All kośas › Medinīkośa
नानार्थशब्दकोश or मेदिनीकोश Medinīkośa
2,500 verses · text only, tagging comes next
लान्तवर्गः · लपञ्चकम्
लपञ्चकम्
आसुतीवल आख्यातः कन्यापालकयज्वनोः ॥ १६८ ॥
28.5.168 · p. 157
उद्दण्डपालः पुंसि स्यात् सर्पमत्स्यप्रभेदयोः ।एककुण्डल आख्यातो बलभद्रे धनाधिपे ॥ १६९ ॥
28.5.169 · p. 157
अनुष्टुप्
कृपीटपाल उद्दिष्टः केनिपातसमुद्रयोः ।स्यात् पाण्डुकम्बलः श्वेतप्रावारग्रावभेदयोः ॥ १७० ॥
28.5.170 · p. 157
अनुष्टुप्
भवेत् सुरतवाली तु दूतिकायां शिरःस्रजि ।
28.5.4 · p. 157