All kośas › Medinīkośa
नानार्थशब्दकोश or मेदिनीकोश Medinīkośa
2,500 verses · text only, tagging comes next
यान्तवर्गः · यैकम्
इति मान्तवर्गः ।
यैकम्
यो ना वायौ यमने या यात्राप्तिधूमितत्यागेषु ।वारणयोगसमज्ञायानेषु पुमांस्तु गन्तरि विख्यातः ॥ १ ॥
26.1.1 · p. 113
metre not recognised
ज्या मातरि वसुधायां मौर्व्यां द्यु क्लीबमह्नि गमने च ।ना ज्वलने द्यौस्त्रिदशालयत्रिदशवर्त्मनोर्योषित् ॥ २ ॥
26.1.2 · p. 113
आर्या