्रदासीकामुकयोरपि ।खड्गारीटस्तु फलकासिधाराव्रतधारिणोः ॥ ६० ॥
11.4.60 · p. 38
अनुष्टुप्
गाढमुष्टिः कृपाणे ना कृपणे त्वभिधेयवत् ।चक्रवाटः क्रियारोहे पर्य्यन्ते च शिखातरौ ॥ ६१ ॥
11.4.61 · p. 38
अनुष्टुप्
चतुःषष्टिः कलासंख्याभेदयोर्बह्वृचि स्त्रियाम् ।नारकीटोऽश्मकीटे स्यात् स्वदत्ताशाविहन्तरि ॥ ६२ ॥
11.4.62 · p. 38
अनुष्टुप्
परपुष्टः परभृते वानरार्यां तु योषिति ।प्रतिकृष्टं मतं गुह्ये द्विरावृत्त्या च कर्षिते ॥ ६३ ॥
11.4.63 · p. 38
अनुष्टुप्
प्रतिसृष्टः प्रेषिते स्यात् प्रत्याख्याते च वाच्यवत् ।वर्कराटः कटाक्षे स्यात्तरुणादित्यरोचिषि ॥ ६४ ॥
11.4.64 · p. 38
अनुष्टुप्
नारीपयोधरोत्सङ्गकान्तदत्तनखक्षते ।शिपिविष्टस्तु खलतौ शिवे दुश्चर्मणि स्मृतः ॥ ६५ ॥
11.4.65 · p. 38
अनुष्टुप्
अथ श्रुतिकटः प्राञ्चल्लोहेऽहौ पापशोधने ।
11.4.10 · p. 38