कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Medinīkośa

नानार्थशब्दकोश or मेदिनीकोश Medinīkośa

2,500 verses · text only, tagging comes next

तान्तवर्गः · तत्रिकम्

तत्रिकम्

अमृतं यज्ञशेषे स्यात् पीयूषे सलिले घृते ।अयाचिते च मोक्षे च ना धन्वन्तरिदेवयोः ॥ ७७ ॥
16.3.77 · p. 59
अनुष्टुप्
अमृता मागधीपथ्यागुडूच्यामलकीषु च ।अनृतं कृषावसत्येऽप्यजितो ना हरौ त्रिषु ॥ ७८ ॥
16.3.78 · p. 59
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 कृ (wrong syllable)
अनिर्जिते चाच्युतस्तु हरौ पुंसि त्रिषु स्थिरे ।अर्दितं याचितेऽपि स्याद्वातव्याधौ च हिंसिते ॥ ७९ ॥
16.3.79 · p. 59
अनुष्टुप्
अक्षतं न द्वयोः पण्डे लाजेषु त्रिष्वहिंसिते ।यवेऽपि क्वचिद्व्यक्तो हरौ स्मरहरे पुमान् ॥ ८० ॥
16.3.80 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
परमात्ममहदाद्योः क्लीबं स्यादस्फुटे त्रिषु ।अनन्तः केशवे शेषे पुमाननवधौ त्रिषु ॥ ८१ ॥
16.3.81 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ह (wrong syllable)
अनन्ता च विशल्यायां शारिवादूर्वयोरपि ।कणादुरालभापथ्यापार्वत्यामलकीषु च ॥ ८२ ॥
16.3.82 · p. 60
अनुष्टुप्
विश्वम्भरागुडूच्योः स्यादनन्तं सुरवर्त्मनि ।आश्मन्तमशुभे चुल्यां मरणेऽनवधावपि ॥ ८३ ॥
16.3.83 · p. 60
अनुष्टुप्
क्षेत्रेऽप्यथायतिः पुंसि हिमदीधितिकालयोः ।अर्हस्तु क्षपणे बुद्धे पुंसि मान्येऽन्यलिङ्गकः ॥ ८४ ॥
16.3.84 · p. 60
अनुष्टुप्
अर्हन्तश्चापि सुगते क्षपणेऽपि च दृश्यते ।अगस्तिः कुम्भयोनौ च (१)वङ्कसेनतरौ पुमान् ॥ ८५ ॥
16.3.85 · p. 60
अनुष्टुप्
अर्वती कुम्भदास्यां च व वडवायां च योषिति ।अङ्गतिः पुंस्यग्निहोतृब्रह्मवह्निष्वथादितिः ॥ ८६ ॥
16.3.86 · p. 60
metre not recognisednearly अनुष्टुप्
भूदेवमात्रोरंहतिस्त्यागे रोगेऽप्युभे स्त्रियौ ।आपातः पुंसि पतने तदात्वे च प्रकीर्तितः ॥ ८७ ॥
16.3.87 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 रं (wrong syllable)
अघ्रातं शिङ्घिते क्रान्तेऽप्याख्यातं भाषिते तिङि ।आध्मातः शब्दिते दग्धे वातरुग्भेदसंयुते ॥ ८८ ॥
16.3.88 · p. 60
अनुष्टुप्
आप्लुतः स्नातके स्नातेऽप्यादृतः सादरेऽर्चिते ।आचितः शकटोन्मेये पलानामयुतद्वये ॥ ८९ ॥
