कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Medinīkośa

नानार्थशब्दकोश or मेदिनीकोश Medinīkośa

2,500 verses · text only, tagging comes next

यान्तवर्गः · यत्रिकम्

यत्रिकम्

अनयस्तु विपद्दैवाशुभयोर्व्यसनेषु च ।अत्ययाऽतिक्रमे दण्डे विनाशे दोषकृच्छ्रयोः ॥ ६७ ॥
26.3.67 · p. 117
अनुष्टुप्
अश्वीयमश्वसङ्घाते क्लीबमश्वहितेऽन्यवत् ।अधृष्या तटिनीभेदे प्रगल्भे वाच्यलिङ्गकः ॥ ६८ ॥
26.3.68 · p. 117
अनुष्टुप्
अभिख्या त्वभिधाने स्यात् शोभायाञ्च यशस्यपि ।अभया तु हरीतक्यामुशीरे तु नपुंसकम् ॥ ६९ ॥
26.3.69 · p. 117
अनुष्टुप्
निर्भये वाच्यलिङ्गं स्यादपत्यं पुत्रयोर्मतम् ।अगस्त्यः स्यात् कुम्भयोनौ वङ्गसेनतरावपि ॥ ७० ॥
26.3.70 · p. 118
अनुष्टुप्
अवध्यमवधार्हे स्यादनर्थकवचस्यपि ।अव्ययोऽस्त्री शब्दभेदे ना विष्णौ निर्व्यये त्रिषु ॥ ७१ ॥
26.3.71 · p. 118
अनुष्टुप्
अहल्या त्वप्सरोभेदे भार्य्यायां गौतमस्य च ।अहार्य्यः पर्वते ना स्यादहर्त्तव्ये तु वाच्यवत् ॥ ७२ ॥
26.3.72 · p. 118
अनुष्टुप्
आशयः स्यादभिप्राये पनसाधारयोरपि ।स्यादातिथ्यमतिथ्यर्थ्ये त्रिलिङ्गमतिथौ पुमान् ॥ ७३ ॥
26.3.73 · p. 118
अनुष्टुप्
आत्रेयी पुष्पवत्यां स्यात् नदीभेदे च ना मुनौ ।आदित्यो भास्करे देवेऽप्याम्नायो निगमेऽपि च ॥ ७४ ॥
26.3.74 · p. 118
अनुष्टुप्
उपदेशेऽपीन्द्रियन्तु हृषीके चेतसि स्मृतम् ।उदयस्तु पुमान् पूर्वपर्वते च समुन्नतौ ॥ ७५ ॥
26.3.75 · p. 118
अनुष्टुप्
उपायः सामभेदादौ तथैवोपगतौ पुमान् ।ऊर्णायुर्ना क्षणभङ्गे मेषकम्बलमेषयोः ॥ ७६ ॥
26.3.76 · p. 118
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ण (wrong syllable)
औचित्यमुचितत्वे स्यात् सत्येऽपि च नपुंसकम् ।कषायो रसभेदेऽपि निर्य्यासे च विलेपने ॥ ७७ ॥
26.3.77 · p. 118
अनुष्टुप्
अङ्गरागे च न स्त्री स्यात् सुरभौ लोहिते त्रिषु ।कालेयो दैत्यभेदे स्यात् कालखण्डे नपुंसकम् ॥ ७८ ॥
26.3.78 · p. 118
अनुष्टुप्
क्षिपण्युस्तु पुमान् देहे सुरभौ वाच्यलिङ्गकः ।कुलायस्तु पुमान् स्थानमात्रे स्यात् पक्षिवासके ॥ ७९ ॥
26.3.79 · p. 118
अनुष्टुप्
क्षेत्रियं क्षेत्रजतृणे परदेहचिकित्सयोः ।परदाररतासाध्यरोगयोः क्षेत्रियः पुमान् ॥ ८० ॥
26.3.80 · p. 118
अनुष्टुप्
कौकृत्यमनुतापे स्यादयुक्तकरणेऽपि च ।गाङ्गेयः स्यात् पुमान् भीष्मे क्लीबं स्वर्णकशेरुणोः ॥ ८१ ॥
26.3.81 · p. 118
अनुष्टुप्
चक्षुष्यः केतके पुण्डरीकसंज्ञकपादपे ।कुलत्थिकासुभगयोः स्त्रियामक्षिहितेऽन्यवत् ॥ ८२ ॥
