कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Medinīkośa

नानार्थशब्दकोश or मेदिनीकोश Medinīkośa

2,500 verses · text only, tagging comes next

षान्तवर्गः · षचतुष्कम्

षचतुष्कम्

अनुकर्षो रथाधःस्थदारुण्यप्यनुकर्षणे ।अम्बरीषं रणे भ्राष्ट्रे क्लीबं पुंसि नृपान्तरे ॥ ४८ ॥
31.4.48 · p. 169
अनुष्टुप्
नरकस्य प्रभेदे च किशोरे भास्करेऽपि च ।आम्रातकेऽनुतापे चानिमेषो मत्स्यदेवयोः ॥ ४९ ॥
31.4.49 · p. 169
अनुष्टुप्
अनुतर्षः सुरापानपात्रे तृष्णाभिलाषयोः ।अहिद्विड्गरुडे शक्रे मयूरे नकुले पुमान् ॥ ५० ॥
31.4.50 · p. 169
अनुष्टुप्
अलम्बुषः प्रहस्ते च छर्दने राक्षासान्तरे ।अलम्बुषा तु मुण्डीर्य्यां स्वर्गवाराङ्गनान्तरे ॥ ५१ ॥
31.4.51 · p. 169
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 क्षा (wrong syllable)
अथ किम्पुरुषो लोकभेदकिन्नरयोः पुमान् ।देववृक्षः सप्तपर्णीमन्दारादिषु गुग्गुली ॥ ५२ ॥
31.4.52 · p. 169
अनुष्टुप्
नन्दिघोषोऽर्जुनरथे घोषे बन्दिजनस्य च ।परिवेषस्तु पुंलिङ्गः परिधौ परिवेषणे ॥ ५३ ॥
31.4.53 · p. 169
अनुष्टुप्
परिघोषो निनादे स्यादवाच्ये जलदध्वनौ ।पलङ्कषा गोक्षुरके रास्नागुग्गुलुकिंशुके ॥ ५४ ॥
31.4.54 · p. 169
अनुष्टुप्
मुण्डीरीलाक्षयोश्च स्त्री राक्षसे तु पलङ्कषः ।वीरवृक्षो भल्लातकककुभद्रुमयोः पुमान् ॥ ५५ ॥
31.4.55 · p. 169
अनुष्टुप्metre not read in every line
भूतवृक्षस्तु शाखेटद्रुमे श्योनाकपादपे ।महाघोषा तु कर्कटशृङ्ग्या पुंस्यतिघोषणे ॥ ५६ ॥
31.4.56 · p. 169
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 र्क (wrong syllable)
क्लीबं हट्टे राजवृक्षः सुवर्णाकपियालयोः ।वातरूषस्तु वातूलोत्कचयोः शक्रकार्मुके ॥ ५७ ॥
31.4.57 · p. 169
अनुष्टुप्
(१)विशालाक्षो हरे तार्क्ष्ये ना सुनेत्रेऽभिधेयवत् ।सकटाक्षो वराक्षे ना कटाक्षसहिते त्रिषु ॥ ५८ ॥
31.4.58 · p. 169
अनुष्टुप्