16.3.89 · p. 60
अनुष्टुप्
पुंलिङ्गः सङ्गृहीतेऽपि छन्नेऽपि स्यात्त्रिलिङ्गकः ।आहतं गुणिते चापि ताडिते च मृषाऽर्थके ॥ ९० ॥
16.3.90 · p. 60
अनुष्टुप्
स्यात् पुरातनवस्त्रेऽपि नववस्त्रे च नाऽऽनके ।आनतों देशभेदेऽपि नृत्यस्थाने जले रणे ॥ ९१ ॥
16.3.91 · p. 60
अनुष्टुप्
आवर्तश्चिन्तने वारिभ्रमे चावर्तने पुमान् ।आस्फोतं तु पुमानर्कपर्णे स्यात् कोविदारके ॥ ९२ ॥
16.3.92 · p. 60
अनुष्टुप्
आस्फोता गिरिकर्ण्यां च वनमल्ल्यां च योषिति ।आयस्तस्तेजिते क्षिप्ते क्लेशिते कुपिते हते ॥ ९३ ॥
16.3.93 · p. 61
अनुष्टुप्
आयतिस्तु स्त्रियां दैर्घ्ये प्रभावागामिकालयोः ।आयत्तिस्तु स्त्रियां स्नेहे वशित्वे वासरे बले ॥ ९४ ॥
16.3.94 · p. 61
अनुष्टुप्
आकृतिस्तु स्त्रियां रूपे सामान्यवपुषोरपि ।आसत्तिः सङ्गमे लाभे स्त्रियामापत्तिरोपदि ॥ ९५ ॥
16.3.95 · p. 61
अनुष्टुप्
प्रापणेऽपि च योषित्स्यादुदन्तः साधुवार्तयोः ।उषितं व्युषिते दग्धेऽप्युदात्तस्तु स्वरान्तरे ॥ ९६ ॥
16.3.96 · p. 61
अनुष्टुप्
दयात्यागादिसम्पन्ने काव्यालङ्कारकृत्ययोः ।उत्तप्तं शुष्कमांसेऽथ त्रिषु तप्ते परिप्लुते ॥ ९७ ॥
16.3.97 · p. 61
अनुष्टुप्
उचितं तु भवे न्यस्ते मिते ज्ञाते समञ्जसे ।उद्धृतं स्यात्त्रिषूत्क्षिप्ते परिभुक्तोज्झितेऽपि च ॥ ९८ ॥
16.3.98 · p. 61
अनुष्टुप्
उत्थितं स्यात्त्रिषूत्पन्ने प्रोद्यते वृद्धिमत्यपि ।उद्घातस्तु पुमान् पादस्खलने समुपक्रमे ॥ ९९ ॥
16.3.99 · p. 61
अनुष्टुप्
(१)पवनाभ्यासयोगस्य कालभेदे च कीर्तितः ।उत्तुङ्गे मुद्गरेऽपि स्यादुदितं तूक्त आगते ॥ १०० ॥
16.3.100 · p. 61
अनुष्टुप्
उच्छ्रितं त्रिषु सञ्जाते समु(२)न्नद्धप्रवृद्धयोः ।उन्मत्त उन्मादवति धूस्तूरमुचुकुन्दयोः ॥ १०१ ॥
16.3.101 · p. 61
अनुष्टुप्
उद्वान्तो निर्मदगजे पुमानुद्वमिते त्रिषु ।एधतुः पुरुषेऽग्नौ ना कलितं विदिताप्तयोः ॥ १०२ ॥
16.3.102 · p. 61
अनुष्टुप्
कपोतः स्याच्चित्रकण्ठपारावतविहङ्गयोः ।अथ क्रन्दितमाह्वाने रुदितेऽपि नपुंसकम् ॥ १०३ ॥
16.3.103 · p. 61
अनुष्टुप्
क्षारितः स्राविते क्षारे चाभिशस्तेऽपि च त्रिषु ।कापोतो रुचके क्लीबे कपोतौघेऽञ्जनान्तरे ॥ १०४ ॥
16.3.104 · p. 61
अनुष्टुप्
