कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Medinīkośa

नानार्थशब्दकोश or मेदिनीकोश Medinīkośa

2,500 verses · text only, tagging comes next

गान्तवर्गः · गचतुष्कम्

गचतुष्कम्

स्यादपवर्गस्त्यागे मोक्षे कार्यावसानसाफल्ये ॥ ५१ ॥
3.4.51 · p. 25
अभिषङ्गः पुंलिङ्गः पराभवाक्रोशशपथेषु ।ईहामृगस्तु पुंसि स्यात् कोकरूपकभेदयोः ॥ ५२ ॥
3.4.52 · p. 25
अनुष्टुप्metre not read in every line
उपरागस्तु पुंसि स्याद्राहु(१)ग्रस्तार्कचन्द्रयोः ।दुर्नये ग्रहकल्लोले व्यसनेऽपि निगद्यते ॥ ५३ ॥
3.4.53 · p. 25
अनुष्टुप्
उपसर्गः पुमान् रोगभेदोपप्लवयोरपि ।कटभङ्गस्तु शस्यानां हस्तच्छेदे नृपात्यये ॥ ५४ ॥
3.4.54 · p. 25
अनुष्टुप्
छत्रभङ्गोऽपि वैधव्ये स्वातन्त्र्यनृपनाशयोः ।दीर्घाध्वगः पुमानुष्ट्रे लेख्यहारे तु भेद्यवत् ॥ ५५ ॥
3.4.55 · p. 25
अनुष्टुप्
मल्लनागोऽभ्रमातङ्गे वात्स्यायनमुनावपि ।समायोगस्तु संयोगे समवाये प्रयोजने ॥ ५६ ॥
3.4.56 · p. 26
अनुष्टुप्
सम्प्रयोगो रतेऽपि स्यादन्वितौ कार्मणेऽपि च ।
3.4.7 · p. 26