All kośas › Medinīkośa
नानार्थशब्दकोश or मेदिनीकोश Medinīkośa
2,500 verses · text only, tagging comes next
अव्ययानि · तद्विकम्
तद्विकम्
अतिशब्दः प्रशंसायां प्रकर्षे लङ्घनेऽपि च ।नितान्तासम्प्रतिक्षेपवाचकोऽप्येष दर्शितः ॥ २० ॥
34.28.20 · p. 180
अनुष्टुप्
अस्तु स्यादभ्यनुज्ञानेऽप्यसूयापीडयोरपि ।प्रतिक्षेपे प्रशंसायां प्रकर्षे लक्षणेऽपि च ॥ २१ ॥
34.28.21 · p. 180
अनुष्टुप्
असम्प्रत्यर्थ उद्दिष्टमिति हेतौ प्रकाशने ।निदर्शने प्रकारे स्यात् परकृत्यनुकर्षयोः ॥ २२ ॥
34.28.22 · p. 180
अनुष्टुप्
समाप्तौ च प्रकरणेऽप्युताऽत्यर्थविकल्पयोः ।समुच्चये वितर्के च प्रश्ने च पादपूरणे ॥ २३ ॥
34.28.23 · p. 180
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
उत् स्यात् प्रश्ने वितर्के च चेत् कुत्सितप्रशंसयोः ।पक्षान्तरेऽप्यसाकल्ये जातुशब्दो विगर्हणे ॥ २४ ॥
34.28.24 · p. 180
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त्सि (wrong syllable)
कदाचिदर्थेऽपि तथा नेत् विकल्पनिषेधयोः ।प्रति प्रतिनिधावित्थम्भूताख्यानाभिमुख्ययोः ॥ २५ ॥
34.28.25 · p. 180
अनुष्टुप्
मात्रार्थभागवीप्सासु लक्षणप्रतिदानयोः ।बतामन्त्रणसन्तोषखेदानुक्रोशविस्मये ॥ २६ ॥
34.28.26 · p. 180
अनुष्टुप्
स्वस्ति स्यान्मङ्गले पुण्येऽप्याशंसायामपि क्वचित् ।स्वित् प्रश्ने च वितर्के च तथैव पादपूरणे ॥ २७ ॥
34.28.27 · p. 180
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)
हन्त वाक्यारम्भखेदविषादहर्षसम्भ्रमे ।
34.28.9 · p. 180