किरातो म्लेच्छभेदे स्यात् भूनिम्बेऽल्पतनावपि ।स्त्रियां चामरधारिण्यां कुट्टिनीदुर्गयोरपि ॥ १०५ ॥
16.3.105 · p. 61
अनुष्टुप्
कृतान्तो यमसिद्धान्तदवाकुशलकर्मसु ।गर्जितं वारिवाहादिध्वनौ ना मत्तकुञ्जरे ॥ १०६ ॥
16.3.106 · p. 62
अनुष्टुप्
ग्रथितं गुम्फिते क्रान्ते हिंसिते च त्रिलिङ्गकम् ।गभस्तिः किरणे सूर्ये ना स्वाहायां तु योषिति ॥ १०७ ॥
16.3.107 · p. 62
अनुष्टुप्
गर्मुत् स्त्री स्वर्ण(१)लतयोर्गोपतिः शिवषण्ढयोः ।नृपभास्करयोः पुंसि चेष्टितं गतिचेष्टयोः ॥ १०८ ॥
16.3.108 · p. 62
अनुष्टुप्
जगत् स्यात् विष्टपे क्लीबं वायौ ना जङ्गमे त्रिषु ।जगती भुवने क्ष्मायां छन्दोभेदे जनेऽपि च ॥ १०९ ॥
16.3.109 · p. 62
अनुष्टुप्
जयन्ती वृक्षभिद्गौर्योरिन्द्रपुत्रीपताकयोः ।पुमानैन्द्रे हरे भीमे ज्वलितं दुग्ध उज्वले ॥ ११० ॥
16.3.110 · p. 62
अनुष्टुप्
जामाता दुहितुः पत्यौ सूर्यावर्त्ते धवे पुमान् ।जीमूतोऽद्रौ धृतिकरे देवताडे पयोधरे ॥ १११ ॥
16.3.111 · p. 62
अनुष्टुप्
जीवातुरस्त्रियां भक्ते जीविते जीवनौषधे ।जीवन्ती जीवनीशम्योर्गुडूचीवृन्दयोरपि ॥ ११२ ॥
16.3.112 · p. 62
अनुष्टुप्
जृम्भितं करणे स्त्रीणामीहास्फोटितयोरपि ।त्वरितं प्रजवे शीघ्रे त्रिगर्तो गणितान्तरे ॥ ११३ ॥
16.3.113 · p. 62
अनुष्टुप्
देशेऽपि ना घुर्घुरिकाकामुकाङ्गनयोः स्त्रियाम् ।तृणता धनुषि तृणत्वे दंशितमपि जातदंशे स्यात् ॥ ११४ ॥
16.3.114 · p. 62
अनुष्टुप्metre not read in every line
कवचाचिते द्विजातिर्विप्राण्डजयोश्च पुंलिङ्गः ।दुर्जातं व्यसने क्लीबे सम्यग्जातेऽन्यलिङ्गकम् ॥ ११५ ॥
16.3.115 · p. 62
अनुष्टुप्metre not read in every line
दुर्गतिर्नरके नैःस्व्ये स्त्री दृष्टान्त उदाहृतौ ।शास्त्रे च मरणे धीमान् पण्डिते च बृहस्पतौ ॥ ११६ ॥
16.3.116 · p. 62
अनुष्टुप्
निर्ऋतिः स्यादलक्ष्म्यां स्त्री दिशापालान्तरे पुमान् ।निकृतं विप्रलम्भे (२)स्यान्नीचे विप्रकृतेऽपि च ॥ ११७ ॥
16.3.117 · p. 62
अनुष्टुप्
निर्मुक्तस्त्यक्तसङ्गे स्यान्मुक्तकञ्चुकभोगिनि ।निरस्तस्त्रिषु निष्ठ्यूते प्रेषितेषौ द्रुतोदिते ॥ ११८ ॥
16.3.118 · p. 62
अनुष्टुप्
सन्त्यक्ते च प्रतिहते निमित्तं हेतुलक्ष्मणोः ।निवातो दृढसन्नाहे वातशून्येऽपि चाश्रये ॥ ११९ ॥
