कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Medinīkośa

नानार्थशब्दकोश or मेदिनीकोश Medinīkośa

2,500 verses · text only, tagging comes next

डान्तवर्गः · डत्रिकम्

डत्रिकम्

करण्डो मधुकोशासिकारण्डेषु दलाढके ।कुष्माण्ड्युमायां स्त्री पुंसि कर्कारौ च गणान्तरे ॥ २७ ॥
13.3.27 · p. 42
अनुष्टुप्
भ्रूणान्तरेऽथ कोदण्डं चापे ना नीवृदन्तरे ।भ्रुव्यथो गरुडं क्ष्वेडमन्त्रे मरकतेऽपि च ॥ २८ ॥
13.3.28 · p. 42
अनुष्टुप्
तरण्डो बडिशीसूत्रबद्धकोष्ठादिके प्लवे ।नौकायामपि न स्त्री स्यात्तिन्तिडीडिम्बचिञ्चयोः ॥ २९ ॥
13.3.29 · p. 42
अनुष्टुप्
द्राविडो देशभिज्जाते संख्याभिद्वेधमुख्ययोः ।निर्गुण्डी नीलशेफाल्यां सिन्धुवारद्रुमेऽपि च ॥ ३० ॥
13.3.30 · p. 42
अनुष्टुप्
प्रचण्डो दुर्वहे श्वेतकरवीरे प्रतापिनि ।प्रकाण्डो न स्त्री विटपे मूलशाखान्तरे तरोः ॥ ३१ ॥
13.3.31 · p. 42
अनुष्टुप्
शस्ते पिचण्ड उदरे पशोरवयवे पुमान् ।पूत्यण्डो गन्धकीटेऽपि तथा जन्त्वन्तरे पुमान् ॥ ३२ ॥
13.3.32 · p. 42
अनुष्टुप्
वरण्डोऽप्यन्तरावेदौ समूहमुखरोगयोः ।वारुण्डी द्वारपिण्ड्यां स्त्री फणिनां राजके पुमान् ॥ ३३ ॥
13.3.33 · p. 43
अनुष्टुप्
न स्त्रियां सेकपात्रे च मलेऽक्ष्णः श्रवणस्य च ।भेरुण्डा देवताभेदयक्षिण्यन्तरयोः स्त्रियाम् ॥ ३४ ॥
13.3.34 · p. 43
अनुष्टुप्
भयानके वाच्यवत्स्यान्मार्त्तण्डः क्रोडसूर्ययोः ।मारुण्डोऽण्डे भुजङ्गीनां मार्गे गोमयमण्डले ॥ ३५ ॥
13.3.35 · p. 43
अनुष्टुप्
वरण्डा सारिकावर्त्तिशस्त्रभेदे च योषिति ।वितण्डा वादभेदे स्यात् कच्चीशाके शिलाह्वये ॥ ३६ ॥
13.3.36 · p. 43
अनुष्टुप्
करवीर्यामपि स्त्री स्याच्छिखण्डो बर्हचूडयोः ।(१)शरण्डस्तु पुमान् धूर्ते शरटे भूषणान्तरे ॥ ३७ ॥
13.3.37 · p. 43
अनुष्टुप्