कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Medinīkośa

नानार्थशब्दकोश or मेदिनीकोश Medinīkośa

2,500 verses · text only, tagging comes next

ञान्तवर्गः · ञद्विकम्

ञद्विकम्

ज्ञो ब्रह्मबुधविद्वत्सु स्यादज्ञो जडमूर्खयोः ॥ १ ॥
10.2.1 · p. 33
प्रज्ञस्तु पण्डिते वाच्यलिङ्गो बुद्धौ च योषिति ।राज्ञी राजप्रियायां च भार्यायां भास्करस्य च ॥ २ ॥
10.2.2 · p. 33
अनुष्टुप्
संज्ञा नामनि गायत्र्यां चेतनारवियोषितोः ।अर्थस्य सूचनायां च हस्ताद्यैरपि योषिति ॥ ३ ॥
10.2.3 · p. 33
अनुष्टुप्