16.3.119 · p. 63
अनुष्टुप्
निशान्तं त्रिषु शान्ते स्यात् क्लीबं तु भवनोषसोः ।निकृतिर्भर्त्सने क्षेपे शठे शाठ्येऽपि च स्त्रियाम् ॥ १२० ॥
16.3.120 · p. 63
अनुष्टुप्
निर्वृतिः सुस्थितावस्तगमने च सुखे स्त्रियाम् ।नियतिर्नियमे दैवे स्त्री पतन् पातुके खगे ॥ १२१ ॥
16.3.121 · p. 63
अनुष्टुप्
प्रहतं वितते क्षुण्णे पर्यस्तः पतिते हते ।प्रभूतमुद्गते प्राज्ये पण्डितः सिल्हके कवौ ॥ १२२ ॥
16.3.122 · p. 63
अनुष्टुप्
पलितं शैलजे तापे केशपाके च कर्दमे ।प्रसृतः सुप्रसारे स्याद्विनीते वेगिते त्रिषु ॥ १२३ ॥
16.3.123 · p. 63
अनुष्टुप्
अर्द्धाञ्जलौ तु पुंलिङ्गो जङ्घायां प्रसृता मता ।प्रसूतं कुसुमे क्लीबं त्रिषु सञ्जातसूतयोः ॥ १२४ ॥
16.3.124 · p. 63
अनुष्टुप्
प्रणीतः संस्कृताग्नौ ना यज्ञपात्रान्तरे स्त्रियाम् ।त्रिषु क्षिप्तोपसम्पन्नविहितेषु प्रवेशिते ॥ १२५ ॥
16.3.125 · p. 63
अनुष्टुप्
प्रतीतः सादरे ज्ञाते हृष्टप्रख्यातयोस्त्रिषु ।प्रमीतं वाच्यलिङ्गं स्यात् प्रोक्षितेऽपि मृतेऽपि च ॥ १२६ ॥
16.3.126 · p. 63
अनुष्टुप्
परेतो वाच्यलिङ्गः स्यान्मृते भूतान्तरे पुमान् ।पर्वतः पादपे पुंसि शाकमत्स्यप्रभेदयोः ॥ १२७ ॥
16.3.127 · p. 63
अनुष्टुप्
देवमुन्यन्तरे शैले प्रपातो निर्झरे तटे ।पर्याप्तं तु यथेष्टे स्यात्तृप्तौ शक्ते निवारणे ॥ १२८ ॥
16.3.128 · p. 63
अनुष्टुप्
पञ्चता पञ्चभावे स्यान्मरणेऽपि च योषिति ।पक्षतिश्च भवेत् पक्षमूले च प्रतिपत्तिथौ ॥ १२९ ॥
16.3.129 · p. 63
अनुष्टुप्
प्रसूतिरुद्भवेऽपि स्यात्तनये दुहितर्यपि ।प्रततिर्विस्तृतौ वल्यां पद्धतिः पङ्क्तिवर्त्मनोः ॥ १३० ॥
16.3.130 · p. 63
अनुष्टुप्
प्रवृत्तिस्तु प्रवाहे स्यादुदन्ते च प्रवर्त्तने ।अवन्त्यादौ च पर्याप्तिः प्रकामप्राप्तिरक्षणे ॥ १३१ ॥
16.3.131 · p. 63
अनुष्टुप्
प्रकृतिर्गुणसाम्ये स्यादमात्यादिस्वभावयोः ।योनौ लिङ्गे पौरवर्गेऽमी पक्षत्यादयः स्त्रियाम् ॥ १३२ ॥
16.3.132 · p. 63
अनुष्टुप्
पार्वती सल्लकीदुर्गागोपालपुत्रिकासु च ।प्रार्थितं याचिते शत्रुसंरुद्धेऽभिहते त्रिषु ॥ १३३ ॥
16.3.133 · p. 64
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ल (wrong syllable)