26.3.82 · p. 118
अनुष्टुप्
चाम्पेयश्चम्पके स्वर्णे किञ्जल्के नागकेशरे ।जघन्यं मेहने क्लीबं चरमे गर्हितेऽन्यवत् ॥ ८३ ॥
26.3.83 · p. 118
अनुष्टुप्
जटायुः पुंसि सम्पातेः कनीयसि च गुग्गुलौ ।जरायुरपि तत्पक्षिराजे गर्भाशये पुमान् ॥ ८४ ॥
26.3.84 · p. 119
अनुष्टुप्
तपस्या व्रतचर्य्यायां तपस्यः फाल्गुने पुमान् ।द्वितीया तिथिभित्पत्न्योः पूरणे तूभयोस्त्रिषु ॥ ८५ ॥
26.3.85 · p. 119
अनुष्टुप्
देवयुर्वाच्यलिङ्गः स्याद्धार्मिके लोकयात्रिके ।नादेयो नागरङ्गे स्याज्जयायामम्बुवेतसे ॥ ८६ ॥
26.3.86 · p. 119
अनुष्टुप्
भूमिजम्ब्बां जवायाञ्च व्यङ्गुष्ठेऽपि च योषिति ।निकायस्तु पुमान् लक्ष्ये सधर्मिप्राणिसंहतौ ॥ ८७ ॥
26.3.87 · p. 119
अनुष्टुप्
समुच्चये संहतानां निलये परमात्मनि ।नेपथ्यं स्यादलङ्कारे रङ्गज्यायां नपुंसकम् ॥ ८८ ॥
26.3.88 · p. 119
अनुष्टुप्
प्रणयः प्रश्रये प्रेम्णि याञ्चाविश्रम्भयोरपि ।निर्वाणेऽप्यथ पर्य्यायः प्रकारेऽवसरे क्रमे ॥ ८९ ॥
26.3.89 · p. 119
अनुष्टुप्
प्रलयो मृत्युकल्पान्तमूर्च्छापायेषु पुंस्ययम् ।प्रत्ययः प्रथितत्वे च मत्वादिज्ञानयोरपि ॥ ९० ॥
26.3.90 · p. 119
अनुष्टुप्
आचारे शपथे रन्ध्रविश्वासाधीनहेतुषु ।पर्ज्जन्यो मेघशब्देऽपि ध्वनदम्बुदशक्रयोः ॥ ९१ ॥
26.3.91 · p. 119
अनुष्टुप्
प्रसव्यं वाच्यलिङ्गं स्यात् प्रतिकूलानुकूलयोः ।प्रकीर्य्यः पूतिकरजे विनिकीर्य्यं तु वाच्यवत् ॥ ९२ ॥
26.3.92 · p. 119
अनुष्टुप्
प्रणाय्योऽसम्मतेऽपि स्यादभिलाषविवर्जिते ।पयस्यन्तु पयोजातहितयोर्वाच्यलिङ्गकम् ॥ ९३ ॥
26.3.93 · p. 119
अनुष्टुप्
दुग्धिकाक्षीरकाकोल्योः स्वर्णक्षीर्य्यामपि स्त्रियाम् ।पारुष्यं परुषत्वे च दुर्वाक्ये पुंसि गीष्पतौ ॥ ९४ ॥
26.3.94 · p. 119
अनुष्टुप्
पानीयन्तु जले क्लीबं पातव्ये वाच्यलिङ्गकम् ।पौलस्त्यस्तु कुबेरे स्याद् दशग्रीवेऽपि पुंस्ययम् ॥ ९५ ॥
26.3.95 · p. 119
अनुष्टुप्
वलयः कण्ठरोगे ना कटके पुन्नपुंसकम् ।ब्रह्मण्यः स्याद्ब्रह्मसाधुब्रह्मदारुशनैश्चरे ॥ ९६ ॥
26.3.96 · p. 119
अनुष्टुप्
बालेयो गर्दभे पुंसि मृदौ बालहिते त्रिषु ।ब्राह्मण्यं ब्राह्मणत्वे च समूहे च द्विजन्मनाम् ॥ ९७ ॥
26.3.97 · p. 119
अनुष्टुप्
भुवन्युः स्यात् पुमान् भानौ ज्वलने शशलाञ्छने ।भुजिष्यस्तु स्वतन्त्रे च हस्तसूत्रकदासयोः ॥ ९८ ॥
26.3.98 · p. 120
अनुष्टुप्
स्त्रियां दासीगणिकयोर्मलयः पर्वतान्तरे ।शैलांशे देश आरामे त्रिवृतायान्तु योषिति ॥ ९९ ॥
