कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Medinīkośa

नानार्थशब्दकोश or मेदिनीकोश Medinīkośa

2,500 verses · text only, tagging comes next

वान्तवर्गः · वचतुष्कम्

वचतुष्कम्

अनुभावः प्रभावे स्यान्निश्चये भावबोधके ॥ ५५ ॥
29.4.55 · p. 161
भवेदभिषवः स्नाने मद्ये सन्धानयज्ञयोः ।अपह्नवस्तु पुंलिङ्गः स्मृतः स्नेहापलापयोः ॥ ५६ ॥
29.4.56 · p. 161
अनुष्टुप्
आदीनवः पुमान् दोषे परिक्लेशदुरन्तयोः ।उपप्लवः सैंहिकेये विप्लवोत्पातयोरपि ॥ ५७ ॥
29.4.57 · p. 161
अनुष्टुप्
कुशीलवस्तु वाल्मीकौ नटयाचकयोरपि ।जलबिल्वः कर्कटे स्यात् पञ्चाङ्गे जलचत्वरे ॥ ५८ ॥
29.4.58 · p. 161
अनुष्टुप्
जीवञ्चीवश्चकोरे स्याद् द्रुमभेदेऽपि पुंस्ययम् ।धामार्गवस्तु पुंसि स्यादपामार्गे च घोषके ॥ ५९ ॥
29.4.59 · p. 161
अनुष्टुप्
पारिप्लवश्चाकुले स्याञ्चञ्चले च पराभवः ।तिरस्कारे विनाशे च पुंसि पारशवः पुमान् ॥ ६० ॥
29.4.60 · p. 161
अनुष्टुप्
परस्त्रीतनये शस्त्रे द्विजात् शूद्रासुतेऽपि च ।पुटग्रीवस्तु पुंलिङ्गो गर्गरीताम्रकुम्भयोः ॥ ६१ ॥
29.4.61 · p. 162
अनुष्टुप्
बलदेवो बले वाते त्रायमाणौषधौ स्त्रियाम् ।रतिदेवस्तु नृपतेर्भेदे च गरुडध्वजे ॥ ६२ ॥
29.4.62 · p. 162
अनुष्टुप्
रोहिताश्वश्चित्रभानौ हरिश्चन्द्रनृपात्मजे ।अथ शीतशिवं क्लीबं शलेयमाणिमन्थयोः ॥ ६३ ॥
29.4.63 · p. 162
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 य (wrong syllable)
पुंसि शक्तुफलावृक्षे तथा मधुरिकौषधौ ।सहदेवा बलादण्डोत्पलयोः शारिवौषधौ ॥ ६४ ॥
29.4.64 · p. 162
अनुष्टुप्
सहदेवी तु सर्पाक्ष्यां पुंसि स्यात् पाण्डवे पुनः ।
29.4.11 · p. 162