पित्सन् विहङ्गमे पुंसि पतनेच्छौ पुनस्त्रिषु ।पिशितं मांसे मांस्यां स्त्री पिण्डितं गुणिते घने ॥ १३४ ॥
16.3.134 · p. 64
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 से (wrong syllable)
पीडितं करणे स्त्रीणां यन्त्रिते बाधितेऽपि च ।पुटितं स्या(१)दहिपुटे पाटितस्यूतयोरपि ॥ १३५ ॥
16.3.135 · p. 64
अनुष्टुप्
पृषन् मृगे पुमान् बिन्दौ न द्वयोः पृषतोऽपि ना ।अनयोश्च त्रिषु श्वेतबिन्दुयुक्तेऽप्युभाविमौ ॥ १३६ ॥
16.3.136 · p. 64
अनुष्टुप्
प्रोक्षितं निहते सिक्ते बृहती वसनान्तरे ।छन्दोभित्क्षुद्रवार्ताकीवारिधानीषु वाचि च ॥ १३७ ॥
16.3.137 · p. 64
अनुष्टुप्
कण्टकारीमहत्योश्च भवेद्युष्मत्सतोस्त्रिषु ।स्त्री बाणभेदे भरतो नाट्याशास्त्रमुनौ तटे ॥ १३८ ॥
16.3.138 · p. 64
अनुष्टुप्
रामानुजे च दौष्यन्तौ भास्वान् भास्वरसूर्ययोः ।भारतं ग्रन्थभेदे स्याद्वर्षभेदेऽथ भारती ॥ १३९ ॥
16.3.139 · p. 64
अनुष्टुप्
वचने च सरस्वत्यां पक्षिवृत्तिप्रभेदयोः ।भासन्तः सुन्दराकारे त्रिषु ना भासपक्षिणि ॥ १४० ॥
16.3.140 · p. 64
अनुष्टुप्
भावितं वासिते प्राप्ते भूभृन्नाऽद्रौ महीपतौ ।महती वल्लकीभेदे राज्ये स्यात्तु नपुंसकम् ॥ १४१ ॥
16.3.141 · p. 64
अनुष्टुप्
तत्त्वभेदे पुमान् वृद्धे वाच्यवन्मथितं पुनः ।क्लीबं निर्जलघोले स्यात् त्रिष्वालोडितघृष्टयोः ॥ १४२ ॥
16.3.142 · p. 64
अनुष्टुप्
मरुद्देवे समीरे ना ग्रन्थिपर्णे नपुंसकम् ।मुषितं हृतखण्डितयोर्मूर्च्छितमपि सोच्छ्रये च मूढे च ॥ १४३ ॥
16.3.143 · p. 64
अनुष्टुप्metre not read in every line
रजतं त्रिषु शुक्ले स्यात् क्लीबं हारे च दुर्वर्णे ।रमतिर्नायके नाके पुंसि स्याद्रसितं पुनः ॥ १४४ ॥
16.3.144 · p. 64
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 र्व (wrong syllable)
रुतस्तनितयोः क्लीबं स्वर्णादिखचिते त्रिषु ।रेवती हलिपत्न्यां स्यात्ताराभिन्मातृभेदयोः ॥ १४५ ॥
16.3.145 · p. 64
अनुष्टुप्
रैवतस्तु सुवर्णालौ शैलभेदे च शङ्करे ।रोहितं कुङ्कुमे रक्ते ऋजुशक्रशरासने ॥ १४६ ॥
16.3.146 · p. 65
अनुष्टुप्
पुंसि स्यान्मीनमृगयोर्भेदे रोहितकद्रुमे ।रोहिन् मृग्यां लताभेदे स्त्री नाऽर्के ललितं त्रिषु ॥ १४७ ॥
16.3.147 · p. 65
अनुष्टुप्