26.3.99 · p. 120
अनुष्टुप्
मङ्गल्यः स्यात् त्रायमाणाश्वत्थबिल्वमसूरके ।स्त्रियां शम्यामधःपुष्पीमिसीशुक्लवचासु च ॥ १०० ॥
26.3.100 · p. 120
अनुष्टुप्
रोचनायामथो दध्नि क्लीबं शिवकरे त्रिषु ।मृगयुः पुंसि गोमायौ व्याधे च परमेष्ठिनि ॥ १०१ ॥
26.3.101 · p. 120
अनुष्टुप्
रहस्या स्त्री नदीभेदे गोपनीयेऽभिधेयवत् ।लौहित्यं लोहितत्वे च क्लीबं पुंसि नदान्तरे ॥ १०२ ॥
26.3.102 · p. 120
अनुष्टुप्
वदान्यो दानशौण्डे च चारुवादिनि वाच्यवत् ।व्यवायः सुरतेऽन्तर्द्धौ पुंसि क्लीबन्तु तेजसि ॥ १०३ ॥
26.3.103 · p. 120
अनुष्टुप्
वक्तव्यं कुत्सिते हीने वचनार्हे तु वाच्यवत् ।विजयः स्याज्जये पार्थे स्त्रियां तिथ्यन्तरे स्मृता ॥ १०४ ॥
26.3.104 · p. 120
अनुष्टुप्
उमासख्यां विस्मयः स्यादाश्चर्य्यगर्वयोः पुमान् ।विनया तु बलायां स्त्री शिक्षायां प्रणतौ पुमान् ॥ १०५ ॥
26.3.105 · p. 120
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्य्य (wrong syllable)
विषये गोचरे देशे तथा जनपदेऽपि च ।प्रबन्धाद्यस्य यो ज्ञातस्तत्र रूपादिके पुमान् ॥ १०६ ॥
26.3.106 · p. 120
अनुष्टुप्
विशल्योऽग्निशिखादन्तीगुडूचीत्रिपुटासु च ।श्वशुर्य्यो देवरे श्याले शाण्डिल्यः पावकान्तरे ॥ १०७ ॥
26.3.107 · p. 120
अनुष्टुप्
मुनिभेदे च मालूरे शालेयः स्यान्मिसौ पुमान् ।त्रिषु शाल्युद्भवे क्षेत्रे स्यात् शीर्षण्यन्तु शीर्षके ॥ १०८ ॥
26.3.108 · p. 120
अनुष्टुप्
सुकेशे पुंसि शैलेयं तालपर्ण्याञ्च सैन्धवे ।शैलजे ना तु मधुपे शिलातुल्येऽन्यलिङ्गकम् ॥ १०९ ॥
26.3.109 · p. 120
अनुष्टुप्
संस्त्यायः सन्निवेशे च संस्थाने विस्तृतावपि ।सन्नयः समचाये स्यात् पृष्ठस्थायिबले पुमान् ॥ ११० ॥
26.3.110 · p. 120
अनुष्टुप्
समयः शपथाचारसिद्धान्तेषु तथा धियि ।क्रियाकारे च निर्देशे सङ्केते कालभाषयोः ॥ १११ ॥
26.3.111 · p. 120
अनुष्टुप्
सरण्युस्तु पुमान् वारिवाहे स्यान्मातरिश्वनि ।सामर्थ्यं योग्यतायां स्याच्छक्तावपि नपुंसकम् ॥ ११२ ॥
26.3.112 · p. 121
अनुष्टुप्
सौरभ्यन्तु मनेाज्ञत्वे सौगन्धे गुणगौरवे ।सौभाग्यं सुभगत्वे स्याद् योगभेदे नपुंसकम् ॥ ११३ ॥
26.3.113 · p. 121
अनुष्टुप्metre not read in every lineimpossible sign sequence: भ्यन्तु मनेाज्ञत्वnearly अनुष्टुप्
हिरण्यं रेतसि द्रव्ये शातकुम्भवराटयोः ।अक्षये मानभेदे स्यदकुप्ये च नपुंसकम् ॥ ११४ ॥
26.3.114 · p. 121
अनुष्टुप्
हृदयं मानसे वुक्कोरसोरपि नपुंसकम् ।
26.3.49 · p. 121