All kośas › Medinīkośa
नानार्थशब्दकोश or मेदिनीकोश Medinīkośa
2,500 verses · text only, tagging comes next
थान्तवर्गः · थचतुष्कम्
थचतुष्कम्
अनीकस्थो रणगते हस्तिशिक्षाविचक्षणे ।राजरक्षिणि चिह्ने च वीरमर्दनकेऽपि च ॥ २६ ॥
17.4.26 · p. 74
अनुष्टुप्
भवेदितिकथाऽपार्थवाच्यश्रद्धेयनष्टयोः ।चतुष्पथं चतुर्मार्गे सङ्गमे ब्राह्मणेऽपि ना ॥ २७ ॥
17.4.27 · p. 74
अनुष्टुप्
अथ चित्ररथः सूर्यगन्धर्वान्तरयोः पुमान् ।दशमीस्थो नष्टवीर्ये स्थविरेऽप्यन्यलिङ्गकः ॥ २८ ॥
17.4.28 · p. 74
अनुष्टुप्
प्राणनाथो यमे ना स्यादिष्टे प्राणाधिके मतः ।वानप्रस्थो मधूकेऽपि स्यात् तृतीयाश्रमे पुमान् ॥ २९ ॥
17.4.29 · p. 74
अनुष्टुप्
भवेदुदरथिः पुंसि समुद्रे च वियन्मणौ ।
17.4.5 · p. 74