ललिते चेशितेऽपि स्याद्धारभेदे तु न द्वयोः ।लोहितं रक्तगोशीर्षे कुङ्कुमे रक्तचन्दने ॥ १४८ ॥
16.3.148 · p. 65
अनुष्टुप्
पुमान्नदान्तरे भौमे वर्णे च त्रिषु तद्वति ।वर्द्धितं प्रसिते छिन्ने पूरिते वहतिर्गवि ॥ १४९ ॥
16.3.149 · p. 65
अनुष्टुप्
सचिवे पुंसि वहतुः पथिके वृषभे पुमान् ।वनिता जातरागस्त्रीस्त्रियोस्त्रिषु च याचिते ॥ १५० ॥
16.3.150 · p. 65
अनुष्टुप्
सेविते वापितं बीजाकृतमुण्डितयोस्त्रिषु ।वसतिः स्यात् स्त्रियां वासे यामिन्यां च निकेतने ॥ १५१ ॥
16.3.151 · p. 65
अनुष्टुप्
व्यायतं व्यापृते दीर्घे दृढे चातिशयेऽन्यवत् ।व्याघातो योगभेदे स्यादन्तरायप्रहारयोः ॥ १५२ ॥
16.3.152 · p. 65
अनुष्टुप्
वासिता करिणीनार्योर्वासितं भाविते रुते ।वासन्ती माधवीयूथ्योरुष्ट्रे नाऽवहिते त्रिषु ॥ १५३ ॥
16.3.153 · p. 65
अनुष्टुप्
विविक्तं त्रिष्वसम्पृक्ते रहःपूतविवेकिषु ।वसुनन्दे ना विहस्तः पण्डिते व्याकुले त्रिषु ॥ १५४ ॥
16.3.154 · p. 65
अनुष्टुप्
विनीतः सुवहाश्वे स्याद्वणिज्यपि पुमांस्त्रिषु ।जितेन्द्रियेऽपनीते च निभृते विनयान्विते ॥ १५५ ॥
16.3.155 · p. 65
अनुष्टुप्
विश्वस्तो जातविश्वासे विश्वस्ता विधवास्त्रियाम् ।विद्युत्तडिति सन्ध्यायां स्त्रियां त्रिषु तु निष्प्रभे ॥ १५६ ॥
16.3.156 · p. 65
अनुष्टुप्
विवृता क्षुद्ररुग्भेदे विस्तृते त्वभिधेयवत् ।विनेताऽदेशके राज्ञि ना विधाता तु वेधसि ॥ १५७ ॥
16.3.157 · p. 65
अनुष्टुप्
स्मरे ना विनता तार्क्ष्यजनन्यां पटकाभिदि ।विनतः प्रणते भुग्ने शिक्षिते चाभिधेयवत् ॥ १५८ ॥
16.3.158 · p. 65
अनुष्टुप्
विकृतं त्रिषु बीभत्सरागिते संस्कृतेऽपि च ।विच्छित्तिरङ्गरागे विच्छेदे हारभेदे स्त्री ॥ १५९ ॥
16.3.159 · p. 65
अनुष्टुप्metre not read in every line
विदितं बुधितार्थितयोर्विपत्तिरपि यातनाऽऽपदोर्योषित् ।वृत्तान्तः प्रक्रियायां स्यात् कार्त्स्न्यवार्त्ताप्रभेदयोः ॥ १६० ॥
16.3.160 · p. 66
अनुष्टुप्metre not read in every line
प्रस्तावे वेष्टितं रुद्धे लासके करणान्तरे ।वेल्लितं गमने क्लीबं कुटिले विधुते त्रिषु ॥ १६१ ॥
16.3.161 · p. 66
अनुष्टुप्
(१)विवर्त्तः समुदाये स्यादपवर्तननृत्ययोः ।शकुन्तः कीटभेदे स्याद्भासपक्षिविहङ्गयोः ॥ १६२ ॥
16.3.162 · p. 66
अनुष्टुप्
