कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Medinīkośa

नानार्थशब्दकोश or मेदिनीकोश Medinīkośa

2,500 verses · text only, tagging comes next

उपसंहारः

अव्ययानेकार्थवर्गः समाप्तः ।

उपसंहारः ।

उत्पलिनीशब्दार्णवसंसारावर्तनाममालाख्यान् ।भागुरिवररुचिशाश्वतवोपालितरन्तिदेवहरकोषान् ॥
35.1 · p. 186
गीतिः
उमरशुभाङ्कहलायुधगोवर्धनरभसपालकृतकोषान् ।रुद्रामरदत्ताजयगङ्गाधरधरणिकोषांश्च ॥
35.2 · p. 186
आर्या
हारावल्यभिधानं त्रिकाण्डशेषं च रत्नमालां च ।अपि बहुदोषं विश्वप्रकाशकेाषं च सुविचार्य ॥
35.3 · p. 186
आर्याimpossible sign sequence: श्वप्रकाशकेाषं च स
वाग्भटमाधववाचस्पतिधर्मव्याडितारपालाख्यान् ।अपि विश्वरूपविक्रमादित्यनामलिङ्गानि सुविचार्य ॥
35.4 · p. 186
metre not recognised
कात्यायनवामनचन्द्रगोमिरचितानि लिङ्गशास्त्राणि ।पाणिनिपदानुशासनपुराणकाव्यादिकं च सुनिरूप्य ॥
35.5 · p. 186
गीतिः
षट्शतगाथाकोषप्रणयनविख्यातकौशलेनाऽयम् ।मेदिनिकरेण कोषः प्राणकरसूनुना रचितः ॥
35.6 · p. 186
आर्याmetre not read in every line