कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Medinīkośa

नानार्थशब्दकोश or मेदिनीकोश Medinīkośa

2,500 verses · text only, tagging comes next

अव्ययानि · सत्रिकम्

सत्रिकम्

अञ्जसाशब्द आख्यातस्तत्त्वतूर्णार्थयोरपि ॥ ८१ ॥
34.55.81 · p. 185
तिरोऽन्तर्द्धौ तिर्यगर्थे नीचैः स्वैराल्पयोर्मतम् ।पुरोऽग्रे प्रथमे भूयोऽधिकारे च पुनः पुनः ॥ ८२ ॥
34.55.82 · p. 185
अनुष्टुप्
मिथोऽन्योन्ये रहोऽर्थे च शनैः स्वैरे शनैश्चरे ।
34.55.3 · p. 186