कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Medinīkośa

नानार्थशब्दकोश or मेदिनीकोश Medinīkośa

2,500 verses · text only, tagging comes next

रान्तवर्गः · रत्रिकम् (2/2)

शार्करः स्याद्दुग्धफेनशर्करान्वितदेशयोः ।शाङ्करस्तु बलीवर्दे छन्दोभेदे नपुंसकम् ॥ २२३ ॥
27.3.223 · p. 138
अनुष्टुप्
शार्वरन्त्वन्धतमसे घातुके भेद्यलिङ्गकम् ।शालारं स्याद्धस्तिनखे सोपने पक्षिपञ्जरे ॥ २२४ ॥
27.3.224 · p. 138
अनुष्टुप्
शावरी शूकशिम्ब्यां स्यात् पुंसि पापापराधयोः ।लोध्रे च शाङ्करिः पुंसि कार्त्तिकेये गणाधिपे ॥ २२५ ॥
27.3.225 · p. 139
अनुष्टुप्
शिखरोऽस्त्री द्रुमाग्रेऽद्रिशृङ्गे पुलककक्षयोः ।पक्वदाडिमबीजाभमाणिक्यशकलाऽग्रयोः ॥ २२६ ॥
27.3.226 · p. 139
अनुष्टुप्
शिशिरो ना हिमे न स्त्री ऋतुभेदे जडे त्रिषु ।शिलीन्द्रं कन्दलीपुष्पे करके ना झषान्तरे ॥ २२७ ॥
27.3.227 · p. 139
अनुष्टुप्
द्रुभेदे स्त्री तु विहगीभेदे गण्डूपदीमृदोः ।शीकरं शरले वातसृताम्बुकणयोः पुमान् ॥ २२८ ॥
27.3.228 · p. 139
अनुष्टुप्
शुषिरं वंश्यादिवाद्ये विवरे च नपुंसकम् ।मूषिके ना स्त्रियां नल्योषधौ रन्ध्रान्विते त्रिषु ॥ २२९ ॥
27.3.229 · p. 139
अनुष्टुप्
शृङ्गारः सुरते नाट्यरसे च गजमण्डने ।नपुंसकं लवङ्गेऽपि नागसम्भवचूर्णयोः ॥ २३० ॥
27.3.230 · p. 139
अनुष्टुप्
शम्बरो दैत्यहरिणमत्स्यशैलजिनान्तरे ।नपुंसकन्तु सलिलबौद्धव्रतविशेषयोः ॥ २३१ ॥
27.3.231 · p. 139
अनुष्टुप्
सङ्कारोऽग्निचटत्कारे सम्मार्जन्यवपुञ्जिते ।नवदूषितकन्यायां सङ्कारी पुनरुच्यते ॥ २३२ ॥
27.3.232 · p. 139
अनुष्टुप्
संस्कारः प्रतियत्नेऽनुभवे मानसकर्मणि ।संस्तरः प्रस्तरे यज्ञे सङ्गरो युधि चापदि ॥ २३३ ॥
27.3.233 · p. 139
अनुष्टुप्
क्रियाकारे विषे चाङ्गीकारे क्लीबं शमीफले ।सम्भारः सम्भृतौ सङ्घे सामुद्रं देहलक्षणे ॥ २३४ ॥
27.3.234 · p. 139
अनुष्टुप्
समुद्रजेऽन्यलिङ्गोऽथ सावित्रः शङ्करे वसौ ।सावित्री सत्यवत्पत्न्यां ब्रह्मपत्न्युमयोरिपि ॥ २३५ ॥
27.3.235 · p. 139
अनुष्टुप्
सिन्दूरस्तरुभेदे स्यात् सिन्दूरं रक्तचूर्णके ।सिन्दूरी रोचनारक्तचेलिकाधातकीषु च ॥ २३६ ॥
27.3.236 · p. 139
अनुष्टुप्
सुनारस्तु शुनीस्तन्ये सर्पाण्डकलविङ्कयोः ।सुन्दरी तरुभिन्नारीभिदोः स्त्री रुचिरेऽन्यवत् ॥ २३७ ॥
27.3.237 · p. 139
अनुष्टुप्
सैरन्ध्री परवेश्मस्थशिल्पकृत्स्ववशस्त्रियाम् ।वर्णसङ्करसम्भूतस्त्रीमहल्लिकयोरपि ॥ २३८ ॥
27.3.238 · p. 139
अनुष्टुप्
सौवीरं काञ्जिके स्रोतेाऽञ्जने च बदरीफले ।ना तु नीवृति हारिद्रं हरिद्रारञ्जिते त्रिषु ॥ २३९ ॥
27.3.239 · p. 140
अनुष्टुप्metre not read in every lineimpossible sign sequence: जिके स्रोतेाऽञ्जनेnearly अनुष्टुप्
ना नीपवृक्षे हिण्डीरः फेनवार्त्ताकुपूरुषे ।
27.3.138 · p. 140