All kośas › Medinīkośa
नानार्थशब्दकोश or मेदिनीकोश Medinīkośa
2,500 verses · text only, tagging comes next
अव्ययानि · मद्विकम्
मद्विकम्
अमाऽन्तिकसहार्थयोः ।आम् ज्ञाननिश्चयस्मृत्योरुम् रोषेऽङ्गीकृतावपि ॥ ५० ॥
34.40.50 · p. 182
अनुष्टुप्metre not read in every line
प्रश्नेऽपि स्यादूम् रुषोक्तौ पृच्छायामोमुपक्रमे ।प्रणवे चाभ्युपगमे चापाकृतौ च मङ्गले ॥ ५१ ॥
34.40.51 · p. 182
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 कृ (wrong syllable)
कम् पादपूरणे तोये मस्तके च सुखेऽपि च ।किम् कुत्सायां वितर्के च निषेधप्रश्नयोरपि ॥ ५२ ॥
34.40.52 · p. 183
अनुष्टुप्
किमु सम्भावना स्याद्विमर्शे चापि दृश्यते ।नाम कोपेऽम्युपगमे विस्मये स्मरणेऽपि च ॥ ५३ ॥
34.40.53 · p. 183
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
सम्भाव्यकुत्साप्राकाश्यविकल्पेऽपि च दृश्यते ।सम् कल्याणे सुखे सन्तु शोभनार्थसमार्थयोः ॥ ५४ ॥
34.40.54 · p. 183
अनुष्टुप्
सङ्गार्थे च प्रहृष्टार्थे सामि निन्द्रार्द्धयोर्मतम् ।हम् रुषोक्तावनुनये हुम् स्मृतावप्यपाकृतौ ॥ ५५ ॥
34.40.55 · p. 183
अनुष्टुप्
अनुप्रश्नेऽभ्यनुज्ञायां हूम् स्यात् प्रश्नवितर्कयोः ।
34.40.7 · p. 183