All kośas › Medinīkośa
नानार्थशब्दकोश or मेदिनीकोश Medinīkośa
2,500 verses · text only, tagging comes next
पान्तवर्गः · पत्रिकम्
पत्रिकम्
अनूपो महिषे नाऽम्बुप्रायदेशे तु वाच्यवत् ।अस्रपा तु जलौकायां डाकिन्यां राक्षसे तु ना ॥ १३ ॥
21.3.13 · p. 102
अनुष्टुप्
आवापो भाण्डे वपने परिक्षेपालवालयोः ।आक्षेपो भर्त्सनाकृष्टिकाव्यालङ्कृतिषु स्मृतः ॥ १४ ॥
21.3.14 · p. 102
अनुष्टुप्
काकल्पः कल्पने वेशे उडुपन्तु प्लवेऽस्त्रियाम् ।चन्द्रे पुंस्युलपो न स्त्री गुल्मिन्यां ना तृणान्तरे ॥ १५ ॥
21.3.15 · p. 103
अनुष्टुप्
कच्छपी वल्लकीभेदे दुलौ क्षुद्रगदान्तरे ।पुंसि निध्यन्तरे कूर्मे मल्लबन्धान्तरेऽपि च ॥ १६ ॥
21.3.16 · p. 103
अनुष्टुप्
कलापः संहतौ बर्हे काञ्च्यां भूषणतूणयोः ।चन्द्रे विदग्धे व्याकरणभेदेऽपि कथ्यते बुधैः ॥ १७ ॥
21.3.17 · p. 103
अनुष्टुप्metre not read in every line
कशिपुर्भक्ताच्छादनयोरेकोक्त्या पृथक् तयोः पुंसि ।कश्यप उक्तो मुनिमृगयोर्भेदे काश्यपी क्ष्मायाम् ॥ १८ ॥
21.3.18 · p. 103
आर्या
कुतपोऽस्त्रियां दौहित्रे वाद्ये छागजकम्बले ।कुशे दिनस्याष्टमांशे ना सूर्य्ये कुणपी पुनः ॥ १९ ॥
21.3.19 · p. 103
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 यां (wrong syllable)
विट्शारिकायां कुणपः पूतिगन्धौ शवेऽपि च ।जिह्वापः शुनि मार्जारे प्रतापस्तापतेजसोः ॥ २० ॥
21.3.20 · p. 103
अनुष्टुप्
पादपः पादपीठेऽद्रौ पादुकायान्तु पादपा ।रक्तपा स्याज्जलौकायां डाकिन्यां ना तु राक्षसे ॥ २१ ॥
21.3.21 · p. 103
अनुष्टुप्
विटपो न स्त्रियां स्तम्बशाखाविस्तारपल्लवे ।विटाधिपे ना विकल्पः पुंसि भ्रान्तौ च कल्पने ॥ २२ ॥
21.3.22 · p. 103
अनुष्टुप्