श्रीमांस्तिलकवृक्षे ना मनोज्ञे धनिके त्रिषु ।श्रीपतिः पुंसि पृथिवीनाथे च मधुसूदने ॥ १६३ ॥
16.3.163 · p. 66
अनुष्टुप्
शुद्धान्तोऽन्तःपुरे क्ष्माभृद्रहःकक्षान्तरेऽपि च ।स्रवन्ती तु तरङ्गिण्यां गुल्मस्थानौषधीभिदोः ॥ १६४ ॥
16.3.164 · p. 66
अनुष्टुप्
संवर्त्तः प्रलये मुन्यन्तरे कर्षफलेऽपि च ।स्खलितं चलिते भ्रेषे संहतं सङ्गते दृढे ॥ १६५ ॥
16.3.165 · p. 66
अनुष्टुप्
संस्कृतः कृत्रिमे शस्ते भूषितेऽष्वन्यलिङ्गकः ।क्लीबं तु लक्षणोपेते स्थपतिः कञ्चुकिन्यपि ॥ १६६ ॥
16.3.166 · p. 66
अनुष्टुप्
जीवेष्टियाजके शिल्पिभेदे ना सत्तमे त्रिषु ।सङ्घातः पुंसि घाते च संहतौ नरकान्तरे ॥ १६७ ॥
16.3.167 · p. 66
अनुष्टुप्
संवित्तिः प्रतिपत्तौ स्यादविवादे जनस्य च ।सन्ततिः स्यात् पंक्तौ गोत्रे पारम्पर्ये च पुत्रयोः ॥ १६८ ॥
16.3.168 · p. 66
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पं (wrong syllable)
(२)सङ्गतिः सङ्गमे ज्ञाने सन्नतिः प्रणतौ ध्वनौ ।समितिः सम्पराये स्यात्सभायां सङ्गमेऽपि च ॥ १६९ ॥
16.3.169 · p. 66
अनुष्टुप्
समाप्तिरवसाने स्यात्समर्थनेऽथ सम्मतिः ।अभिलाषेऽप्यनुज्ञायां संवित्याद्यास्तु योषिति ॥ १७० ॥
16.3.170 · p. 66
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्थ (wrong syllable)
स्थापितं निश्चिते न्यस्ते (३)स्तिमितोऽचञ्चलार्द्रयोः ।सिकता स्त्री सिकतिले वालुकायां तु भूमनि ॥ १७१ ॥
16.3.171 · p. 66
अनुष्टुप्
सुरतं स्यान्निधुवने देवत्वे सुरता स्मृता ।सुकृतं तु शुभे पुण्ये क्लीबं सुविहिते त्रिषु ॥ १७२ ॥
16.3.172 · p. 66
अनुष्टुप्
सुव्रता सुखसन्दोह्याशोभनव्रतयोरपि ।सुनीतिः शोभननये ध्रुवमातरि योषिति ॥ १७३ ॥
16.3.173 · p. 67
अनुष्टुप्
सूनृतं मङ्गलेऽपि स्यात् प्रियसत्ये वचस्यपि ।हरिद्दिशि स्त्रियां पुंसि हयवर्णविशेषयोः ॥ १७४ ॥
16.3.174 · p. 67
अनुष्टुप्
अस्त्रियां स्यात्तृणे चाथ हर्मितं क्षिप्तदग्धयोः ।हरिता स्त्री च दूर्वायां हरिद्वर्णयुतेऽन्यवत् ॥ १७५ ॥
16.3.175 · p. 67
अनुष्टुप्
हसन्त्यङ्गारधान्यां च मल्लिकाशाकिनीभिदोः ।हारीतः पक्षिभेदे स्यान्मुनिभेदे च कैतवे ॥ १७६ ॥
16.3.176 · p. 67
अनुष्टुप्
हृषितं विस्मिते प्रीते प्रहते हृष्टलोमनि ।
16.3.101 · p. 67