कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Medinīkośa

नानार्थशब्दकोश or मेदिनीकोश Medinīkośa

2,500 verses · text only, tagging comes next

नान्तवर्गः · नपञ्चकम्

नपञ्चकम्

अथातिसर्जनं दाने वधेऽपि च नपुंसकम् ॥ १२७ ॥
20.5.127 · p. 99
अपवर्जनन्तु दाने निर्वाणत्यागयोरपि ।अपसर्जनमाम्नाते परिवर्जनदानयोः ॥ १२८ ॥
20.5.128 · p. 99
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र्ज (wrong syllable)
अग्रजन्मा द्विजे ज्येष्ठे भ्रातरि ब्रह्मणि स्मृतः ।अथानुवासनं स्नेहवस्तिधूपनयोरपि ॥ १२९ ॥
20.5.129 · p. 99
अनुष्टुप्
अभिनिष्णानोऽप्यक्षरमात्रे विसर्जनीयेऽपि ।अन्तेवासी शिष्येऽपि स्याच्चण्डाले प्रान्तगेऽपि च ॥ १३० ॥
20.5.130 · p. 100
metre not recognised
स्यादुपस्पर्शनं स्पर्शे स्नानाचमनयोरपि ।उपसम्पन्नमुद्दिष्टं निहते च सुसंस्कृते ॥ १३१ ॥
20.5.131 · p. 100
अनुष्टुप्
कारन्धमी कांस्यकारे धातुवादरतेऽपि च ।कामचारी कामुके स्यात् स्वच्छन्दकलविङ्कयोः ॥ १३२ ॥
20.5.132 · p. 100
अनुष्टुप्
किष्कुपर्वा पुमानिक्षौ वेणौ पोटगलेऽपि च ।कृष्णवर्त्मा पुमानग्नौ दुराचारे विधुन्तुदे ॥ १३३ ॥
20.5.133 · p. 100
अनुष्टुप्
स्याद्गन्धमादनो भृङ्गे गन्धके वानरान्तरे ।स्त्री सुरायां नगे न स्त्री चिरजीवी ककाकयोः ॥ १३४ ॥
20.5.134 · p. 100
अनुष्टुप्
तिक्तपर्वा हिलमोचीगुडूचीयष्टिषु स्त्रियाम् ।दन्तधावनः खदिरे दन्तशुद्धौ नपुंसकम् ॥ १३५ ॥
20.5.135 · p. 100
metre not recognised
स्याद्धूमकेतनः पुंसि केतुग्रहहुताशयोः ।स्यान्नन्दिवर्द्धनोः भर्गे पक्षान्ते तनयेऽपि च ॥ १३६ ॥
20.5.136 · p. 100
अनुष्टुप्
प्रतिपादनन्तु दाने प्रतिपत्तौ च बोधने ।स्यात् पृष्ठहायनो धान्यविशेषे च मतङ्गजे ॥ १३७ ॥
20.5.137 · p. 100
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 द (wrong syllable)
प्रचलाकी मयूरे स्याद् भुजङ्गे चापि दृश्यते ।स्यात् पद्मलाञ्छना लोकेश्वरे ब्रह्मणि भास्करे ॥ १३८ ॥
20.5.138 · p. 100
अनुष्टुप्
धनदे च स्त्रियां तारालक्ष्मीवाग्देवतासु च ।पीतचन्दनमुद्दिष्टं कालीयकहरिद्रयोः ॥ १३९ ॥
20.5.139 · p. 100
अनुष्टुप्
पृष्ठशृङ्गी पुमान् दंशभीरौ षण्डे वृकोदरे ।वरचन्दनमाख्यातं कालीये देवदारुणि ॥ १४० ॥
20.5.140 · p. 100
अनुष्टुप्
वरवर्णिनी तु लाक्षाहरिद्रारोचनासु च ।स्त्रीरत्ने च फलिन्याञ्च साधीयस्यामपि स्त्रियाम् ॥ १४१ ॥
20.5.141 · p. 100
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र्णि (wrong syllable)
मधुसूदनस्तु पुंसि स्याद्भ्रमरे वनमालिनि ।महारजनमुद्दिष्टं शातकुम्भकुसुम्भयोः ॥ १४२ ॥
20.5.142 · p. 100
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
स्यान्मृत्युवञ्चनः शम्भौ श्रीफलद्रोणकाकयोः ।वनमाली च गोविन्दे वाराह्यां वनमालिनी ॥ १४३ ॥
20.5.143 · p. 100
अनुष्टुप्
विषायी स्यात् पुमान् राज्ञि वैषयिकजनेऽपि च ।इन्द्रिये कामदेवे च विषयासक्तपूरुषे ॥ १४४ ॥
20.5.144 · p. 101
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 ष (wrong syllable)
विश्वकर्मा सहस्रांशौ मुनिभिद्देवशिल्पिनोः ।विघ्नकारी स्मृतो घोरदर्शनेऽपि विघातिनि ॥ १४५ ॥
20.5.145 · p. 101
अनुष्टुप्
वृषपर्वा पुमान् दैत्यभेदेऽप्यन्धकसूदने ।व्योमचारी तु निर्दिष्टो देवतायां विहङ्गमे ॥ १४६ ॥
20.5.146 · p. 101
अनुष्टुप्
शकुलादनी स्त्रियां कृष्णभेदीकटुकशाकयोः ।शालङ्कायन उद्दिष्टो मुनिभेदे च नन्दिनि ॥ १४७ ॥
20.5.147 · p. 101
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शिवकीर्त्तनस्तु पुंसि (स्याद्) भृङ्गरीटेऽसुरद्विषि ।श्वेतवाहन इत्येष सुधाधाम्नि धनञ्जये ॥ १४८ ॥
20.5.148 · p. 101
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र्त्त (wrong syllable)
श्वेतधामा पुमानिन्दौ घनसाराब्धिफेनयोः ।स्यात् षष्टिहायनो धान्यविशेषे कुञ्जरे पुमान् ॥ १४९ ॥
20.5.149 · p. 101
अनुष्टुप्
सम्प्रयोगी कलाकेलौ कामुके सम्प्रयोजके ।हरिचन्दनमस्त्री स्याद् देवतानां महीरुहे ॥ १५० ॥
20.5.150 · p. 101
अनुष्टुप्
नपुंसकन्तु गोशीर्षे ज्योत्स्नाकुङ्कमयोरपि ।हरिवाहनस्तु पुंसि स्यात् शचीपतिविवस्वतोः ॥ १५१ ॥
20.5.151 · p. 101
अनुष्टुप्metre not read in every linenearly अनुष्टुप्